________________
• अशुभप्रवृत्तौ शुद्धपरिणामेन सदनुबन्धः • द्वात्रिंशिका-१४/१७ ___अन्येति । अन्यस्मिन् = स्वभर्तृव्यतिरिक्त पुंसि सक्ताया अनुपरतरिरंसायाः स्त्रियो = योषितः (=अन्यसक्तस्त्रियः) भर्तृयोगोऽपि = पतिशुश्रूषणादिव्यापारोऽपि यथाऽश्रेयसे = पापकर्मबन्धाय तथाऽमुष्य = भिन्नग्रन्थेः कुटुम्बादिव्यापारोऽपि न बन्धकृत् । पुण्ययोगेऽपि पापपरिणामेन पापस्यैव' बन्धवदशुभकुटुम्बचिन्तनादियोगेऽपि शुद्धपरिणामेन सदनुबन्धस्यैवोपपत्तेः ।
नन्वविरतसम्यग्दृष्टेः कुटुम्बचिन्ताद्युपेतत्वात्कथं भावयोगसम्भवः ? इत्याशङ्कायामाह ‘अन्येति । पुण्ययोगेऽपि = पुण्यबन्धनिमित्तीभूतेऽपि योगे धर्मानुष्ठानादौ पापपरिणामेन प्रवृत्तौ सुपात्रदानकृत्कपिलादासीवत् पापस्यैव बन्धवत् = बन्धो यथा जायते तथैव अशुभकुटुम्बचिन्तनादियोगेऽपि = अप्रशस्तेऽपि निजस्वजनादिचिन्तादियोगे शुद्धपरिणामेन = ग्रन्थिभेदप्रयुक्त-मोक्षप्राप्त्यभिलाषाऽध्यवसायेन सदनुबन्धस्यैव निर्जराफलकस्य उपपत्तेः ।
इदमेवाऽभिप्रेत्य समयसारे → जं कुणदि सम्मदिट्ठी तं सव्वं णिज्जरणिमित्तं - (स.सा.१९३) इत्युक्तम् । यथोक्तं ग्रन्थकृतैव अध्यात्मोपनिषदि ज्ञानसारे च → ज्ञानसिद्धो न लिप्यते - (अध्या. २/३५, ज्ञा.सा.१०/१) इति । तदुक्तं बुद्धिसागरसूरिभिः कृष्णगीतायां → प्रवृत्ति व बन्धाय सम्यग्दृष्टिमनीषिणाम् । आस्रवस्याऽपि यो हेतुः संवरायैव जायते ।। - (कृ.गी.१४) इति । तैरेव महावीरगीतायां → ज्ञानिनो नैव लिप्यन्ते मनो-वाक्-काय-कर्मभिः + (म.गी.३/१८७) इति, अध्यात्मगीतायामपि च “अध्यात्मज्ञानतो ज्ञानी प्रारब्धकर्मशक्तितः । कामभोगे ह्यनासक्तो भोगभोक्ता न बध्यते ।।" (अध्या.१८८) इत्युक्तम् ।
एतेन सम्यग्दृष्टिकृतधर्मयुद्धादिरपि व्याख्यातः । तदुक्तं कृष्णगीतायां → धर्मयुद्धादिकर्माणि कर्तव्यानि मनीषिभिः । कर्तव्यकर्मणां त्यागाद् निपातः सर्वदेहिनाम् ।। स्वाधिकारेण कर्तव्यं कर्म भव्यैः स्वशक्तितः । निरासक्तितया कर्मविधाने नैव दूषणम् ।।
6 (कृ.गी.१६,१२) इति । परेषामपि सम्मतमिदम् । तदुक्तं शम्भुगीतायां → पापकर्माऽप्यतः पुण्यं सद्भावेन समन्वितम् । एष मे निश्चयो विज्ञाः ! एषा मे धारणाऽस्त्यलम् ।। अधर्मस्याऽपि धर्मो वै परिणामो यदा भवेत् । एष एव तदा धर्मसूक्ष्मत्वपरिचायकः ।।
6 (शं.गी.१/११३,११६) इति । प्रकृते → निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः । केवलं वै गृहे कर्माऽऽचरन्नाऽऽयाति पातकम् ।। - (ग.गी.३/१७) इति गणेशगीतावचनमपि प्रकृते यथातन्त्रं योजनीयम् ।
ટીકાર્ય - જેમ પોતાના પતિ સિવાયના પુરુષમાં જેની ભોગેચ્છા અટકેલી નથી તેવી કુલટા સ્ત્રીની પતિસેવા વગેરે પ્રવૃત્તિ પણ પાપકર્મબંધ માટે થાય છે. તેમ સમ્યગ્દષ્ટિ જીવની કુટુંબપોષણ વગેરે પ્રવૃત્તિ પણ કર્મબંધકારક નથી, જેમ વ્યવહારથી પુણ્યનિમિત્તભૂત પ્રવૃત્તિ હોવા છતાં પણ અંદરમાં પાપનો પરિણામ હોવાથી કુલટાને પાપનો જ બંધ થાય છે. તેમ કુટુંબ ચિંતા વગેરે ખરાબ પ્રવૃત્તિ હોવા છતાં સમકિતીના આંતરિક પરિણામ શુદ્ધ હોવાના કારણે તેના અનુબંધ સુંદર જ પડે- આ વાત સંગત થઈ શકે છે. १. 'पापस्येव' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org