SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ • नानातन्त्रस्थाऽपुनर्बन्धकोत्थानप्रक्रिया • ९९९ तत्तत्तन्त्रोक्तमखिलमपुनर्बन्धकस्य तु । अवस्थाभेदतो न्याय्यं परमानन्दकारणम् ॥३२॥ तत्तदिति । तत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तं अपुनर्बन्धकस्य तु अवस्थाभेदतो = दशावैचित्र्यात् न्याय्यं = युक्तम्, निवृत्ताऽसद्ग्रहत्वेन सद्ग्रहप्रवृत्तत्वेन च परमानन्दस्य = प्रशमसुखस्य कारणं (=परमानन्दकारणम्) । __यदपि विष्णुधर्मोत्तरे शङ्करेण परशुरामं प्रति → अहिंसा सत्यवचनं दया भूतेष्वनुग्रहः । यस्यैतानि सदा राम ! तस्य तुष्यति केशवः ।। माता-पितृ-गुरूणां च यः सम्यगिह वर्तते । वर्जको मधु-मांसस्य तस्य तुष्यति केशवः ।। वाराह-मत्स्य-मांसानि यो नात्ति भृगुनन्दन !। विरतो मद्यपानाच्च, तस्य तुष्यति केशवः ।। 6 (वि.ध.खण्ड१, अ.५८/१,२,३) इत्युक्तं तदपि योगपूर्वसेवान्तर्गततयाऽवगन्तव्यम् । एवमेव पूर्वोक्तं (द्वा.द्वा.८/९-भाग-२ पृ.५५६) यमादिकं अन्यदपि च परतन्त्रोक्तमपुनर्बन्धकाऽहं गुण-सदाचारादिकं यथागममिहाऽनुसन्धेयम् ।।१४/३१ ।। ____ अथ नानादर्शनोक्तधर्माऽनुष्ठानमाश्रित्य व्याचष्टे- 'तत्तदिति । अपुनर्बन्धकस्य दशावैचित्र्याद् युक्तम्। अपुनर्बन्धकोचिताचारात् कर्मोदयादिना च्युतोऽपि पुनः स्वोचिताचारप्रयत्नाऽवसेयः ‘आदिधार्मिकोऽयमि'ति। तदुक्तं ललितविस्तरायां → भग्नोऽप्येतद्यत्नलिङ्गोऽपुनर्बन्धक इति तं प्रत्युपदेशसाफल्यम् । 'नाऽनिवृत्ताधिकारायां प्रकृतावेवम्भूत' इति कापिलाः, 'नाऽनवाप्तभवविपाक' इति च सौगताः, 'अपुनर्बन्धकास्त्वेवम्भूता' इति जैनाः (ल.वि. प्रान्ते-पृष्ठ-११८) इति । एतद्युक्तत्वे हेतुमाह- निवृत्ताऽसद्ग्रहत्वेन = व्यावृत्ताऽतत्त्वाऽभिनिवेशत्वेन सद्ग्रहप्रवृत्तत्वेन च = असम्मूढदृढतरसत्प्रवृत्तिप्रयोजक-स्वभूमिकोचित-तत्त्वाभिनिवेशप्रवृत्तत्वेन च प्रशमसुखस्य = विषय-कषायविजयप्रसूताऽग्रिम-मनोज्ञाऽऽनन्दस्य कारणं = निमित्तं भवति, अपुनर्बन्धकस्याऽनेकस्वरूपाऽभ्युपगमात् । नदीपाषाणघोलनन्यायेन योगानुयोगतोऽपुनर्बन्धकत्वप्राप्तावपि देह-गेहाद्यास्थाऽवस्थायां सौगतदर्शनसिद्धान्तोपदेशेन मरणादिभयदशायां च साङ्ख्यसिद्धान्तोपदेशेन यद्वा देह-गेह-स्नेहादेः क्षणभङ्गुरतादिदर्शनतः 'रुचिरं नेह सुचिरमिति भावनाभावितान्तःकरणावस्थायां सौगत-दर्शनोक्तपञ्चशीलाद्यनुष्ठानेन अनादिकालतश्च चतुर्गतिभवभ्रमणकरणेऽपि स्वस्थस्याऽऽत्मतत्त्वस्योपादेयत्वदृष्ट्या विभावनतः 'ध्रुवोऽहमिति भावनाभावितान्तःकरणदशायां साङ्ख्यदर्शनोक्तयम-नियमाद्यनुष्ठानेनाऽसदभिनिवेशविप्रमुक्तमपुनर्बन्धकीयं चित्तं शान्तं प्रशान्तमुपशान्तञ्च सम्पद्यत इति भावः । _प्रकृते → यस्य येनाऽर्थसम्बन्धो दूरस्थस्याऽपि तस्य सः । अर्थतो ह्यसमर्थानामानन्तर्यमकारणम् ।। ગાથાર્થ - તે તે દર્શનમાં જણાવેલ તમામ અનુષ્ઠાન અપુનબંધક જીવમાં અલગ-અલગ અવસ્થાની અપેક્ષાએ સંગત થાય છે અને તે અનુષ્ઠાન તેને પરમાનંદનું કારણ બને છે. (૧૪/૩૨) ટીકાર્થઃ-તે તે સાંખ્ય-બૌદ્ધ વગેરે દર્શનોના શાસ્ત્રોમાં જણાવેલ મુમુક્ષુજીવયોગ્ય તમામ અનુષ્ઠાન અપુનબંધક જીવમાં માનવા યુક્તિસંગત છે. કારણ કે તેની અવસ્થા વિવિધ પ્રકારની હોય છે. અપુનબંધક જીવનો કદાગ્રહ રવાના થયેલ હોવાથી અને સદભિનિવેશ પ્રવૃત્ત થયેલ હોવાથી તેની આરાધના પ્રશમસુખનું કારણ બને છે. १. 'च' इति मूलादर्श मुद्रितप्रतौ च । परं व्याख्यानुसारेणात्र 'तु' इति पाठो युक्तः । हस्तादर्शेऽपि लभ्यते तथैव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy