________________
९५२ • भवबीजादिपरामर्शः .
द्वात्रिंशिका-१४/१० क्रोधादीति । पूर्वार्धं गतार्थम् । अयं च शान्तोदात्तः भवगोचरं = संसारविषयं बीजं = कारणं रूपं = स्वरूपं फलं च = कार्यं ऊहते = विचारयति ।।९।। तथाहिभेदे हि प्रकृतेनैक्यमभेदे च न भिन्नता । आत्मनां स्यात्स्वभावस्याऽप्येवं शबलतोचिता ।।१०।।
पूर्वोक्तमेवोपदर्शयति- 'क्रोधादी'ति । स्वतन्त्राऽवस्थितोऽपुनर्बन्धकादिः → कोहं असच्चं कुविज्जा - (उत्त. १/१४) इति उत्तराध्ययनसूत्रोक्तेः → खंती सुहाण मूलं - (सं.स.७०) इति सम्बोधसप्ततिकोक्तेश्च परिभावनेन परतन्त्राऽवस्थितश्च → रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहाऽवयवेष्विव ?।। अपकारिणि कोपश्चेत् ? कोपे कोपः कथं न ते ?। धर्माऽर्थ-काम-मोक्षाणां प्रसह्य परिपन्थिनि ?।।
+ (याज्ञ.२२-२३) इति याज्ञवल्क्योपनिषदादितात्पर्याऽवलम्बनेन क्रोधाद्यबाधितः = तथाविधकषायविषयाद्यनभिभूतः = शान्तः तथाप्यत्र → रक्षितान्यपि यत्नेन चक्षुः श्रोत्रं मनस्तथा । स्नेहस्याऽऽलम्बनं यत्र तत्र यान्ति पुनः पुनः ।। - (ब्र.सि.३७२) इति ब्रह्मसिद्धान्तसमुच्चयवचनं लब्धप्रसरमवसेयम्, मूलतोऽनुन्मूलितत्वाद्दोषाणाम् । परं प्रकृते शान्तोदात्तः पुण्याऽनुबन्धिपुण्ययोगात् मार्गानुसारिप्रौढप्रज्ञाऽनुगतः सन् किंकुशलगवेषी भूत्वा संसारविषयं कारणं स्वरूपं कार्यञ्च वक्ष्यमाणं विचारयति ‘इह खलु अणाइ जीवे, अणाइजीवस्स भवे अणाइकम्मसंजोगनिव्वत्तिए दुक्खरूवे दुक्खफले दुक्खाणुबंधे' (पं.सू. १/१) इति पञ्चसूत्राद्यनुसारेण । यथोक्तं योगबिन्दौ →
क्रोधाद्यबाधितः शान्त उदात्तस्तु महाशयः । शुभानुबन्धिपुण्याच्च विशिष्टमतिसङ्गतः ।। ऊहतेऽयमतः प्रायो भवबीजादिगोचरम् । कान्तादिगतगेयादि तथा भोगीव सुन्दरम् ।।
+ (यो.बिं.१९३/१९४) इति । तन्त्रान्तराऽवस्थितोऽप्यपुनर्बन्धकः → यस्तु शान्त्यादियुक्तः सन् सदा विद्यारतो भवेत् । स याति देवयानेन ब्रह्मलोकावधिं नरः ।। - (शि.गी.११/२२) इति शिवगीतादिवचनमनुसृत्य शान्तोदात्तः सन् स्वागमाऽविरोधेन भव-मोक्षादिहेतु-स्वरूपाऽनुबन्ध-फलगोचरायामात्मविद्यायामनुरज्यतीत्यादिकमूहनीयम् ।।१४/९ ।।
ટીકાર્થ - ગાથાના પૂર્વાર્ધની વ્યાખ્યા તો સાતમી ગાથાની વ્યાખ્યામાં જ કહેવાઈ ગયેલ હોવાથી અહીં તેની ફરીથી વ્યાખ્યા કરવામાં આવતી નથી. આવો શાંત અને ઉદાત્ત સાધક જીવ સંસારસંબંધી ॥२९, २१३५ मने ३नी विया२९॥ ४३ छ. (१४/८)
વિશેષાર્થ - સંસારનું કારણ, સ્વરૂપ અને ફળ વિચારવાની કોઠાસૂઝ શાંત અને ઉદાત્ત વ્યક્તિમાં ४ डोय छे. या मही पनित थाय छे. (१४/८) સંસારના કારણ વગેરેની વિચારણા આ રીતે સમજવી કે
હ પુરુષ અને પ્રકૃતિમાં ક્વચિત્ ભેદાભેદ હ. ગાથાર્થ :- જો આત્મા અને પ્રકૃતિ એકાંતે ભિન્ન હોય તો સંસારી જીવોમાં ઐક્ય જોવા મળે નહિ. તથા સર્વથાઅભેદ હોય તો સંસારી જીવોમાં ભેદભાવ જોવા મળી ન શકે. એ જ રીતે સ્વભાવનો એકાંતે ભેદ કે અભેદ માનવામાં આ જ દોષ રહેલો છે. તેથી કથંચિત ભેદભેદ માનવો વ્યાજબી છે. (૧૪/૧૦) १. 'क्रोधादिति' इत्येवं मुद्रितप्रतावशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org