________________
९५८
• भवफलदारुणता .
द्वात्रिंशिका-१४/१२ फलं भवस्य विपुलः क्लेश एव विजृम्भते । न्यग्भाव्याऽऽत्मस्वभावं हि पयो 'निम्बरसो यथा ।।१२।। यण्युपनिषद्वचनं, → अस्मिन् संसारे किं कामोपभोगै/रेवाऽऽश्रितस्याऽसकृदुपावर्तनं दृश्यते - (मैत्रे. १/३) इति मैत्रेय्युपनिषद्वचनं, → यस्माज्जातो भगात् पूर्वं तस्मिन्नेव भगे रमन् । या माता सा पुनर्भार्या या भार्या मातरेव हि ।। 6 (यो.त.१३२) इति योगतत्त्वोपनिषद्वचनं, → दुःखं जन्म जरा दुःखं, दुःखं मृत्युः पुनः पुनः । संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः ।। 6 (इति ३।२) इति इतिहासोपनिषद्वचनं, → मृतश्चाहं पुनर्जातो जातश्चाऽहं पुनर्मृतः । नानायोनिसहस्राणि मया यान्युषितानि वै ।। - (निरु.२/१) इति निरुक्तोपनिषद्वचनं, →
जायते म्रियते लोको म्रियते जननाय च । अस्थिराः सर्व एवेमे सचराऽचरचेष्टिताः ।। सर्वापदां पदं पापा भावा विभवभूमयः । अयःशलाकासदृशाः परस्परमसङ्गिनः ।।
- (महो.३/४-५) इति महोपनिषद्वचनं, → भोगाऽऽभोगा महारोगाः सम्पदः परमापदः । वियोगायैव संयोगा आधयो व्याधयोऽधियाम् । (अक्ष्यु.२४) इति अक्ष्युपनिषद्वचनं, → एको हि जायते जन्तुरेक एव विनश्यति - (वा.रा.१०९/३) इति वाल्मीकिरामायणवचनं च विभाव्य, संसाराद् विरज्य → असतो मा सद् गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय 6 (अ.१, बृह.३/२८, चा.१, श.प.बा.१४/४/१/३०) इति अक्ष्युपनिषद्-बृहदारण्यकोपनिषत्-चाक्षुषोपनिषत्-शतपथब्राह्मणवचनतात्पर्यपरिणमनेन → आरोह तमसो ज्योतिः - (अथ.८/१/८) इति अथर्ववेदाऽऽशयाऽवलम्बनेन च भोगजम्बालाद् व्युपरमति ।।
जैनतन्त्रावस्थितोऽपुनर्बन्धकः पुनः → इक्को सयं पच्चणुहोइ दुक्खं कत्तारमेव अणुजाइ कम्म 6 (उत्तरा.१३/२३) इति उत्तराध्ययनादिवचनतात्पर्यावलम्बनेन च दुःखोत्पादककर्माऽनादानकृते यतते । बौद्धदर्शनाऽवस्थितोऽपुनर्बन्धकस्तु → न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनं च रहें - (म.नि.२/३२/४) इति मज्झिमनिकायवचनमीमांसया, → उपनीयति जीवितमप्पमायु जरूपणीतस्स न सन्ति ताणा । एवं भयं मरणे पेक्खमानो भोगामिसं पजहे सन्तिपेक्खो ।। - (सं.नि.१।१३) इति संयुत्तनिकायवचनतात्पर्याऽवगमेन, → मरणंतं हि जीवितं 6 (ध.प.११/३) इति धम्मपदवचनाऽऽशयाऽवबोधेन, → सब्बं योब्बनं जरापरियोसानं, सब्बं जीवितं मरणपरियोसानं 6 (वि.मा.८/१५) इति विसुद्धिमग्गवचनविभावनेन च परमशान्तिकाङ्क्षी सन् भोगाऽऽमिषं प्रजहातीत्येवं यथागमं स्वपरतन्त्रसमवतारेण विभावनीयमत्र बहुश्रुतैः । शिष्टं स्पष्टम् ।।१४/११।। ઉપાયસ્વરૂપે રત્નત્રયને સ્વીકારે છે. અન્ય ધર્મમાં રહેલ અપુનબંધક જીવ તે-તે ધર્મશાસ્ત્રોમાં બતાવેલ ध्या-हान-मन-सत्य वगैरेने संसारभुस्तिन। उपाय तरी स्वीसरे छे. (१४/११) હવે સંસારના ફળની વિચારણા અપુનબંધક જીવ કઈ રીતે કરે છે? આ વાતને ગ્રંથકારશ્રી જણાવે છે.
ગાથાર્થ :- સંસારનું ફળ માત્ર પુષ્કળ કલેશ જ છે. જેમ લીમડાનો રસ દૂધના મધુર સ્વભાવનો પરાભવ કરીને કડવાશને ફેલાવે છે તેમ આત્મસ્વભાવનો પરાભવ કરીને સંસારમાં કેવળ દુઃખ જ પોતાનો १. हस्तादर्श '...जृम्भंते' इत्यशुद्धः पाठः । २. हस्तादर्श ‘निग्राप्या...' इत्यशुद्धः पाठः । ३. हस्तादर्श 'निविरसो' इत्यशुद्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org