SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ९७५ • सङ्ग्रहनयानुसारेण शुद्धानुष्ठानपरामर्शः • पृ.५४) । तथैव प्रकृतेऽपि सङ्ग्रहनयो भोगजम्बालपतिते निकाचितचारित्रमोहनीयोदयव्यथिते सम्यग्दृष्टौ न शुद्धानुष्ठानं योगं वाऽभ्युपैति । न च सम्यग्दृष्टेर्मोक्षमार्गानुसारित्वात्कथं न चारित्रमिति शङ्कनीयम्, कर्मणां विचित्रत्वात् । यथोक्तं → कम्माइ नूणं घणचिक्कणाइ गरुयाइं वज्जसाराइं । नाणड्ढयं पि पुरिसं पंथाओ उप्पहं नेन्ति ।। - (योगबिन्दु-३५६ वृत्ति उद्धृत) इति । __ भोगादिषु प्रवर्तने तु न शास्त्रोपदेशाऽऽवश्यकता । तदुक्तं योगबिन्दौ → उपदेशं विनाऽप्यर्थकामौ प्रति पटुर्जनः । धर्मस्तु न विना शास्त्रादिति तत्राऽऽदरो हितः । - (यो.बि.२२२) इति । वात्स्यायनेनाऽपि कामसूत्रे → तिर्यग्योनिष्वपि तु स्वयं प्रवृत्तत्वात्कामस्य नित्यत्वाच्च न शास्त्रेण कृत्यमस्तीत्याचार्याः - (का.सू. २/२१) इत्युक्तम् । अन्यत्राऽपि → विनोपदेशं सिद्धो हि कामोऽनाख्यातशिक्षितः। स्वकान्तारमणोपाये को गुरुमूंगपक्षिणाम् ?।। - (कामसूत्रवृत्तौ १।२।२१ उद्धृतः) इति गदितम् । → विषयेच्छाऽनुवर्तिन्यो निसर्गात् प्राणिनां धियः - ( ) इत्यप्यत्राऽनुसन्धेयम् । अतो धर्मार्थं शास्त्रादरोऽपेक्षितः । तदुक्तं योगसारप्राभृते → उपदेशं विनाऽप्यङ्गी पटीयानर्थकामयोः । धर्मे तु न विना शास्त्रादिति तत्राऽऽदरो हितः । - (यो.सा.प्रा. ८/७०) इति । धर्मे तूपदेशस्याऽऽवश्यकता महती, अनादिभवाऽभ्यस्ताऽकुशलप्रवृत्तिसंस्काराणां बलीयस्त्वात् । अत एव त्रिषष्टिशलाकापुरुषचरित्रे → अन्तरेणोपदेष्टारं पशवन्ति नरा अपि 6 (त्रि.श.पु. १/२/ ९७३) इत्युक्तं श्रीहेमचन्द्रसूरिभिः । उपदेशमालायामपि → गुण-दोसबहुविसेसं पयं पयं जाणिऊण निसेसं । दोसेसु जणो न विरज्जइत्ति कम्माण अहिगारो ।। 6 (उप.मा.३१५) इति । नैषधीयचरित्रे श्रीहर्षेणाऽपि → दुर्जया हि विषया विदुषाऽपि - (नैष.च.५/१०९) इत्युक्तम् । कर्ममाहात्म्यमेतत् । अत एव बाणभट्टेनापि कादम्बर्यां → न हि शक्यं दैवमन्यथाकर्तुमभियुक्तेनापि (काद.१९३) इति गदितम् । इदञ्च निकाचितकर्मापेक्षया चारु । यथोक्तं आवश्यकनियुक्तौ → दसारसीहस्स य सेणियस्सा पेढालपुत्तस्स य सच्चइयस्स । अणुत्तरा दंसणसंपया तया, विणा चरित्तेणऽहरं गई गया ।। - (आ.नि.११७४) इति । न हि योगिनो नरकगामित्वं सम्भवति । ___ अप्रत्याख्यानाऽऽवरणक्षयोपशमशालिनि देशतः चारित्रं प्रत्याख्यानावरणक्षयोपशमशालिनि च सर्वतः चारित्रमिति तत्रैव योगः सम्भवतीति प्रकृते सङ्ग्रहनयाभिप्रायः। प्रकृतसङ्ग्रहनयानुगृहीततात्त्विकव्यवहारनये त्वविरतसम्यग्दृष्टौ द्रव्ययोगः विरतिशालिनि च भावयोगः । अपुनर्बन्धकादिकृतधर्माचारे द्रव्ययोगपदप्रयोगस्त्वप्राधान्यार्थक एतन्नये । शुद्धनैगमनये च कारणे कार्योपचारात् प्राधान्यार्थकस्तत्र द्रव्ययोगपदप्रयोगः, अपुनर्बन्धककृतसदनुष्ठानस्य सम्यग्दृष्टिगतशुद्धाऽनुष्ठानकारणत्वादिति गम्भीरबुद्ध्या विभावनीयं सुधीभिः ।।१४/१८ ।। વિશેષાર્થ :- આ શ્લોકમાં પાંચ મહત્ત્વની બાબત ગ્રંથકારશ્રીએ દર્શાવેલી છે. (૧) વ્યવહારનયની દષ્ટિએ જેને સંસારભ્રમણનું કારણ ગણાવી શકાય તેવી પ્રવૃત્તિ પણ જો કેવળ કર્મનિર્જરાના આશયથી, કર્મનું દેવું ચૂકવવાના પ્રામાણિક આશયથી, કર્મની બળજબરીના લીધે કરવામાં આવે તો તે જ કુટુંબપોષણાદિ પ્રવૃત્તિ કર્મનિર્જરાનું કારણ બની જાય છે, મોક્ષનું સાધન બની જાય છે. માટે અંતરંગ પરિણતિ જ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy