________________
• महापुरुषगुणानां स्वयमेव प्रादुर्भावः • १०९३)। तथा- "गभगए जं जणणी जाय सुधम्मे तेण धम्मजिणो" (आ.नि.१०९९) । तथा"जाया जणणी जं सुब्बयत्ति मुणिसुब्बओ तम्हा" (आ.नि.११०३) इत्यादि । इदं गर्भावस्थायामुक्तम् । उत्तरकालेऽप्यत्युचितैव तेषां क्रिया। यत उक्तं- “औचित्याऽऽरम्भिणोऽक्षुद्राः प्रेक्षावन्तः शुभाऽऽशयाः। अतीव मइसंपन्ना जाया । दोण्हवि सवत्तीणं मयपइयाणं ववहारो छिन्नो, जहा मम पुत्तो भविस्सइ, सो जोव्वणत्थो एयस्स असोगवरपायवस्स अहे ववहारं तुब्भं छिंदिहिति । ताव एगयाओ भवह । इयरी भणइ एवं भवतु । पुत्तमाया नेच्छइ । भणइ-ववहारो छिज्जउ, ततो भावं नाऊण छिन्नो ववहारो, दिन्नो तीसे पुत्तो । एवमादी गब्भगुणेणं जणणीए सुमति जाय त्ति सुमतिनामं कयं 6 (आ.नि.१०९३ वृत्ति) इति । तथा 'गब्भगए' इति । → भगवति गर्भगते येन कारणेन विशेषतो जननी जाता सुधर्मा = दान-दयादिरूपशोभनधर्मपरायणा तेन नामतो धर्मजिनः - (आ.नि.वृ.१०९९ वृत्ति) इति मलयगिरिसूरिवृत्तिः । तथा 'जाया' इति । → सामण्णं सव्वेसिं सुव्वता, विसेसो गभगते माता पिता य सुव्वता जाता (आव.चू.११०३) इति आवश्यकचूर्णो जिनदासगणिमहत्तरा व्याचक्षते ।
सद्योगारम्भकाणां गर्भावस्थामेवाऽधिकृत्यैव योगबिन्दौ → जात्यकाञ्चनतुल्यास्तत्प्रतिपच्चन्द्रसन्निभाः । सदोजोरत्नतुल्याश्च लोकाऽभ्युदयहेतवः ।। 6 (यो.बि. २४३) इत्यप्युक्तमत्राऽनुसन्धेयम् । यथोक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि → प्रादुर्भवन्ति महतां स्वयमेव यतो गुणाः - (त्रि.श.पु. ११७९९) इति । प्रकृते → कत्थ व न जलइ अग्गी कत्थ व चंदो न पायडो होइ । कत्थ वरलक्खणधरा न पायडा होंति सप्पुरिसा ।। -- (बृ.क.भा.१२४५) इति बृहत्कल्पभाष्योक्तिरप्यवश्यमनुस्मर्तव्या । → महापुमांसो गर्भस्था अपि लोकोपकारिणः - (त्रि.श.पु.२/२/१०६) इति त्रिषष्टिशलाकापुरुषचरित्रवचनमप्यत्र न विस्मर्तव्यम् । → यथा वृक्षस्य सम्पुष्पितस्य दूराद् गन्धो वात्येवं पुण्यस्य कर्मणो दूराद् गन्धो वाति - (म.नारा.८/२) इति महानारायणोपनिषद्वचनमप्यत्रानुयोज्यं यथातन्त्रम् । तादृशगर्भयोगादेव जनन्यादेरपि सुरेन्द्रादिवन्द्यत्वमुपजायते । लौकिकैरप्युच्यते → निरतिशयं गरिमाणं तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्ने जगतामपि यो गुरुर्भवति ।। - (धर्मसंग्रहवृत्तौ उद्धृतः भाग-१ पृष्ठ-३६४ गा.५९) इति । ____ उत्तरकालेऽपि = गर्भावस्थासमाप्त्युत्तरकालाऽवच्छेदेनाऽपि अत्युचितैव = लोकानामतिश्लाघनीयैव तेषां = सद्योगारम्भकाणां क्रिया । यतो योगबिन्दौ उक्तं- 'औचित्ये'त्यादि । तवृत्तिस्त्वेवम् → औचित्याऽऽरम्भिणः = सर्वार्थेषु योग्याऽऽरम्भभाजः, अक्षुद्राः = गम्भीराऽऽशयाः, प्रेक्षावन्तः = अतिनिपुणबुद्धिभाजः, शुभाऽऽशयाः = शुभपरिणामाः, अवन्ध्यचेष्टाः = अनिष्फलव्यापाराः, कालज्ञाः = प्रस्तावविदः किमित्याह- योगधर्माજે કારણે ભગવાન ગર્ભમાં આવતાની સાથે માતા સુંદર ધર્મમાં ઉદ્યત થયા. તેથી ધર્મજિનેશ્વર એમ નામ પાડ્યું.” “માતા સુંદર વ્રત સંપન્ન થયા થયા તે કારણે મુનિસુવ્રત નામ પડ્યું.” ઈત્યાદિ રૂપે આવશ્યકનિયુક્તિ ગ્રંથમાં સંભળાય છે. આ વાત તીર્થકર ભગવંતો માતાની કુક્ષિમાં પધાર્યા તે અવસ્થાની અપેક્ષાએ જણાવેલ છે. તીર્થકર ભગવંતોનો જન્મ થયા પછીના સમયે પણ તેઓની ક્રિયા ઉચિત જ હોય છે. કારણ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “ઔચિત્યવાળી પ્રવૃત્તિનો આરંભ કરનારા,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org