SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अपुनर्जन्मने जायमान एव तात्त्विकबोधः • ९९७ फलवतः = फलप्राग्भारभाजो द्रुमस्य न्यग्रोधादेः सद् अवन्ध्यं यद् बीजं तस्य प्ररोहोद्भेदः अङ्कुरोद्गमः तत्सन्निभं (= फलवद्द्द्रुमसद्बीजप्ररोहोभेदसन्निभम् ), शुभाऽनुबन्धसारत्वात् ।।३१।। समाम्नाता । प्रकृते मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति ।। ← (आ.नि. ११०० ) इति आवश्यकनिर्युक्तिवचनमपि यथासम्भवमनुयोज्यम् । मिथ्यात्वमोहनीयादिविगमोपहित-यथावस्थितश्रद्धा-प्रज्ञादिबलेनास्य गुणाऽधिकप्रवृत्तिरेव सर्वत्र । तदुक्तं ब्रह्मसिद्धान्तसमुच्चये गुणोत्कर्षेण सर्वत्र प्रवृत्तिर्युज्यत सताम् । बाधाऽदर्शनतश्चैव तथा चाऽयं प्रवर्तते । । ← ( ब्र.सि. १३८) इति । यत्तु योगबिन्दौ फलवद्धुमसद्बीजप्ररोहसदृशं तथा । साध्वनुष्ठानमित्युक्तं सानुबन्धं महर्षिभिः ।। अन्तर्विवेकसम्भूतं शान्तोदात्तमविप्लुतम् । नाऽग्रोद्भवलताप्रायं बहिश्चेष्टाधिमुक्तिकम् ।। इष्यते चैतदप्यत्र विषयोपाधिसङ्गतम् । निदर्शितमिदं तावत् पूर्वमत्रैव लेशतः ।। ← (यो. बिं. २४८-२४९-२५० ) इत्येवमपुनर्बन्धकेऽपि सर्वोत्तमानुष्ठानमावेदितं तत्तु नैगमनयतोऽवगन्तव्यम् । प्रकृते च भिन्नग्रन्थेः 'क्रियमाणं कृतमिति सिद्धान्ताश्रयणात् प्रागुक्तरीत्या ( द्वा. द्वा. १४/१८ पृ.९७३) तदावेदितमिति नास्ति कश्चिद् विरोधः । = • = एतेन अपुनर्जन्मने यः स्याद् बोधः स ज्ञानशब्दभाक् । वसनाऽशनदा शेषा व्यवस्था शिल्पजीविका ।। ← (यो. वा. निर्वाणप्रकरण- उत्तरार्ध-२२/४) इति योगवाशिष्ठवचनमपि व्याख्यातम्, तत्र ज्ञानशब्दाद् नयमतभेदेनाऽपुनर्बन्धक-सम्यग्दृष्ट्याद्यनुगतबोधस्य मोक्षयोजकत्वरूपेणोपस्थापनादिति । एतेन सर्वथैव मिथ्यादृष्टि-सम्यग्दृष्टिबोधयोस्साधारणधर्माऽसम्भवः, तयोर्विलक्षणत्वादिति निरस्तम्, अपुनर्बन्धकादिबोधेषु वक्ष्यमाण (द्वाद्वा. २१, २२) मित्रादिदृष्टित्वाऽन्यथानुपपत्तेरिति दिक् । अस्याञ्चावस्थायां योगी रौद्रतां मुञ्चति, रागोद्रेकं शिथिलयति, द्वेषौत्कट्यं न भजति, सेवते दयालुतां, न विधत्ते परपरिभवं अपक्षिपति वाचाटतां, निर्भर्त्सयति कौटिल्यं, अपहस्तयति परवञ्चनम्, निराकरोति परद्रोहबुद्धिम्, मुञ्चति कोपनशीलतां, परिवर्जयति खलसंसर्गं, आसेवते कल्याणमित्रयोगं, विमुञ्चति पैशुन्यम्, शिथिलयति वाक्परुषतां अनाचरति वक्रोक्तिं, गर्हयति परपरिहासं, अभ्यस्यति गुणानुरागं त्यजति मिथ्याभिमानं, परित्यजति परदाराऽऽ सेवनं, न विलोकयति तदिन्द्रियादीनि परिहरति धनादिगर्वं, निधत्ते चेतसि दुःखितदुःखपरित्राणेच्छां पूजयति गुरुसंहतिं वन्दते देवसङ्घ, सन्मानयति परिजनं, पूरयति प्रणयिलोकं दर्शयति सर्वप्राणिनां बन्धुभावं नोदास्ते परव्यसनोपनिपातेषु, वर्जयति बलोद्रेकं, रहयति रूपोत्सेकं, अनुसरति सृहृवर्गं न भाषते पराऽवर्णवादं गृह्णाति परकीयगुणान्, लज्जते स्वगुणविकत्थनेन, यतते परार्थसम्पादने, स्मरति सुकृतमणीयोऽपि, सम्भाषते प्रथमं विशिष्टलोकं, વડલા વગેરેના અવંધ્ય બીજનો અંકુરો ફૂટવા સમાન સર્વોત્તમ સદનુષ્ઠાન હોય છે. આવું હોવાનું કારણ એ છે કે તે સર્વોત્તમ અનુષ્ઠાનના શુભ અનુબંધો મજબૂત કોટિના હોય છે. (૧૪/૩૧) વિશેષાર્થ :- જેનું મુખ્ય ફળ અવશ્ય મળે તેવા પ્રકારના અને તે મુખ્ય ફળ ન મળે ત્યાં સુધી તેને ઉપયોગી સુંદર ઉચ્ચ ગુણવત્તાવાળા સાધનોની સંપ્રાપ્તિ અવશ્ય કરાવે તેવા પ્રકારના અનુષ્ઠાનો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy