________________
९५४
• योगबिन्दुविरोधपरिहारः • द्वात्रिंशिका-१४/१० ___अभेदे च = एकान्ताभेदे च न भिन्नता स्यात् तेषां । तथा च नरक-तिर्यग-मनुष्यदेवादिभेदोपलम्भबाध इति भावः। स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । एवं = एकान्तपक्षे उभयतः पाशारज्जुसद्भावात् शबलता = कथंचिभेदाऽभेदरूपा सत्यपि परिणामनानात्वमात्मन इष्यते तदा मुक्तानामपि प्राप्नोति संसारिणां (? इव) मुक्तानामपि च प्रकृतिभेदाऽविशेषात् + (यो.बि.१९५ वृ.) इति चेत् ?
अत्रोच्यते- योगबिन्दौ 'यदि तत्तदात्मसङ्गता प्रकृतिरेकान्ततः तत्तदात्मनः सकाशाद् भिन्ना स्यात् तर्हि मुक्तात्मनां यथा न मिथः कश्चिद् भेदः तथैव संसारिणां सर्वजीवानां मिथो न कश्चिद् भेदस्स्यात्, प्रकृतिप्रतियोगिकैकान्तिकभेदविशिष्टात्मत्वाऽविशेषादि'त्यापादितम् । प्रकृतग्रन्थे तु 'संसारिणां सर्वसत्त्वानां याः स्वकीयाः प्रकृतयः ता मिथो यद्येकान्ततो विलक्षणाः स्युः तर्हि सकलसंसारिजीवानामेकजातीयपौद्गलिकसोपाधिकविनश्वरसांसारिकसुखादिभोक्तृत्वं न स्यात्, भोगोपधायकप्रकृतीनां मिथोऽत्यन्तं विलक्षणत्वात्, कारणानामेकान्ततो वैजात्ये कार्यसाजात्याऽयोगादि'त्यापादनमभिमतमिति नास्ति कश्चिद् विरोधः । न हि 'धूमसत्त्वेऽनलाभावोऽनुपपन्नस्स्यादि'त्यापादिते 'जलसत्त्वेऽनलोऽनुपपन्नस्स्यादि'त्यापादनस्य विरोधं प्रतियन्ति प्रेक्षावन्तः, 'धूमसत्त्वेऽनलोऽनुपपन्नस्स्यादि'त्यनेनैव साकं तद्विरोधसम्भवात् ।
_सर्वसंसारिणां याः प्रकृतयः तासां मिथ एकान्ताऽभेदे च = केनाऽपि प्रकारेण वैलक्षण्यस्य विरहे स्वीक्रियमाणे हि तेषां = अविलक्षणप्रकृतिसमेतानां सकलसंसारिसत्त्वानां भिन्नता = विलक्षणसांसारिकफलभोक्तृता न स्यात्, अविलक्षणकारणजन्यफलशालित्वात् । तथा च नरक-तिर्यग्-मनुष्य-देवादिभेदोपलम्भबाधः = अतिविलक्षणनरक-तिर्यगाद्यवस्थाऽनुभवविरोधः स्यात् । अयमत्राशयः- नारकादेः या कर्मादिरूपा प्रकृतिः ततो देवादिप्रकृतेरेकान्तेनैवाऽवैलक्षण्योपगमे प्रसिद्धं नारकत्वादि-देवत्वादिवैलक्षण्यमनुपपन्नं स्यात् । ततश्च शास्त्रसिद्ध-लोकप्रसिद्धाऽनुभवविरोधभियैवाऽनन्तसांसारिकसत्त्वनिष्ठप्रकृतीनां सर्वदा सर्वत्रैकान्तेनैवाऽवैलक्षण्यमभ्युपगन्तुं नैव शक्यते ।
तथाविधपुरुषकार-काल-नियतीनामपि संसारादि-बहिरङ्गकारणीभूतानां भेदाऽभेदयोरेकान्तयोरेतदेव दूषणम् । न च संसारादिबहिरङ्गकारणीभूतप्रकृतेः सर्वथैक्येऽपि भवाऽन्तरङ्गकारणीभूतस्वभावस्य वैचित्र्यात् सांसारिकफलभेदोपपत्तिः शक्यते कर्तुमिति वक्तव्यम्, अवशिष्टस्य स्वभावस्याऽपि अन्तरङ्गहेतुभूतस्य = भवान्तरङ्गकारणस्य भेदाभेदयोरेकान्तयोः = एकान्तिकभेदस्यैकान्तिकाभेदस्य च एतदेव यथाक्रममेकजातीयसंसारफलोपलम्भबाध-नरकतिर्यगादिभेदोपलम्भबाधलक्षणं दूषणम् । एवं = निरुक्तरीत्या एकान्तपक्षे = एकान्तभेदाऽभेदमते उभयतः पाशारज्जुसद्भावात् = उभयपक्षे दोषसत्त्वात् कथञ्चिभेदा
તથા પ્રકૃતિમાં એકાંતે અભેદ માનવામાં આવે તો સંસારી જીવોમાં ભેદભાવ જોવા ન મળે. અર્થાત્ નરક, તિર્યંચ, દેવ અને મનુષ્ય વગેરે સ્વરૂપે આત્માઓમાં જે ભેદભાવ દેખાય છે તે બાધિત થઈ જાય. તથા અંતરંગકારણ સ્વરૂપ સ્વભાવનો પણ એકાંતે ભેદ કે અભેદ માનો તો પણ આ જ દોષ આવે છે. આમ એકાંતવાદમાં બન્ને બાજુ દોરડાનો ફાંસો રહેલો હોવાથી પ્રકૃતિમાં કથંચિત ભેદાભેદ માનવો વ્યાજબી છે. કારણ કે તેનાથી જ સર્વ વ્યવહાર સંગત થઈ શકે છે. અહીં આ જે વાત જણાવેલી १.मुद्रितप्रतौ 'नृ-ति...' इत्यशुद्धः पाठः । २. हस्तादर्श 'मानुष्क..' इति पाठः । ३. मुद्रितप्रतौ ‘पाशरज्जु...' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org