________________
• रागादीनां भवभ्रमणकारणता •
९५९ फलमिति । भवस्य = 'संसारस्य फलं = कार्यं विपुलः = अनुबन्धसन्तत्या विस्तीर्णः क्लेश एव विजृम्भते । नाऽत्र सुखलवोऽप्यस्तीत्येवकारार्थः ।
भवफलोहनमाविष्करोति- ‘फलमि'ति । क्लेशः राग-द्वेष-मोहात्मकोऽत्राऽवगन्तव्यः। यथोक्तं श्रावकप्रज्ञप्तौ → रागो दोसो मोहो दोसाभिस्संगमाइलिंगत्ति । अइसंकिलेसरूवा हेऊ वि य संकिलेसस्स ।। 6 (श्रा.प्र.३९३) इति पूर्वोक्तं(पृ.३३३) स्मर्तव्यमत्र । इदमुपजीव्य धर्मसङ्ग्रहण्यां हरिभद्रसूरिभिरपि → रागो दोसो मोहो दोसाभिस्संगमादिलिंगत्ति । अतिसंकिलेसरूवा हेतु चिय संकिलेसस्स ।। 6 (धर्मसं.१३७८) इत्युक्तम् । कथारत्नकोशेऽपि → रागो दोसो मोहो एए कालुस्सकारिणो गरुया - (कथार.१५०/६) इत्युक्तम् । अर्हद्गीतायां मेघविजयगणिनाऽपि → रागो द्वेषश्च संसारकारणं 6 (अ.गी.२१/१६) इत्युक्तमिति पूर्वोक्तं(पृ.३३४) न विस्मर्तव्यम् । अध्यात्मबिन्दौ → रागो द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिद्दषकाः स्युः - (अ.बिं.१/२३) इत्येवं तेषां शुद्धचैतन्यदूषकताऽभिहिता। अतः भावमालिन्यकारित्वेनाऽप्येषां प्रसिद्धिः, यथोक्तं अष्टकप्रकरणे → रागो द्वेषश्च मोहश्च भावमालिन्यहेतवः - (अष्टक.२२/२) इति पूर्व(पृ.३३३) दर्शितमेव ।।
भ्रान्तिकारणत्वञ्चैषां → राग-द्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः - (कू.पु.३/३०) इति कूर्मपुराणवचनादप्यवगन्तव्यम् । 'नत्थि रागसमो अग्गि नत्थि दोससमो गहो। नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ।।' (ध.प.१८/१७) इति पूर्वोक्ता(पृ.३३३) धम्मपदोक्तिरप्यत्राऽनुस्मर्तव्या । रागादयश्च कर्मोदयजनितात्मपरिणामस्वरूपा अवगन्तव्याः, यथोक्तं योगशतके → रागो दोसो मोहो एए एत्थाऽऽयदूसणा दोसा । कम्मोदयसंजणिया विण्णेया आयपरिणामा ।। - (यो.श.५३) इति पूर्वोक्तं(पृ.३३४) अत्रानुसन्धेयम् । यथोक्तं इतिवृत्तकेऽपि → लोभो दोसो च मोहो च पुरिसं पापचेतसं । हिंसंति अत्तसंभूता तचसारं व तत्फलं ।। - (इ.वु.३/१) इत्युक्तम् । तचसारं = रम्भावृक्षं यथा तत्सम्भूतं कदलीफलमुपहन्ति तथात्मसम्भूता रागादय आत्मानमुपहन्तीति भावः ।। __ बौद्धदर्शने रागादीनामग्नित्वमभिमतम्, यथोक्तं इतिवृत्तके एव → तयोमे भिक्खवे अग्गी । कतमे तयो ? रागग्गी, दोसग्गी, मोहग्गी 6 (इ.यु.३/४४)। अत एवैषामाश्रवत्वं → रागो दोसो मोहो य आसवा 6 (स.सा.१७७) इति समयसारे प्रसिद्धम् । तद्विलये चाऽनाश्रवो बौद्धानामपि सम्मतः, यथोक्तं विसुद्धिमग्गे → भग्गरागो, भग्गदोसो, भग्गमोहो अनासवो 6 (वि.मा.७/५९) । तत्सत्त्वे च कर्मबन्धनियमः । अत एव व्यवहारसूत्रभाष्येऽपि → रागद्दोसाणुगया जीवा कम्मस्स बंधगा होंति - (व्य.सू.भा.२/१३६) इत्युक्तम् । अत एवैषां त्याज्यता परेषामपि सम्मता, यथोक्तं संयुत्तनिकाये → रागं च दोसं च पहाय मोहं (सं.नि.१/७/२२) इत्यादि। → परसंगेण बन्धो मुक्खो परभावचायणे होइ । सव्वदोसाण मूलं परभावाऽणुभवपरिणामो ।। 6 ( ) इत्युक्तिरप्यस्यामवस्थायां परिणमनाऽर्हा । विलास हेमा छे. (१४/१२)
ટીકાર્ય - સંસારનું ફળ માત્ર ક્લેશ જ છે. આ ક્લેશ પણ અનુબંધની પરંપરા દ્વારા વિસ્તરેલો છે. મતલબ કે સંસારમાં સુખનો અંશ પણ રહેલો નથી. આવું જણાવવા માટે “જ” (ક્લેશ જ) શબ્દનો પ્રયોગ કરવામાં આવેલ છે. १. हस्तादर्श 'संसारफ....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org