________________
• भव-मुक्तिहेतूनां तुल्यसङ्ख्याकत्वम् •
९६९ बन्धं प्रति, भवहेतूनामेव परिणामविशेषेण मोक्षहेतुत्वेन' परिणमनात् “जे जत्तिया य हेऊ भवस्स ते तत्तिआ य मुक्खस्स” (ओघनियुक्ति-५३) इति वचनप्रामाण्यात् । → भावशुद्धिर्मनुष्यस्य विज्ञेया कार्यसाधनी। अन्यथाऽऽलिङ्ग्यते कान्ता दुहिता पुनरन्यथा ।। - ( ) इत्यपि स्मर्तव्यमत्र । प्रकृते → भावतीर्थं परं तीर्थं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्ग्यते कान्ता अन्यथाऽऽलिङ्ग्यते सुता ।। 6 (जा.द. ४/५१) इति जाबालदर्शनोपनिषद्वचनं, → एकस्याः पुत्र-भर्तारौ हृदयोपरि योषितः । भिन्नभावौ भवेतां तौ भावमेवं विशोधयेत् ।। - (बृ.परा.१२/ ३५१) इति च बृहत्पराशरस्मृतिवचनमपि यथातन्त्रमनुयोज्यम् । तदुक्तं ज्ञानार्णवेऽपि → मनःशुद्ध्यैव शुद्धिः स्याद्देहिनां नाऽत्र संशयः - (ज्ञा.२२/१४ पृ.२३४)। न चैवं बाह्याशुभयोगानां कर्मबन्धहेतुत्वभङ्गप्रसङ्ग इति शङ्कनीयम्, भवहेतूनामेव = पापबन्धकारणानामेव परिणामविशेषेण = निजविशुद्धाऽध्यवसायेन मोक्षहेतुत्वेन परिणमनात्। ____ अत्रैव ओघनियुक्तिसंवादमाह- 'जे जत्तिया' इत्यादि (५३)। अस्योत्तरार्धस्त्वेवम्- गणणाईया लोगा दुण्ह वि पुण्णा भवे तुल्ला (ओ.नि.५३) इति । तद्वृत्तिस्तु एवं → ये हेतवो यावन्तो = यावन्मात्रा भवस्य = संसारस्य निमित्तं त एव नाऽन्ये तावन्मात्रा एव मोक्षस्य हेतवो = निमित्तानि । कियन्मात्रकास्ते ? अत आह- गणनाया अतीताः = सङ्ख्याया अतिक्रान्ताः, के ? लोकाः 'द्वयोरपि' = भव-मोक्षयोः सम्बन्धिनां हेतूनामसङ्ख्येया लोकाः पूर्णाः = भृताः, तत्र पूर्णा एकहेतुन्यूना अपि भवन्त्यत आह- तुल्याः, कथम्भूताः ?- क्रियाविशेषणं 'तुल्याः' = सदृशा इत्यर्थः । ननु तुल्यग्रहणमेव कस्मात् केवलं न कृतं ? येन पुनः पूर्णग्रहणं क्रियते ? भण्णति पडिवयणं-तुल्लगहणेण केवलेणं संवलिआणं संसारमोक्खहेऊणं लोका तुल्लत्ति कस्सवि बुद्धी होज्जा तो पुण्णगहणंपि कीरइ, दोण्ह वि पुण्णत्ति जया जया भरिअत्ति नेयव्वा । इयमत्र भावना-सर्व एव ये त्रैलोक्योदरविवरवर्तिनो भावा रागद्वेषमोहात्मनां पुंसां संसारहेतवो भवन्ति त एव रागादिरहितानां श्रद्धामतामज्ञानपरिहारेण मोक्षहेतवो भवन्तीति एवं तावत्प्रमाणमिदमुक्तम् + (ओ.नि.५३, वृत्ति)।
एतेन → जत्तियाइं असंजमट्ठाणाई तत्तियाइं संजमट्ठाणाई - (आचा.चू. १।४।२) इति आचाराङ्गचूर्णिवचनमपि व्याख्यातम् । तदुक्तं विशेषावश्यकभाष्ये अपि → जे जत्तिया पगारा लोए भवहेअवो अविरयाणं । ते चेव य विरयाणं पसत्थभावाण मोक्खाय ।। 6 (वि.आ.भा.२५७१) इति । तदुक्तं कृष्णगीतायां अपि → भवस्य हेतवो ये ये, ते ते मोक्षस्य हेतवः । भवन्ति ज्ञानिजैनानां, त्यागिनां गृहियोगिनाम् ।। (कृ.गी.१७०) इति । परिणामविशेषेण मोक्षहेतुत्वाऽऽधानसमर्थस्यैव परमार्थतोऽपवादाऽधिकारित्वाद् बृहत्कल्पभाष्ये → जावइया उस्सग्गा तावइया चेव हुंति अववाया । जावइया अववाया उस्सग्गा तत्तिया चेव ।। ( (बृ.क.भा.३२२) इत्युक्तमिति पूर्वोक्तं(पृ.१४७) स्मर्तव्यम् ।
प्रकृते च पूर्वोक्तं (पृ.७३) → जे आसवा ते परिसवा - (आ.१/४/२) इति आचाराङ्गसूत्रमपि स्मर्तव्यम् । इत्थमेव → सेवंतो वि न सेवइ 6 (स.सा.१७९) इति समयसारवचनमपि सङ्गच्छते । કર્મબંધ પ્રત્યે કારણ બની શકતા નથી. કારણ કે સંસારના હેતુઓને જ સમકિતી પોતાના વિશિષ્ટ અધ્યવસાય દ્વારા મોક્ષના હેતુ તરીકે પરિણાવે છે. આ બાબતમાં “જે જેટલા સંસારના કારણ છે તે તેટલા બધા જ મોક્ષના કારણ છે’– આવું ઓઘનિર્યુક્તિનું વચન પ્રમાણ સ્વરૂપે સુસંવાદનો સૂર પૂરે છે. १. हस्तादर्श ‘हेतुत्वे' इति पाठः । २. हस्तादर्श 'जेत्तिया' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org