________________
• निरनुबन्धसिद्धेः पतनरूपता •
९९१ ____ शल्योपहतप्रासादादिरचनाया इवाऽन्यस्या मिथ्याभिनिवेशादिपातशक्त्यनुवेधेनासिद्धित्वात्' । तदुक्तं- "सिद्ध्यन्तरं न सन्धत्ते या सावश्यं पतत्यतः२ । तच्छक्त्याप्यनुविखैव पातोऽसौ तत्त्वतो मतः ।।” (यो.बि.२३४) इति । इत्थं च सिद्ध्यन्तराऽङ्गसंयोगादाऽऽत्मादिप्रत्ययवतामेव सिद्धिः सिद्धा भवति । हाठिकानामपि = बलात्कारचारिणामपि एषा हि सिद्धिः आत्मादिप्रत्ययं विना कालीनत्वविशिष्टव्याप्तिसम्बन्धेन भ्रंशविशिष्टतया न तात्त्विकी सिद्धिरिति भावः । यथोक्तं योगबिन्दौ → सिद्ध्यन्तरस्य सद्बीजं, या सा सिद्धिरिहोच्यते । ऐकान्तिक्यन्यथा नैव, पातशक्त्यनुवेधतः ।। 6 (यो.बि.२३३) इति । दृष्टान्तेनेदं समर्थयति- 'शल्ये'ति । → तथाविधप्रासादादि अस्थ्यादिशल्योपघातान्महता यत्नेनोपरच्यमानमपि नोदयमासादयति किन्त्ववश्यं पतति एवं विवक्षितसिद्धिरपि मिथ्याभिनिवेशादिपातशक्त्यनुवेधान्न निर्वाणाऽवसानफलाय सम्पद्यत - (यो.बि.व.२३३) इति योगबिन्दुवृत्तिकृत् ।
ग्रन्थकृदपि प्रकृते योगबिन्दुसंवादमाह- 'सिद्ध्यन्तरमिति । तद्वृत्तिस्त्वेवम् → सिद्ध्यन्तरं = प्रस्तुतकार्यसिद्धेः कार्यान्तरसिद्धिरूपं न = नैव सन्धत्ते = घटयति या सिद्धिः सा अवश्यं = नियमेन पतति = निवर्तते । अतः = अवश्यम्पातात् तच्छक्त्याऽपि = पातशक्त्याऽपि अनुविद्धा = व्याप्ता, एवशब्दस्य भिन्नक्रमत्वात्, ततः पात एव असौ = सिद्धिः, सम्प्रत्यपातेऽपि परतस्तावत्पात एवेत्यपिशब्दार्थः, तत्त्वतो मतः = सम्मतो विदुषाम् । यथा ह्यविद्यमानपुत्रपौत्रादिसन्तानः पुमान् स्वकालेऽपतन्नपि पातशक्त्यनुवेधात् परमार्थतः पात एव, तथा प्रस्तुता यम-नियमादिसिद्धिरप्यनुबन्धविकला योजनीया पातत्वेन 6 (यो.बि.२३४ वृत्ति) इति ।
इत्थञ्च सिद्ध्यन्तराऽङ्गसंयोगात् सिद्धयन्तराणां = प्रस्तुतसिद्धेरन्यसिद्धिविशेषाणां यानि अङ्गानि = हेतवः तेषां संयोगात् = मिलनात् आत्मादिप्रत्ययवतामेव = आत्म-गुरु-लिङ्गप्रतीतिसङ्गतानामेव सिद्धिः तात्त्विकी सिद्धा भवति, आत्मादिप्रत्ययस्यैव सिद्धयन्तराऽवन्ध्यहेतुत्वात् । यथोक्तं योगबिन्दौ → सिद्ध्यन्तराङ्गसंयोगात् साध्वी चैकान्तिकी भृशम् । आत्मादिप्रत्ययोपेता तदेषा नियमेन तु ।। 6 (यो.बि.२३५) इति । एतदेव समर्थयति- बलात्कारचारिणामपि = स्वविकल्पप्रवृत्त्यागमनिरपेक्षत्वेनाऽत्याचारकारिणां किंपुनस्तदन्यथाचारिणामित्यपिशब्दार्थः, सिद्धिर्हि आत्मादिप्रत्ययं विना न भवति । 'न हि' इत्यस्य 'शक्यत' इत्यनेनाऽन्वयः । मृत्पिण्डाधुपायान्तरकार्यमिति । पटाद्युपेयादन्यः घटादिः उपेयाતે સિદ્ધિ પરમાર્થથી સિદ્ધિ ન જ કહેવાય. જેમ પાયામાં હાડકા વગેરે શલ્યથી અભડાયેલ મહેલ વગેરેની રચના પરમાર્થથી મહેલાદિની રચના ન કહેવાય. કારણ કે તેમાં રહેનારને સુખ-શાંતિ-સ્વાથ્ય-સમાધિઆદિનો અનુભવ થતો નથી. તેમ ફોગટ કદાગ્રહ વગેરે પતનસમર્થ તત્ત્વ કે મલિન શક્તિથી સંકળાયેલ હોવાથી ભાવમાં પતન પામનારી સિદ્ધિ વાસ્તવમાં સિદ્ધિ ન કહેવાય. યોગબિન્દુ ગ્રન્થમાં જણાવેલ છે કે – “જે સિદ્ધિ અન્ય સિદ્ધિને લાવે નહિ તે સિદ્ધિ અવશ્ય પડે છે, નષ્ટ થાય છે. પતનની શક્તિથી વ્યાપ્ત હોવાથી તે સિદ્ધિ પરમાર્થથી પતન જ મનાયેલ છે. - આ રીતે સિદ્ધ થાય છે કે અન્ય સિદ્ધિના હેતુઓના મિલનથી આત્માદિ પ્રત્યયવાળા જીવોને જ સિદ્ધિ મળે છે. બલાત્કારથી કામ કરનારા જીવોને પણ જે આ સિદ્ધિ થાય છે તે આત્માદિ ત્રિવિધ પ્રત્યય વિના થતી નથી. ખરેખર મૃત્પિડ વગેરે ઉપાયથી १. हस्तादर्श '...नुवेद्धित्वात्' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतौ ...त्यधः' इत्यशुद्धः पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org