________________
• सम्यग्दृष्टेः पापानुबन्धाऽयोगः
९६७
तदुक्तं- “नार्या यथाऽन्यसत्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च तथा मोक्षेऽस्य दृश्यताम् ।। न चेह ग्रन्थिभेदेन पश्यतो भावमुत्तमम् । इतरेणाऽऽकुलस्याऽपि तत्र चित्तं
सम्यग्दर्शनस्याऽतिनैमयें तु केवलं कर्मपारवश्येन भोगान् विरक्ततया भुञ्जानोऽपि रूपादींश्च पश्यन्नपि स नैव तत्र बध्यते, परं विमुच्यते । सम्मतश्चाऽयमर्थः सौगतानामपि । तदुक्तं संयुत्तनिकाये → न सो रज्जति रूपेसु रूपं दिस्वा पटिस्सतो । विरत्तचित्तो वेदेति तं च नाज्झोस तिट्ठति । । यथास्स पस्सतो रूपं सेवतो चापि वेदनं । खीयति नोपचीयति एवं सो चरति सतो ।। ← (सं.नि. ४/३५/९५) इति । न हीन्द्रियं तद्विषयो वा बन्धनं परं तद्राग एवं बन्धनम् । नेन्द्रियविषयसम्बन्धमात्रात्कर्मबन्धः । एतेन न चक्खु रूपानं संयोजनं न रूपा चक्खुस्स संयोजनं । यं च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनं । ← (सं.नि.४/ ३५ / २३२) इति संयुत्तनिकायवचनमपि व्याख्यातम् । 'संयोजनं = विस्तरतः सदृष्टिद्वात्रिंशिकायां ( द्वा.द्वा. २४/१५ भाग - ६, एतेन सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते ← (मनु. ६ / ७४, सं. गी. ९/५० ) इति मनुस्मृतिवचनं संन्यासगीतावचनञ्च व्याख्यातम्, यथोक्तं आचाराङ्गेऽपि सम्मत्तदंसी न करेइ पावं ← ( आचा. १०/ ३/२) इति । तदुक्तं भगवद्गीतायां आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ! ← (भ.गी.४/ ४१) इति । यद्यपि सम्मदिट्ठी जीवो जइ वि हु पावं समायरे किंचि । अप्पो सि होइ बंधो जेण न निबंधसं कुणइ ।। ← ( वंदित्तुसूत्र - ३६ ) इति आवश्यकसूत्रोक्तेः सम्यग्दृष्टेः स्वरूपहेतुभ्यामल्पपापकर्मबन्धः सम्भवति तथापि सानुबन्धपापकर्मबन्धाऽभाव एव तस्याऽवसेयः ग्रन्थिभेदप्रभृतिप्रभावतो धर्मयोगत्वेन परिणामिताद् वक्ष्यमाणरीत्या ( द्वा.द्वा. १५/११ पृ. १०२१) तप्तलोहपदन्याससदृशात् कुटुम्बचिन्तनादिव्यापारात् प्रतिबन्धककर्माऽपगमेन क्षिप्रं सम्यग्दृष्टिः मोक्षमाप्नोतीति भावः । गीताभाष्ये शङ्कराचार्येणाऽपि सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति ← (गी. भा. ४ / ३९) इत्युक्तम् ।
बन्धनम्' । यथा चैतत्तत्त्वं तथा पृ. १६५६) वक्ष्यामः ।
आरूढे
=
प्रकृते योगबिन्दुसंवादमाह 'नार्या' इति, 'न चेहेति च । तद्वृत्तिस्त्वेवम् → नार्यास्तथाविधायाः स्त्रियः 'यथा' इति दृष्टान्तार्थः ' अन्यसक्ताया' अन्यस्मिन्स्वभर्तुः पुरुषान्तरे रिरंसाऽतिरेकात्प्रतिबद्ध - चित्ताया: सम्बन्धिनि तत्र अन्यस्मिन्, भावे मनः परिणामे सदा सर्वकालं स्थि सति किमित्याह तद्योगः तस्मिन्- अनुरागविषये पुरुषे योगो = व्यापारः स्वभर्तृशुश्रूषणादिकोऽपि तथा पापबन्धो जायते भावतः परपुरुषपरिभोगजन्यः । चः पूर्ववत् ' तथा ' इति दान्तिकार्थः, 'मोक्षे' मोक्षविषये अस्य = भिन्नग्रन्थेः, कुटुम्बचिन्तनादिकोऽपि व्यापारो योगो निर्जराफलश्च दृश्यतां विमृश्यतामिति ( यो. बं. २०४ वृत्ति ) । न चेह नैवेह ग्रन्थिभेदेनोक्तरूपग्रन्थिविघटनेन पश्यतो निरीक्षमाणस्य भावं पदार्थं उत्तमं
मोक्षरूपं, किमित्याह इतरेण
=
=
=
=
-
=
=
•
=
पुत्रकलत्रप्रतिबन्धादिरूपेण
યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે → “જેમ પરપુરુષમાં આસક્ત સ્ત્રીનું મન કાયમ પરપુરુષમાં રહેલ હોવાથી પતિસેવા વગેરે પ્રવૃત્તિ પાપબંધકારક થાય છે. તે રીતે સમકિતીનું મન મોક્ષમાં હોય છે. એમ વિચારવું. પ્રસ્તુતમાં ગ્રન્થિભેદના લીધે ઉત્તમ ભાવને જોતો એવો સમકિતી જીવ સાંસારિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=