________________
९८०
• सप्तविधानुशयस्य कालुष्यकारिता • द्वात्रिंशिका-१४/२० णो लहति समाहिं" (आचारांग ५/५/१६१)। अतश्चित्तशुद्ध्यर्थं शास्त्रमेवाऽऽदरणीयमिति भावः। यत उक्तं- "मलिनस्य यथाऽत्यन्तं जलं वस्त्रस्य शोधनम्।
__ अन्तःकरणरत्नस्य तथा शास्त्रं विदुर्बुधाः ।।" (योगबिन्दु २२९) ।।२०।। अतः कथमपि विचिकित्सामुत्तीर्य समाधौ यतितव्यमित्युपदेशोऽत्र लभ्यते । एतेन → कह कहं वा वितिगिच्छतिण्णे (सू.कृ.१.१४।६) इति सूत्रकृताङ्गसूत्रमपि व्याख्यातम् ।
मज्झिमनिकायानुसारेण बौद्धानां मते रागानुशय-प्रतिघानुशय-दृष्ट्यनुशय-विचिकित्सानुशय-मानानुशयभवरागानुशयाऽविद्यानुशयानां चित्तमालिन्यकारकत्वमभिप्रेतम् (मज्झिमनिकाय-मधुपिण्डिकसुत्त-१/२/८/२०१)। ततः सौगतदर्शनगताऽपुनर्बन्धकस्त्वसन्तोष-हिंसाऽऽलस्यौद्धत्य-कौकृत्यदोषपरिहारपूर्वं शास्त्रोक्तकुशलानुष्ठानपरायणतया विचिकित्सातः स्वचित्तं परिशोधयति । तदुक्तं मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो अभिझं लोके पहाय विगताभिज्झेन चेतसा विहरति, अभिज्झाय चित्तं परिसोधेति । ब्यापादप्पदोसं पहाय अब्यापन्नचित्तो विहरति सब्बपाणभूतहिताणुकम्पी ब्यापादप्पदोसा चित्तं परिसोधेति । थिनमिद्धं पहाय विगतथिनमिद्धो विहरति आलोकसञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेति । उद्धच्चकुक्कुच्चं पहाय अनुद्धतो विहरति, अज्झत्तं वूपसन्तचित्तो उद्धच्चकुक्कुच्चा चित्तं परिसोधेति विचिकिच्छं पहाय तिण्णविचिकिच्छो विहरति अकथंकथा कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेति + (म.नि. १/३/७/२१६, पृ. १४२) इति । अभिध्या व्यापादलक्षणं तु प्रागुक्तं (द्वा.द्वा.८/९ भाग-२, पृ.५५८), थिनपदेन शारीरमालस्यं, मिद्धपदेन च मानसमालस्यं बोध्यम् । शिष्टं स्पष्टम् | अतीताऽनागतवर्तमानकालभेदेन त्रिविधाया विचिकित्सायाः तमस्त्वमङ्गीक्रियते सौगतैः।।
तदुक्तं दीघनिकाये → तयो तमा (१) अतीतं वा अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न सम्पसीदति। (२) अनागतं वा अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न सम्पसीदति । (३) एतरहि वा पच्चुप्पन्नं अद्धानं आरब्भ कङ्खति, विचिकिच्छति, नाधिमुच्चति, न सम्पसीदति - (दी.नि.३।१०।३०५- पृष्ठ.१७३) इति । प्रकृते → संशयात्मा विनश्यति (भ.गी.४/४०) इति भगवद्गीतावचनमपि स्मर्तव्यम् ।
अतः चित्तशुद्ध्यर्थं कुशलाऽनुष्ठानपरतया शास्त्रमेव आदरणीयम् । अत्रैव योगबिन्दुसंवादमाह'मलिनस्येति । → पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं, शास्त्रं सर्वार्थसाधनम् ।। न यस्य भक्तिरेतस्मिन् तस्य धर्मक्रियाऽपि हि । अन्धप्रेक्षाक्रियातुल्या कर्मदोषादसत्फला ।। ___ (यो.बि.२२५/२२६) इति योगबिन्दुश्लोकावप्यत्राऽनुसन्धेयौ । योगसारप्राभृतेऽपि → मायामयौषधं शास्त्रं, शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वगतं शास्त्रं, शास्त्रं सर्वाऽर्थसाधकम् ।। અધીરાઈ-ચંચળતા-શંકા-ગેરસમજ વગેરે શાસ્ત્ર દ્વારા દૂર કરી શકાય છે.) તે કારણસર ચિત્તશુદ્ધિ માટે શાસ્ત્રને જ આદરવું જોઈએ. એવો અહીં ગ્રંથકારશ્રીનો આશય રહેલો છે. કારણ કે યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે કે “જેમ અત્યંત મલિન થયેલ વસ્ત્રને જળ શુદ્ધ કરે છે તેમ અંતઃકરણરત્નને શાસ્ત્ર शुद्ध ४३ छ- साम पंडितो हे छ.” 6 (१४/२०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org