________________
९५३
• कर्मप्रकृतिभेदाऽभेदमीमांसा • ___ भेदे हीति । भेदे हि एकान्ततोऽभ्युपगम्यमाने प्रकृतेः = सत्त्वरजस्तमोलक्षणाया ज्ञानावरणादिकर्मरूपाया वा नैक्यं आत्मनां संसारिणां स्यात् । तथा चैकजातीयसंसारफलोपलम्भबाध इति भावः ।
→ अध्यारोपाऽपवादतः स्वरूपं निश्चयीकर्तुं शक्यते - (पै.२।१) इति पैङ्गलोपनिषदादिवचनात् तत्तत्तन्त्रावस्थितोऽपुनर्बन्धकादिः संसारस्य हेतुं यथोहते तथैवाऽऽह ग्रन्थकृत् - 'भेद' इति । तथाविधकर्मपुरुषार्थ-काल-नियति-स्वभावलक्षणानि भवकारणानि प्रसिद्धानि । अन्त्यञ्चाऽन्तरङ्गकारणं शिष्टानि बहिरङ्गकारणानि । आद्यं बहिरङ्गं भवकारणमुद्दिश्याऽऽह- प्रकृतेः साङ्ख्यकल्पितायाः सत्त्व-रजस्तमोलक्षणायाः जैनदर्शनसम्मताया ज्ञानावरणादिकर्मरूपाया वा सर्वेषु संसारिषु निष्ठाया एकान्ततः = हेतुस्वरूप-फलैकान्तमपेक्ष्य मिथो भेदे = वैलक्षण्ये अभ्युपगम्यमाने सति संसारिणामात्मनां ऐक्यं = एकजातीयसांसारिकसुख-दुःखफलभोक्तृत्वं न = नैव स्यात्, अत्यन्तविलक्षणकारणजन्यफलशालित्वात् । तथा च एकजातीयसंसारफलोपलम्भबाधः = प्रकृतियुक्तनानाविधसत्त्वेषु पौद्गलिकत्वजात्यालिङ्गितसांसारिकसुखादिफलाऽनुभवविरोधः स्यात् । ____ अयमाशयः चैत्रस्य या कर्मादिरूपा प्रकृतिः ततो मैत्रीयप्रकृतेः सर्वथा = हेतु-स्वरूप-फलाद्य-पेक्षया वैलक्षण्योपगमे यज्जातीयं सांसारिकसुखादिकं चैत्रो भुङ्क्ते तद्विजातीयमेव सांसारिकसुखादिकं मैत्रो भुञ्जीत । न चैवमस्ति । सर्वे एव संसारिणः सत्त्वाः पौद्गलिकत्वजात्याक्रान्तमेव सांसारि-कसुखादिकमनुभवन्ति ।
तथा च सार्वलौकिकस्वरसवाह्यबाधिताऽनुभवविरोधभियैवाऽनन्तसांसारिकसत्त्वनिष्ठ-प्रकृतीनां मिथः सर्वथा सर्वदा सर्वत्र वैलक्षण्यमभ्युपगन्तुं नैव शक्यते ।
ननु प्रकृतेरेकान्तभेदे संसारिणामैक्यमनुपपन्नं स्यादिति भवद्भिरत्रोपपादितम् । परं योगबिन्दौ श्रीहरिभद्रसूरिभिस्तु प्रकृतेरेकान्तभेदेऽभ्युपगम्यमाने सति सर्वजीवानां सर्वदैव समानपरिणामापत्तिः प्रदर्शितेति तदुक्त्या साकं भवदुक्तेर्विरोधस्य सुरगुरुणाऽपि निवारयितुमशक्यत्वात् । यथोक्तं योगबिन्दौ → प्रकृतेर्भेदयोगेन, नाऽसमो नाम आत्मनः । हेत्वभेदादिदं चारु, न्यायमुद्राऽनुसारतः ।। - (यो.बिं.१९५) इति । तथा च तवृत्तिः → प्रकृतेः परपरिकल्पितायाः सत्त्वरजस्तमोरूपायाः, स्वप्रक्रियया ज्ञानावरणादिलक्षणायाः भेदयोगेनैकान्तेनैव भेदेनेत्यर्थः न = नैव असम ः = विसदृशो, नामः = परिणामश्चैतन्य-श्रद्धानोन्मीलनादिकः प्रत्यक्षत एवोपलभ्यमानः, आत्मनो = जीवस्य स्यात्, किं तु सर्वजीवानां सर्वदैव सम एव प्राप्नोति । कुत इत्याह हेत्वभेदात्-हेतोः प्रकृतिलक्षणस्याऽभेदात् अनानात्वात् । न ह्यभिन्ने हेतौ क्वचिदपि फलभेद उपपद्यत इति कृत्वा । इदमेकान्तेनैव प्रकृतिभेदेषु आत्मनः परिणामवैसदृश्याऽसाङ्गत्यलक्षणं वस्तु चारु = सङ्गतं वर्तते । कुत इत्याह “न्यायमुद्रानुसारतः” - न्यायस्य न्याय एव वा मुद्रा कृतप्रयत्नैरपि परैरनुल्लङ्घनीयत्वात् राजादिमुद्रावत्, तस्या अनुसारतः = अनुवर्तनात् । तथाहि- यदि प्रकृतिभेदे
ટીકાર્થઃ- સાંખ્યદર્શનને માન્ય સત્ત્વ, રજસુ, તમોગુણોની સામ્ય અવસ્થાસ્વરૂપ પ્રકૃતિ કે જૈનદર્શનને માન્ય જ્ઞાનાવરણીયાદિ કર્મસ્વરૂપ પ્રકૃતિ - બેમાંથી કોઈ પણ પ્રકારની પ્રકૃતિ એકાંતે ભિન્ન હોય તો સંસારી આત્માઓમાં સમાનજાતીય સાંસારિક ફળની ઉપલબ્ધિ અસંગત થઈ જાય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org