________________
९७४
• नयमतभेदेन शुद्धानुष्ठानमीमांसा • द्वात्रिंशिका-१४/१८ ___ "एतच्च योगहेतुत्वाद्योग इत्युचितं वचः । मुख्यायां पूर्वसेवायामवतारोऽस्य केवलम् ।।" (योगबिन्दु २०९) इत्यनेनाऽपुनर्बन्धकाऽतिशयाभिधानं तु सम्यग्दृशो नैगमनयशुद्धिप्रकर्षकाष्ठाऽपेक्षमिति न कश्चिद्विरोध इति विभावनीयं सुधीभिः ।।१८।। कव्यवहारनयेन तु अत्र = अविरतसम्यग्दृशि अयं = सम्यग्दर्शन-ज्ञान-चारित्रसम्बन्धलक्षणः सच्चारित्रप्रधानो वा भावयोगो नेष्यत एव । न हि कार्षापणमात्रेण धनवानुच्यत इति सकललोकव्यवहारप्रयोजकतात्त्विकपरिणाम-तथाविधधर्मक्रियापरिमाणोभयप्रेक्षिव्यवहारनयाभिप्रायः ।
नन्वेवमविरतसम्यग्दृशोऽपि द्रव्ययोगवत्त्वे योगबिन्दौ शुद्धानुष्ठानभाक्त्वेन तस्याऽपुनर्बन्धकाऽपेक्षया यदतिशयितं स्वरूपमभिहितं तद् विरुध्येतेत्याशङ्कायां ग्रन्थकारो योगबिन्दुसंवादप्रदर्शनपुरस्सरमाह 'एतच्चेति । तद्वृत्तिस्त्वेवम् → एतच्च = एतत् पुनः शुद्धमनुष्ठानं योगहेतुत्वाद् = मोक्षसंयोगकारणत्वात् योगो वर्तते' इति = एवंरूपं उचितं = योग्यं वचो = वचनं, सार्थकत्वादिन्द्र-पुरन्दरादिशब्दवत्, न पुनरन्यदपुनर्बन्धकादिगतमिति भावः। अत्रैव विशेषमाह मुख्यायां = प्रकृष्टायां पूर्वसेवायां = देवगुरुपूजादिरूपायां अवतारः = अवकाशः अस्य = शुद्धानुष्ठानस्य केवलं = परम् । अन्यदा तु जायमानमप्येतत्तदाभासमेव स्यात् + (यो.बि.२०९ वृ.) इति । 'अन्यदा तु' = सम्यग्दर्शनलाभपूर्वकाले पुनः' इति । शिष्टा टीका स्पष्टार्था ।
अनेन = व्याख्यातेन योगबिन्दुश्लोकेन अपुनर्बन्धकाऽतिशयाभिधानं = अपुनर्बन्धकापेक्षया प्रकर्षप्रकाशनं तु सम्यग्दृशः = अविरतसम्यग्दृष्टे: नैगमनयशुद्धिप्रकर्षकाष्ठापेक्षं इति न कश्चित् प्रागुद्भावितो विरोधः सावकाशः। यथा धान्यमानविशेषात्मक-प्रस्थकार्थं वनगमन-काष्ठच्छेदन-तक्षणोत्किरण-लेखन-प्रस्थकपर्यायाऽऽविर्भावेषु यथोत्तरशुद्धा नैगमभेदाः प्रवर्तन्ते, शुद्धिप्रकर्षकाष्ठाप्राप्तो नैगमनयस्त्वाकुट्टितनामानं प्रस्थकमाह । तथा प्रकृतेऽपि भवाभिनन्दिदोषविगमेन शान्तोदात्तत्वादिगुणाऽऽविर्भावेन च शुक्लपाक्षिकाऽपुनबन्धक-मार्गाभिमुख-मार्गपतितादिषु यमादियोगयुक्तत्वेन खेदादिदोषपरित्यागेनाऽद्वेष-जिज्ञासादिगुणसम्पन्नत्वेन च वक्ष्यमाणमित्रा-तारा-बला-दीप्रादृष्टिसम्पन्नेषु जितेन्द्रियत्वादि-शुश्रूषादिगुणकलिततया वक्ष्यमाण (द्वा. द्वा.१९/२३,भा.५,पृ.१३०९)कुलयोगिप्रवृत्तचक्रयोगिप्रभृतिषु वक्ष्यमाण(द्वा.द्वा.१९/२९,भा.५,पृ.१३१७)सद्योगाऽवञ्चक-क्रियाऽवञ्चकप्रमुखेषु च शुद्धाऽनुष्ठानगोचरा यथोत्तरशुद्धा नैगमभेदाः प्रवर्तन्ते । शुद्धिप्रकर्षकाष्ठाप्राप्तो नैगमनयस्तु मोक्षेऽतिदृढचित्ततया परिशुद्धोहापोहयोगशालिनि सम्यग्दृष्टावेव शुद्धाऽनुष्ठानमभ्युपैति । चारित्रप्रतिबन्धकाऽनन्तानुबन्धिकषायलक्षणचारित्रमोहनीयगोचरक्षयोपशमप्रयुक्तं तादृशं शुद्धानुष्ठानं चारित्रपदवाच्यमिति भावयोगोऽपि तत्राऽतिशुद्धनैगमनयेनाऽव्याहत इति ध्येयम् ।
सङ्ग्रहनयस्तु नैगमापेक्षया विशुद्धत्वात् कारणे कार्योपचारं कार्याऽकरणकाले च प्रस्थकं नाऽङ्गीकुरुते, तदर्थक्रियां विना तत्त्वाऽयोगादिति धान्यमानक्रियाऽऽविष्टे तत्र प्रस्थकसंज्ञामभ्युपगच्छति (नयरहस्यસૂચિત કરેલ છે કે સમકિતી જીવ પાસે ભાવયોગ નહિ પણ દ્રવ્યયોગ જ હોય છે. આવું જણાવવા દ્વારા અપુનબંધક મિથ્યાદષ્ટિ જીવ કરતાં સમકિતી જીવમાં જે ચઢિયાતાપણું બતાવેલ છે તે નૈગમનની પ્રકૃષ્ટ શુદ્ધિની પરાકાષ્ઠાની અપેક્ષાએ સમજવું. આ રીતે કોઈ વિરોધ નહિ આવે. આ બાબતને વિશેષ પ્રકારની ભાવનાથી ભાવિત કરવાની સુંદરબુદ્ધિવાળા જીવોને ગ્રંથકારશ્રી સૂચના આપે છે. (૧૪/૧૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org