________________
• ज्ञेयत्रैविध्यविज्ञापनम् .
९७९ तत्र प्रथम-चरमयोस्त्येिव विचिकित्सा, निश्चयादसिद्धेश्च । द्वितीये तु देश-काल-स्वभावविप्रकृष्टे धर्माऽधर्मादौ भवन्ती सा महाऽनर्थकारिणी । यदागमः- “१वितिगिच्छसमावन्नेणं अप्पाणेणं
__ चक्षुष्मतः चित्रकर्मनिपुणस्य निश्चयात् = चित्रस्वरूपनिर्णयात्, अन्धस्य असिद्धेः = रूपदर्शनविरहात् । न हि यथावस्थितरूपनिर्णये सर्वथा रूपाऽदर्शने वा रूपगोचरो भ्रमः सम्भवति ।
द्वितीये दुरधिगमे तु देश-काल-स्वभावविप्रकृष्टे = देशविप्रकृष्टे सीमन्धरादौ कालविप्रकृष्टे महावीरादौ तीर्थकरे स्वभावविप्रकृष्टे च धर्माधर्मादौ भवन्ती सा विचिकित्सा महानर्थकारिणी भवति । ____ अत्रैव आचाराङ्गसूत्रसंवादमाह- 'वितिगिच्छमिति विचिकित्सां समापन्नेनाऽऽत्मना न लभते समाधिमित्यक्षरसङ्घटना । शीलाङ्काचार्यकृता तवृत्तिस्त्वेवं → विचिकित्सा या चित्तविप्लुतिः यथा 'इदमप्यस्ती'त्येवमाकारा युक्त्या समुपपन्नेऽप्यर्थे मतिविभ्रमो मोहोदयाद् भवति । तथाहि- ‘अस्य महतः तपःक्लेशस्य सिकताकणकवलनिःस्वादस्य स्यात् सफलता न वा ?' इति, कृषीवलादिक्रियाया उभयथाऽप्युपलब्धेरिति । इयं च मतिः मिथ्यात्वांऽशाऽनुवेधाद् भवति ज्ञेयगहनत्वाच्च । तथाहि- अर्थः त्रिविधः (१) सुखाधिगमः, (२) दुरधिगमः, (३) अनधिगमश्च श्रोतारं प्रति भिद्यते । तत्र सुखाऽधिगमो यथा चक्षुष्मतः चित्रकर्मनिपुणस्य रूपसिद्धिः । दुरधिगमस्त्वनिपुणस्य । अनधिगमस्त्वन्धस्य । तत्राऽनधिगमरूपोऽवस्त्वेव । सुखाधिगमस्तु विचिकित्साया विषय एव न भवति । देश-काल-स्वभावविप्रकृष्टस्तु विचिकित्सागोचरीभवति । तस्मिन् धर्माऽधर्माकाशादौ या विचिकित्सेति । यद्वा 'विइगिच्छत्ति' विद्वज्जुगुप्सा । विद्वांसः = साधवो विदितसंसारस्वभावाः परित्यक्तसमस्तसङ्गाः तेषां जुगुप्सा = निन्दा अस्नानात् प्रस्वेदजलक्लिन्नमलत्वात् दुर्गन्धिवपुषः तान् निन्दति 'को दोषः स्यात् यदि प्रासुकेन वारिणाऽङ्गक्षालनं कुर्वीरन् ?' इत्यादिजुगुप्सा, तां विचिकित्सां = विद्वज्जुगुप्सां वा सम्यगापन्नः = प्राप्तः आत्मा यस्य स तथा। तेन = विचिकित्सासमापन्नेनाऽऽत्मना नोपलभते समाधिं = चित्तस्वास्थ्यम् । ज्ञान-दर्शन-चारित्रात्मको वा समाधिः तं न लभते । विचिकित्साकलुषिताऽन्तःकरणो हि कथयतोऽप्याचार्यस्य सम्यक्त्वाऽऽख्यां बोधिं नाऽवाप्नोति - (आचा.लोकसार अध्य.उ.५ सू.१६१ वृत्ति) इति । દા.ત. ચિત્રકામમાં નિપુણ અને નિર્મળ આંખવાળા માણસને માટે ચિત્રના રૂપનું જ્ઞાન સુગમ કહેવાય. તે જ ચિત્ર ચિત્રકામમાં અનિષ્ણાત વ્યક્તિ માટે પારખવું ખૂબ દુર્ગમ બની જાય છે. તથા અંધ વ્યક્તિ માટે તો તે ચિત્ર અગમ્ય-અજ્ઞેય જ બની જાય છે. પ્રસ્તુતમાં સુગમ અને તદન અગમ્ય પદાર્થમાં તો ચિત્ત ડામાડોળ થવાની શક્યતા જ નથી. કારણ કે સુગમ પદાર્થનો તો નિશ્ચય જ થયેલો હોય છે અને અન્નેય પદાર્થની તો જરાય અનુભવાત્મક જાણકારી જ નથી હોતી. તેથી શંકા-ગેરસમજ થવાની શક્યતા પ્રથમ અને તૃતીય પદાર્થમાં થતી નથી. જે પદાર્થ ક્ષેત્રથી કે કાળથી દૂર હોય, સ્વભાવથી જ દુર્રીય હોય તેના વિશે શંકા-ગેરસમજ થવાની સંભાવના રહે છે. પુણ્ય-પાપ પણ આ અપેક્ષાએ દુર્ગમ-દુય છે. તેથી તેની બાબતમાં સંશય-વિપર્યય-ચંચળતા વગેરે થાય તો તેવી ઉત્પન્ન થતી ચિત્તચંચળતા મોટા અનર્થને કરનારી છે. કારણ કે આચારાંગસૂત્રમાં જણાવેલ છે કે – “ચિત્તચંચળતા પામેલ આત્મા 43 समावि भेगवी शती नथी.' - (पुथ्य-।५-५२सो वगैरे बाबतमा भी थती मननी मस्थिरता१. मुद्रितप्रतौ 'वितिगिंछं समा...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org