________________
• लेश्याशुद्धि-कषायमान्द्ययोः कार्य-कारणता •
९४७ शान्तोदात्त इति । तयैव = अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्त = तथाविधेन्द्रियकषायविकारविकलः । उदात्तः = उच्चोच्चतराद्याचरणबद्धचित्तः । ततः कर्मधारयः ।
अपुनर्बन्धक एव तात्त्विकी पूर्वसेवामुपोबलयति- 'शान्ते'ति । अपुनर्बन्धकोचितैष्यद्भद्रप्रकृत्यैव शान्तोदात्तः स्यात् । शान्तः = तथाविधेन्द्रिय-कषायविकारविकलः = उत्कृष्टकर्मस्थितिबन्धाऽऽक्षेपकविषयकषायाऽऽवेगशून्यः, इन्द्रियमृते कषायाऽनुत्पादात्प्रथममिन्द्रियग्रहः, यथोक्तं बृहत्कल्पभाष्ये → जेण उ आयाणेहिं ण विणा कलुसाण होइ उप्पत्ती । तो तज्जयं ववसिमो कलुसजयं चेव इच्छंता ।। - (बृ.क.भा.१२८८) इति । आदान-कलुषपदाभ्यामिन्द्रिय-कषाययोर्यथाक्रमं ग्रहः । इन्द्रियजयः कामादित्यागेन सम्पद्यते । यथोक्तं कौटिलीय अर्थशास्त्रे → अरिषड्वर्गत्यागेनेन्द्रियजयं कुर्वीत - (अर्थशा. अध्या.७) इति । → चत्तारि धम्मदारा पण्णत्ता । तं जहा- खंती, मुत्ती, अज्जवे, मद्दवे - (स्था.४/४/ ४/३७२) इति स्थानाङ्गसूत्रोक्तानां धर्मद्वाराणामित आरभ्य लाभोऽवगन्तव्यः, तथाविधकषायविकारवैकल्यात् । मन्द-तीव्रकषायलिङ्गानि कार्तिकेयानुप्रेक्षायां → सव्वत्थ वि पियवयणं दुव्ययणे वि खमकरणं । सव्वेसिं गुणगहणं मंदकसायाण दिटुंता ।। अप्पपसंसणकरणं पुज्जेसु वि दोसगहणसीलत्तं । वेरधरणं च सुइरं तिव्वकसायाण लिंगाणि ।।
- (का.अनु.९१,९२) इत्येवमुक्तानीहाऽनुसन्धेयानि सन्मार्गदानपरैः विवेकबुद्ध्या । प्रकृते → श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाऽशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते ।। तुषारकरबिम्बाऽच्छं मनो यस्य निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ।।
- (महो.४/३२-३३) इति महोपनिषत्कारिके अनुसन्धेये स्व-परतन्त्रसमन्वयकामिभिः ।
उदात्तः = उच्चोच्चतराधाचरणबद्धचित्तः = गाम्भीर्यादिगुणयुक्तत्वेन परदोषाऽप्रकाशन-स्वगुणाऽविकत्थनादिशुभशुभतरादिप्रवृत्तिं प्रति प्रतिबद्धमनोवृत्तिकः । ततः शान्तश्चासौ उदात्तश्च = शान्तोदात्त इति कर्मधारयः । अयञ्च शान्तोदात्तस्वभावः शुद्धाऽऽचरणकारणम् । यथोक्तं योगबिन्दौ → शान्तोदात्तत्वमत्रैव शुद्धाऽनुष्ठानसाधनम् । सूक्ष्मभावोहसंयुक्तं तत्त्वसंवेदनाऽनुगम् ।। - (यो.बि.१८६) इति । इत आरभ्य लेश्या विशुध्यति, कषायमान्येनाऽध्यवसायविशेषविशुद्धेः । तदुक्तं शिवकोट्याचार्येण मूलाराधनायां → लेस्सासोधी अज्झवसायविसोधीए होइ जीवस्स । अज्झवसाणविसोधि मंदकसायस्स णायव्वा ।। - (मूला. १९११) इति । यथोक्तं वीरभद्रसूरिभिरपि आराधनापताकायां → परिणामविसुद्धीए लेसासुद्धी उ होइ जीवस्स । परिणामविसोही पुण मंदकसायस्स नायव्वा ।। मंदा हुंति कसाया बाहिरदव्वेसु संगरहियस्स । पावइ लेसासुद्धिं ८ (आ.प.८४०-८४१) इति । षट्खण्डागमे अपि → एदम्मि धम्मज्झाणे पीय-पउम-सुक्कलेस्साओ तिण्णि चेव होंति, मंद-मंदयरमंदतमकसाएसु एदस्स झाणस्स संभवुवलंभादो 6 (ष.खं.पुस्तक-१३/५-४-२६-पृष्ठ-७६) इत्येवं लेश्याशुद्धि-कषायमन्दतयोः कार्य-कारणभावो दर्शितः। अत एवाऽयं स्यात् शुद्धचित्तपरिणामस्य स्थानम् ।
ટીકાર્ય - અપુનબંધક જીવને યોગ્ય એવી ભાવિભદ્રક પ્રકૃતિના કારણે જ સાધક જીવ શાંત અને ઉદાત્ત બને છે. શાંત કહેવાનો મતલબ એ છે કે તેવા પ્રકારના તીવ્રતમ વિષય-કષાયના વિકારોનો શિકાર નથી બનતો. તથા “ઉદાત્ત' શબ્દનો અર્થ છે ઉચ્ચ-ઉચ્ચતર એવા પ્રશસ્ત આચરણને આત્મસાત્
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org