________________
९४८
• मिथ्यादृशां संसारपरित्तीकरणम् • द्वात्रिंशिका-१४/७ तथा शुभचेतसः = 'शुद्धचित्तपरिणामस्य आश्रयः = स्थानम् । __एतादृशगुणोपेतत्वादेव सम्यक्त्वरहितोऽपि शुभपरिणाम-प्रशस्ताध्यवसाय-विशुद्धलेश्या-प्रशस्तप्रणिधानादिगर्भसत्क्रियादिसाचिव्येन प्रबलगुणरुच्याविर्भावात्, क्लिष्टकर्मानुबन्धशैथिल्यात्, तथाभव्यत्वपरिपाकात्, सहजमलहासविशेषात्, भवाभिनन्दित्वविलयात् गुणसम्पन्नशुक्लपाक्षिकत्वप्रादुर्भावाच्च संसारं परिमितं करोति, मेघकुमार-सुबाहुकुमारादीनां पूर्वभवे शशकदया-सुपात्रदानादिसाहाय्येन तथैव संसारपरित्तीकरणदर्शनात् । तदुक्तं ज्ञाताधर्मकथाङ्गे → तए णं तुम मेहा ! ताए पाणाणुकंपयाए भूयाणुकंपयाए जीवाणुकंपयाए सत्ताणुकंपयाए संसारे परित्तीकए मणुस्साउए निबद्धे - (ज्ञा.ध.अध्ययन-१/पृ. ६६) इति । न च प्राणाद्यनुकम्पया सम्यग्दर्शनलाभोत्तरकालमेव मेघकुमारेण संसारः परिमितः कृत इति न मिथ्यादृशां भवचुलुकीकरणं सङ्गच्छते इति शङ्कनीयम्, मेरुप्रभाभिधानहस्तिभवे मेघकुमारजीवस्य सम्यक्त्वलाभे तदानीं मनुष्याऽऽयुष्यबन्धाऽसम्भवात्, ज्ञाताकर्मकथाङ्गसूत्रे → तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेण - (ज्ञाता. १/पृ.७०) इत्यादिना भगवता वर्धमानस्वामिनैव मेघकुमारपूर्वभवे सम्यक्त्वलाभनिषेधाच्च । तदुक्तं वैराग्यकल्पलतायामपि → रक्षन् शशं मेघकुमारजीवद्विपो भवं यत् प्रतनूचकार । निर्दिष्टमव्यक्तसमाधिसाम्यं तत्राऽपि मार्गाभिमुखत्वबीजम् ।। - (वै.क.ल.१/२६०) इति । जिनमहत्त्वद्वात्रिंशिकादर्शितरीत्या (द्वा.द्वा.४/१-भाग-१ पृ.२०२) ज्ञानविशेषविरहेऽपि अव्यक्तसमाधिफलविशेष प्रति विषयविशेषस्य भवितव्यतापरिपाकादेरेव वा कारणत्वमवसेयम् ।
विपाकसूत्रे अपि → तस्स सुमुहस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे, “ (विपा.श्रु.२-सुबा.अ.सू.३३) इत्येवं सुबाहुकुमारजीव-मन्दमिथ्यादृष्टि-सुमुखवृत्तान्तमावेदितम् । सुबाहुकुमारवत् विजयकुमार-ऋषभदत्त-धनपाल-मेघरथ-धनपति-नागदत्त-धर्मघोष-जितशत्रु-विमलवाहनजीवानां मिथ्यात्वाऽवस्थायां सुपात्रदानादितः संसारतनुताकरणं विपाकसूत्रे (वि.सू.श्रुतस्कं.२/अ.२-१०) व्यक्तमेव ।
वर्धमानस्वामिनः प्रथममासक्षपणपारणककारणेन विजयगाथापतेरपि संसारः चुलुकीभूतः । तदुक्तं भगवतैव भगवत्यां → तए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धणं पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए णिबद्धे, संसारे परित्तीकए 6 (भग.शत.१५/सू. ५४१) इति ।
नन्वागमोक्तमप्येतदन्यागमविरुद्धम्, यतो ग्रन्थिभेदादर्वागसंयतोऽविरतोऽनादिमिथ्यादृष्टिः कथं बहुतरकर्मनिर्जरकः स्तोकबन्धश्च सन् परित्तसंसारः स्यात् ? तदुक्तं श्रावकप्रज्ञप्ती धर्मसङ्ग्रहण्यां च → पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए नालिं । अस्संजए अविरए बहु बंधइ निज्जरे थोवं ।। पल्ले महइमहल्ले कुंभं सोहए पक्खिवे नालिं । जे संजए पमत्ते बहु निज्जरे बंधए थोवं ।। पल्ले महइमहल्ले कुंभं सोहेइ पक्खिवइ न किंचि। जे संजए अपमत्ते बहु निज्जरे बंधए न किंचि ।। કરવા માટે તત્પર એવા મનના માલિક બનેલા સાધકો. જે સાધક શાંત બને તે જ ઉદાત્ત બની શકે. એવું જણાવવા માટે અહીં કર્મધારય સમાસનો પ્રયોગ કરવામાં આવેલ છે. १. मुद्रितप्रतौ 'शुद्धशि...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org