________________
• अविरतसम्यग्दृशि चारित्राभ्युपगमः •
९७३ ननु सम्यग्दृष्टिपर्यन्तमन्यत्र द्रव्ययोग एवोच्यते इति' कथमत्र भावतोऽयमुक्त इति चेत् ? चारित्रप्रतिपन्थिनामनन्ताऽनुबन्धिनामपगमे तद्गुणप्रादुर्भावनियम इति निश्चयाऽऽश्रयणात् ।
अल्पतदविवक्षापरेण व्यवहारेण त्वत्राऽयं नेष्यत एव । सम्यगनुष्ठानाऽवन्ध्यकारणत्वात् । एवं च सदूहभाजः शुद्धाऽनुष्ठानभाक्त्वं प्रागाक्षिप्तं साधितं भवति - (यो.बि.२०८ वृत्ति) इति।।
प्रकृते → भावविसोहीए वट्टमाणे जीवे अरहन्तपन्नत्तस्स धम्मस्स आराहणयाए अब्भुढेइ । अरहन्तपन्नत्तस्स धम्मस्स आराहणयाए अब्भुद्वित्ता परलोगधम्मस्स आराहए हवइ 6 (उत्त. २९/५०) इति उत्तराध्ययनसूत्रोक्तिरपि साक्षिणी वर्तते ।।
ननु सम्यग्दृष्टिपर्यन्तं = अपुनर्बन्धकाद्यविरतसम्यग्दृष्टिपर्यवसानं अन्यत्र द्रव्ययोग एवोच्यते । यथोक्तं योगशतके → निच्छयओ इह जोगो सण्णाणाईण तिण्ह संबंधो + (यो.श.२) इति । तद्वत्तौ 'त्रयाणामिति च न्यूनाऽधिकसङ्ख्यानिरासार्थमिति दर्शितम् । अविरतसम्यग्दृष्टौ सच्चारित्रविरहान्नाऽयं भावयोगः सम्भवतीति कथं अत्र = अविरतसम्यग्दृशि भावतः अयं = योग उक्त इति चेत् ? उच्यते, चारित्रप्रतिपन्थिनां अनन्ताऽनुबन्धिनां कषायाणां अपगमे = विलये तद्गुणप्रादुर्भावनियमः = चारित्राऽऽविर्भावव्याप्तिः, अन्यथा केवलज्ञानाऽऽवरणविलये केवलज्ञानाऽऽविर्भावोऽपि न स्यात् इति निश्चयाऽऽश्रयणात् = ‘क्रियमाणं कृतमि'तिसिद्धान्ताऽनुसारिनिश्चयनयाऽवलम्बनतोऽविरतसम्यग्दृशोऽपि अनन्ताऽनुबन्धिविलयप्रयुक्तचारित्रसिद्ध्या भावयोगवत्त्वोक्त्युपपत्तेः । अनन्तानुबन्धिनां चारित्रमोहनीयत्वेन तदपगमस्य चारित्रव्याप्यत्वात् तद्गमकत्वं पञ्चलिङ्गीप्रकरणबृहद्वृत्तौ (पं.लि.गा.२/पृ.५ वृ.) दर्शितम् । न च तथापि चारित्रप्रतिपन्थिनामप्रत्याख्यानाऽऽवरणादिकषायसत्त्वान्न तस्य चारित्रप्रादुर्भावः सम्भवतीति वाच्यम्, एवं सति चारित्रप्रतिपन्थिनां सज्वलनकषायाणां सत्त्वान्न षष्ठादिगुणस्थानकेऽपि चारित्रं प्रादुर्भवेत् । न च सज्वलनकषायोदयेन वीतरागचारित्राऽप्रादुर्भावेऽपि साम्परायिकचारित्रप्रादुर्भावः तत्राऽनाविल एवेति वक्तव्यम्, तुल्यमेतदन्यत्र । न हि ‘क्रियमाणं कृतमिति सिद्धान्तिनयेऽप्यविरतसम्यग्दृशो वीतरागचारित्रप्रादुर्भाव इष्यते किन्तु सकषायचारित्रमेवानन्तानुबन्धिविलयप्रयुक्तम् । न चैवं तत्र चारित्रव्यवहार आपतेदिति वाच्यम्, आपततु, का नाम नः क्षतिः ? परिणामः एवाऽस्माकं प्रमाणं, न तु सदनुष्ठानपरिमाणम् । स्वल्पमप्यमृतममृतमेवोच्यते, न तु विषमिति ‘क्रियमाणं कृतमिति सिद्धान्तिनयाऽभिप्रायः ।
अल्पतदविवक्षापरेण = स्वल्पतरचारित्राऽविवक्षापरेण व्यवहारेण = शिष्टलोकव्यवहारौपयिकतात्त्वि
શંકા :- અન્ય ગ્રંથોમાં તો સમ્યગ્દષ્ટિ જીવ સુધી દ્રવ્યયોગ જ કહેવામાં આવે છે. તો પછી અહીં શા માટે ભાવયોગનું સમકિતીમાં વિધાન કરવામાં આવે છે ?
સમાધાન :- નિશ્ચયનયનું મંતવ્ય એવું છે કે ચારિત્રના વિરોધી અનંતાનુબંધી કષાય રવાના થતાં અવશ્ય ચારિત્રના ગુણો પ્રગટ થાય. આ નિશ્ચય નયના મંતવ્ય મુજબ સમકિતી જીવમાં શુદ્ધ અનુષ્ઠાન = ભાવયોગ અહીં દેખાડવામાં આવેલ છે. જ્યારે વ્યવહારનયની દૃષ્ટિએ સમ્યગ્દષ્ટિ જીવમાં જે શુદ્ધ ક્રિયા છે તે સાધુની અપેક્ષાએ અત્યંત અલ્પ પ્રમાણમાં છે. અત્યંત અલ્પ હોવાથી વ્યવહારનય તેને ગણકારતો નથી. કે “સમકિતીનું શુદ્ધ અનુષ્ઠાન યોગનો હેતુ હોવાથી યોગ છે” આ વાત સાર્થક છે. ફકત આ શુદ્ધ અનુષ્ઠાનનો મુખ્ય પૂર્વસેવામાં સમાવેશ કરવો. ( આ પ્રમાણે યોગબિંદુ ગ્રંથમાં કહેવા દ્વારા १. मुद्रितप्रतौ 'इति' पदं नास्ति परं हस्तादर्श वर्तते । ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org