________________
• मिथ्यादृशां बहुनिर्जरामीमांसा
'धन्यः = सौभाग्याऽऽदेयतादिना धनार्हः भोगसुखस्येव = शब्द-रूप-रस-गन्ध-स्पर्शसेवालक्षणस्य यथा आश्रयः, वित्ताssढ्यो विभवनायकः, =
रूपवान्
पुमान् ।।७।।
=
•
शुभशरीरसंस्थानः युवा
९४९
= तरुणः
← (श्रा.प्र.३५-३६-३७, ध.सं. ७५६-७-८) इति । अत्राऽसंयताऽविरत - मिथ्यादृष्टेः प्रतिसमयं बन्धस्य बहुत्वं निर्जरायाश्चाऽल्पत्वमुक्तमिति चेत् ? अत्रोच्यते- प्रायोवृत्तिरेषा यदसंयताऽविरतमिध्यादृष्टेः बहुतरकर्मोपचयोऽल्पतरकर्मापचयश्चेति । यदि पुनरित्थमेव सर्वदैव स्यात् तदोपचितबहुतरकर्मणां तेषां कदापि सम्यक्त्वादिलाभ एव न स्यात् । न चैवमिष्टम् । तस्मादिह त्रयो भङ्गा विज्ञेयाः (१) कस्यचित् बन्धहेतूत्कर्षात् क्षपणहेत्वपकर्षाच्चोपचयप्रकर्षः । (२) कस्यचित्तु बन्धक्षपणहेतुसाम्यादुपचयाऽपचयसाम्यम् । (३) कस्यचित्पुनः बन्धहेत्वपकर्षात् क्षपणहेतूत्कर्षाच्चापचयप्रकर्ष इति । तदिह तृतीयभङ्गे वर्तमानः सन् मिथ्यादृष्टिरपि बहुतरं निर्जरति । तदुक्तं विशेषावश्यकभाष्ये →
जो पल्लेऽतिमहल्ले धण्णं पक्खिवइ थोव-थोवयरं । सोहेइ बहु- बहुतरं झिज्जर थोवेण कालेण ।। तह कम्मधन्नपल्ले जीवोऽणाभोगओ बहुतरागं । सोहंतो, थोक्तरं गिण्हंतो पावए गंठिं ।। ← (वि.आ.भा. १२०५-१२०६ ) इति । मूलाराधनायां शिवकोट्याचार्येण जस्स पुण मिच्छदिट्ठिस्स णत्थि सीलं वदं गुणो वा वि । सो मरणे अप्पाणं कह न कुणइ दीहसंसारं ? ।। ← ( मूलारा . १ । ६१ ) इति यदुक्तं ततोऽपीदं सिध्यति यदुत विशुद्धशील- व्रत- कषायमन्दत्व-प्रकृतिभद्रकत्व-परार्थकरणादिगुणगणसत्त्वे मिथ्यादृष्टिरपि संसारमल्पस्थितिकं कुर्यादपि । यद्वोत्कटभोगतृष्णा-भवाभिनन्दिता-सहजमलप्राबल्य-निबिडतमाऽविद्याद्युच्छेदकरणतो मिथ्यादृष्टेरपि सतः संसारपरित्तीकरणं सङ्गच्छत एवेत्यवधेयं नान्तराभिप्रायेण ।
एतेन ब्रह्मचर्येण तपसा देवा मृत्युमुपाघ्नत ← ( अथ. वे. अध्याय-३ / सू. ५/मं.१९) इति अथर्ववेदवचनमपि व्याख्यातम् । स्वभूमिकोचितकर्मकरणतः शान्तोदात्तस्य चित्तशुद्ध्याविर्भावद्वारा परब्रह्मदर्शनयोग्यत्वात् । तदुक्तं गणेशगीतायां चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् । विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ।। ← (ग.गी. १ । ३७ ) इति । अत एव ग्रन्थकृताऽपि अध्यात्मसारे कृतकषायजयः सगभीरिमप्रकृतिशान्तमुदात्तमुदारधीः । समनुगृह्य मनोऽनुभवत्यहो गलितमोहतमः परमं महः ।। ← (अ.सा. ११/२१) इति कथितम् । प्रकृतोपयोगिदृष्टान्तं योगबिन्दुवृत्त्यनुसारेण व्याख्यानयति- सौभाग्यादेयतादिना धनार्ह इत्यादि । प्रकृते च शान्तोदात्तः प्रकृत्येह शुभभावाऽऽश्रयो मतः । धन्यो भोगसुखस्येव वित्ताढ्यो रूपवान् युवा ।। ← (यो . बिं. १८७ ) इति योगबिन्दु श्लोकः स्मर्तव्यः ।।१४ / ७ ।।
સૌભાગ્ય અને આઠેયનામ કર્મ વગેરેના ઉદયથી ભાગ્યશાળી બનેલો ધનાઢ્ય રૂપાળો = શુભ શરીરના દેખાવવાળો તરૂણ જેમ શબ્દ-રૂપ-રસ-ગંધ-સ્પર્શ એમ પાંચેય ઈન્દ્રિયના વિષયોનો ભોગવટો કરવા લાયક બને છે તેમ શાંત-ઉદાત્ત ભદ્રકપ્રકૃતિવાળો અપુનર્બંધક શુદ્ધ મનના પરિણામને યોગ્ય બને છે.(૧૪/૭) વિશેષાર્થ :- અપુનર્બંધક જીવની પ્રકૃતિ ભાવિભદ્રક બનવાથી ૭૦ કોડાકોડી સાગરોપમની સ્થિતિવાળા १. हस्तादर्शे 'धन:' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'धन्य' इति नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org