________________
९९८
• अपुनर्बन्धकस्याऽन्यगुणगणग्रथनम् . द्वात्रिंशिका-१४/३१ अनुमोदते धार्मिकजनं, नोद्घाटयति परमर्माणि, सुवेष-सदाचार-सदुक्तिपरतया वर्तते, नोल्लङ्घते निजोचितस्थिति, जुगुप्सति मद्य-मांसाद्यासक्तिं, अपेक्षते लोकमार्ग, प्रवर्तते दानादौ, परित्यजति विवादं, न समाचरत्यबुद्धबुद्धिभेदनं, बहुमन्यते विशिष्टगुणलोकं, करोत्युदारपूजां भगवतां, निरूपयति साधुविशेषं, अवलम्बते धैर्य, नोपेक्षते परलोकमार्ग, पर्यालोचयत्यायतिं, अवलोकयति सन्निहितं मृत्युं, गृह्णाति दुर्गतिभयम्, प्रतिपद्यते मनुष्यभवदुर्लभतां, शृणोति विधिना धर्मशास्त्रं, भावयति यत्नेन, अनुतिष्ठति तदर्थं स्वभूमिकोचितं विधानेन, विधत्ते नवनीतपिण्डोपमं स्वहृदयम्, करोति मङ्गलजापं, → यन्त्रं विना देवता च न प्रसीदति सर्वदा - (सू.ता.५/१) इति सूर्यतापिन्युपनिषदादिवचनात् समारचयति यन्त्र-योगपट्टादिकं, समादरेण स्थापयति भुवनगुरुरूपादिकं स्वचेतसि, परिहरति योगविक्षेपमार्ग, सात्मीभावमानयति विवेकदृष्टिम्, भावयति कनक-कामिनी-कायादीनामनित्यतां, चिन्तयति सततं कायादीनामशुचिरूपतां, ध्यायति विषयसेवनादीनामाकुलतया दुःखात्मकतां, विरहयति समस्तकुतर्कजालम्, विमृशति समस्तवस्तुतत्त्वमनौपाधिकम्, विमुञ्चति पुत्रकलत्रादिषु तत्त्वधियं, लक्षयति गुण-दोषविशेषं, प्रयतते योगशुद्धौ योगसिद्धौ चेति यथागममूहनीयम् । ___ महापुरुषाणां क्षीणप्रायकर्मणां विशुद्धाशयानां भवाऽबहुमानिनामपुनर्बन्धकानां चैत्यवन्दनाऽधिकारित्वनिरूपणाऽवसरे ललितविस्तरायां → (१) तत्कथाप्रीतिः, (२) निन्दाऽश्रवणम्, (३) तेष्वनुकम्पा, (४) चेतसो न्यासः, (५) परा जिज्ञासा । तथा (६) गुरुविनयः, (७) सत्कालाऽपेक्षा, (८) उचिताऽऽसनं, (९) युक्तस्वरता, (१०) पाठोपयोगः । तथा, (११) लोकप्रियत्वं, (१२) अगर्हिता क्रिया, (१३) व्यसने धैर्य, (१४) शक्तितः त्यागः, (१५) लब्धलक्ष्यत्वञ्च - (ल.वि.पृ.५) इत्येवं यानि चैत्यवन्दनकथाप्रीत्यादीनि लिङगानि दर्शितानि तान्यप्यत्र सदनुष्ठानप्रवर्तनकालाद्यपेक्षया योज्यानि यथागमम् । एवमेव पूर्वोपदर्शिता समग्रा योगपूर्वसेवा (द्वा.द्वा.१२ ) अप्यनुसन्धेयाऽत्र । → इत्येव योगप्रथमाधिकारिप्रवर्तनं किञ्चिदिदं न्यगादि । यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो ग्रन्थिभिदा भवन्ति ।। 6 (अ.तत्त्वा. २।४३) इति अध्यात्मतत्त्वालोककारिकाऽप्यत्राऽनुसन्धेया मनीषिभिः ।
यत्तु सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे → एकच्चो सच्चो चस्स सद्धो च, न च कुहको, न च लपको, न च निमित्तिको, न च निप्पेसिको, न च लाभेन लाभं निजिगीसनको, इन्द्रियेसु गुत्तदारो, भोजने मत्त, समकारी,जागरियानुयोगमनुयुत्तो, अतन्दितो, आरद्धवीरियो, झायी, सतिमा, कल्याणपटिभानो, गतिमा, धितिमा, मतिमा, न च कामेसु गिद्धो, सतो च निपको च । एतदानुत्तरियं, भन्ते ! पुरिससीलसमाचारे - (दी.नि. ३।५/१५३/पृष्ठ.७९ सम्मपसादनीयसुत्त) इत्येवं शीलसमाचारो दर्शितः सोऽपीहैवान्तर्भावनीयो यथागमं बहुश्रुतैः । 'कुहकः = दम्भी, लपकः = मुखरः व्यर्थप्रलापकारीति यावत्, मत्तञ्जू = मात्रज्ञः, समकारी = मध्यस्थाऽऽचरणशीलः, सतिमा = स्मृतिमान्, कल्याणपटिभानो = कल्याणकारिप्रतिभावान्, सतो = स्मृतिमान्, निपको = निःशेषप्रज्ञावान् । शिष्टं स्पष्टम् । સર્વોત્તમ કહેવાય. આવા સર્વોત્તમ અનુષ્ઠાન ગ્રંથિભેદના કારણે જેને ઉત્તમ વિવેકદૃષ્ટિ સંપ્રાપ્ત થયેલ છે તેવા સમકિતી જીવને જ મળી શકે છે. (૧૪/૩૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org