________________
९७८
• विचिकित्सायाः समाधौ प्रातिकूल्यम् • द्वात्रिंशिका-१४/२० यद् = यस्मात् विचिकित्सायाः = युक्त्या समुपपन्नेऽपि मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः समाधेः = चित्तस्वास्थ्यरूपस्य ज्ञान-दर्शन-चारित्रात्मकस्य वा प्रतिकूलता = विरोधिताऽस्ति ।
अर्थो हि त्रिविधः सुखाऽधिगमो दुरधिगमोऽनधिगमश्चेति श्रोतारं प्रति भिद्यते । आद्यो यथा चक्षुष्मतश्चित्रकर्मनिपुणस्य रूपसिद्धि: । द्वितीयः सैवाऽनिपुणस्य । तृतीयस्त्वन्धस्येति । आसन्नभव्यः शास्त्रं सर्वत्र पुरस्करोत्येव । यथोक्तं योगबिन्दौ → परलोकविधौ शास्त्रात् प्रायो नाऽन्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ।। - (यो.बि.२२१) । योगसारप्राभृतेऽपि → परलोकविधौ शास्त्रं प्रमाणं प्रायशः परम् । यतोऽत्राऽऽसन्नभव्यानामादरः परमः ततः ।। 6 (यो.सा. प्रा.८/६९) इत्युक्तम् । धर्मरत्नप्रकरणेऽपि → नत्थि परलोकमग्गे पमाणमन्नं जिणागमं मोत्तुं । आगमपुरस्सरं चिय करेइ तो सव्वकिच्चाई ।। - (धर्मर प्र. ६९) इत्युक्तम् । प्रकृते → न शास्त्रेण विना सिद्धिदृष्टा चैव जगत्त्रये - (यो.कु.२/१२) इति योगकुण्डल्युपनिषद्वचनमपि स्मर्तव्यम् । यदपि मनुस्मृतौ → यथा यथा हि पुरुषः शास्त्रं समधिगच्छति । तथा तथा विजानाति विज्ञानं चाऽस्य रोचते ।। 6 (मनु.४/२०) इत्युक्तं तदप्यपुनर्बन्धकादिजीवानधिकृत्य लब्धाधिकारमवसेयम् । प्राक् द्वितीयद्वात्रिंशिकायामपि (द्वा.द्वा.२/१९ भाग-१, पृ.११४) आमुष्मिकविधौ शास्त्रस्य बलवत्तोपदर्शिता । अग्रेऽपि च कुतर्कग्रहनिवृत्तिद्वात्रिंशिकायां (द्वा.द्वा.२३/१२, भाग-६ पृ.१५७०) अतीन्द्रियार्थेषु शास्त्रस्य बलवत्त्वमुपदर्शयिष्यत इत्यवधेयम् । ____ अंशतोऽपि शास्त्राऽनादराऽकरणहेतुमाह- यस्मात् कारणात् युक्त्या = प्रत्यक्षाद्यबाधितयुक्त्या समुपपन्नेऽपि = सङ्गतेऽपि शास्त्रार्थे मतिव्यामोहोत्पन्नचित्तविप्लुतिरूपायाः = स्वकीयबुद्धिव्यामोह-भ्रंशादिनोत्पन्नायाः मनोविप्लवात्मिकाया विचिकित्सायाः समाधेः विरोधिता = चित्तस्वास्थ्यादिप्रतिबन्धकता अस्ति । प्रकृते → यस्माद्राग-द्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ।। शासनसामर्थ्येन तु सन्त्राणबलेन चाऽनवद्येन, युक्तं यत्तच्छास्त्रं, तच्चतत्सर्वविद्वचनम् ।। 6 (प्र.रति.१८७-८) इति प्रशमरतिकारिकायुगलविभावनेन शास्त्राऽनादरो न कार्यः, चित्तस्वास्थ्यादिप्रतिबन्धकत्वात् तस्य इति भावः । मतिदौर्बल्यादिना कथञ्चिदुत्पद्यमाना विचिकित्सा तु → कत्थ य मइदुब्बल्लेण तव्विहाऽऽयरियविरहओ वा वि । नेयगहणत्तणेण य णाणावरणोदएणं च ।। हेऊदाहरणाऽसंभवे अ, सइ सुटुं जं न बुझेज्जा । सव्वन्नुमयमवितहं तहावि तं चिंतए मइमं ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा य नन्नहा वाइणो तेणं ।। ___ (ध्या.श.४७-४९,सं.प्र.१०/४८-५०) इति ध्यानशतक-सम्बोधप्रकरणयोःवचनतो निवारणीया। સમર્થ નથી. માટે સર્વત્ર પ્રવૃત્તિમાં શાસ્ત્રને આગળ કરવું જોઈએ. કોઈ પણ અંશે શાસ્ત્રનો અનાદર ન કરવો જોઈએ. કારણ કે યુક્તિથી સંગત થતા એવા પણ વિષયમાં મતિવ્યામોહથી ઉત્પન્ન થયેલ ચિત્તની ડામાડોળતા-ડમડોલતા તો ચિત્તસ્વસ્થતારૂપ અથવા દર્શન-જ્ઞાન-ચારિત્રસ્વરૂપ સમાધિની વિરોધી છે.
કહેવાનો આશય એ છે કે શ્રોતાની ભૂમિકા મુજબ પદાર્થ ત્રણ પ્રકારના હોય છે. (૧) સુખેથી tell us . (२) हुथी tell tय तेव. (3) पोतनी बुद्धिथी न all tय ते. १. 'स्पसि' इत्यशुद्धः पाठो हस्तप्रतौ । २. 'पुण्यस्य' इति मुद्रितप्रतावशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org