________________
९६८
• आशयविशुद्धौ बाह्यक्रियाया अकारणता • द्वात्रिंशिका-१४/१८ न जायते ।।” (योगबिन्दु २०४-२०५) ।।१७।। निजाऽऽशयविशुद्धौ हि बाह्यो हेतुर'कारणम् । शुश्रूषादिक्रियाऽप्यस्य शुद्धा श्रद्धानुसारिणी ॥१८॥ ___निजेति । निजाशयविशुद्धौ हि सत्यां बाह्यो हेतुः कुटुम्बचिन्तनादिव्यापारः अकारणं कर्मभावेन, आकुलस्याऽपि = दुर्निवारतया कर्मपरिणतेराक्षिप्यमाणस्य, किं पुनरनाकुलस्येत्यपिशब्दार्थः तत्र = उत्तमभावे चित्तं = अन्तःकरणं, न जायते, किं तु जायत एवोत्तमभावदर्शनस्य, अन्यथा तत्त्वाऽयोगात् - (यो.बि.२०५ वृ.) इति । ____ अत एव सिद्धान्तेऽपि सम्यक्त्वे सति वैमानिकदेव-मनुष्याऽऽयुर्व्यतिरिक्ताऽऽयुर्बन्धोऽपि निषिद्धः सङ्गच्छते । एतेन → सम्मादिट्ठिकस्स भिक्खवे ! द्विनं गतीनं अञ्जतरा गति पाटिकंखा- देवा वा मनुस्सा वा + (अंगु.२/३/८) इति अंगुत्तरनिकायवचनमपि व्याख्यातं द्रष्टव्यम् ।।१४/१७ ।।
ननु किमेतेन मोक्षप्रतिबद्धचित्तेन, येन भिन्नग्रन्थेः भावतो योग उच्यते ? क्रियाया एव फलदानप्रत्यलत्वात् । तदुक्तं नयोपदेशे → क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ।। ८ (नयो.१२९) इत्याशङ्कायामाह- 'निजेति । →
तीव्रकामोदये जाते प्रारब्धकर्मयोगतः । अध्यात्मभावना तीव्रा भाव्या वैराग्यकारिका ।। तीव्रवैराग्यभावेन तीव्रकामो विनश्यति । मुहुर्मुहुर्भृशं भाव्यं शुद्धरूपं निजात्मनः ।। परपुद्गलभोगेन सुखं तु कल्पितं वृथा। भृशं दुःखं ततः पश्चाद् ज्ञात्वा स्वात्मरतिं कुरु ।।
6 (अध्या.गी.१७९-१८१) इति अध्यात्मगीतावचनतात्पर्यपरिणमनतो गृहस्थितस्याऽपि सम्यग्दृष्टेः राग-द्वेष-मोहप्रयुक्ताऽऽचरणनिराकरणपरायणतया निजाऽऽशयविशुद्धौ = स्वकीयभावशुद्धौ सत्यां हि कुटुम्बचिन्तनादिव्यापारः कर्मबन्धं प्रति अकारणम्, भोगानादराऽनासक्ति-प्रायश्चित्त-पश्चात्तापादिविषयिण्या भावविशुद्ध्यैव बलवत्या तस्योपक्षयात् । ____एतेन → कामभोगेऽपि भुक्ते हि नाऽऽसक्तिस्तत्र विद्यते । भोगानन्तरवैराग्यं पश्चात्तापो भवेद् भृशम् ।। - (अध्या.गी.१८६) इति अध्यात्मगीतावचनमपि व्याख्यातम् । इदमेवाऽभिप्रेत्य → भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु - (स्क.पु.४२/६२) इत्येवं स्कन्दपुराणे प्रोक्तमिति पूर्वोक्तं(पृ.५३३) अत्रानुसन्धेयम्। अन्यत्रापि → सव्वाण वि सुद्धीणं मणसुद्धी चेव उत्तमा लोए ८ ( ) इत्युक्तम् । પ્રવૃત્તિથી ઘેરાયેલ હોવા છતાં પણ સાંસારિક પ્રવૃત્તિમાં તેનું મન હોતું નથી.” (૧૪/૧૭)
વિશેષાર્થ :- પ્રવૃત્તિ સારી હોવા છતાં આશય મલિન હોય તો પાપ કર્મ બંધાય, કર્મના અનુબંધ અશુભ પડે, પુણ્ય ન બંધાય. આનાથી ઊલટું, પ્રવૃત્તિ ખરાબ હોવા છતાં પણ જો અંદરનો આશય શુદ્ધ હોય, ઉજ્જવળ હોય તો કર્મના અનુબંધ અશુભ ન પડે પરંતુ શુભ અનુબંધ જ પડે.(૧૪/૧૭)
• ...तो ना निमित्त मिियत्र ગાથાર્થ - પોતાનો આશય વિશુદ્ધ હોય તો બાહ્ય હેતુઓ કર્મબંધના કારણ બની શકતા નથી. સમકિતીની શુશ્રુષા વગેરે ક્રિયા પણ શુદ્ધ શ્રદ્ધાને અનુસરનારી હોય છે. (૧૪/૧૮)
ટીકાર્ય - પોતાના આશયની નિર્મળતા હોય તો કુટુંબની સારસંભાળ વગેરે કર્મબંધના બાહ્ય હેતુઓ १. 'हेतुका' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org