________________
• दशविधानि आगमिष्यद्भद्रत्वनिबन्धनानि •
९४५ एष्यद्भद्रां समाश्रित्य पुंसः प्रकृतिमीदृशीम् । व्यवहारः स्थितः शास्त्रे युक्तमुक्तं ततो ह्यदः ।।६।।
एष्यद्भद्रामिति । ईदृशीं = सङ्क्लेशाऽयोगविशिष्टां एष्यद्भद्रां = कल्याणाऽनुबन्धिनी पुंसः प्रकृतिं समाश्रित्य व्यवहारः पूर्वसेवादिरूपः स्थितः = प्रसिद्धः शास्त्रे = योगग्रन्थे । इत एवाऽऽरभ्याऽऽगमिष्यद्भद्रकत्वं परम्परयाऽपवर्गतरुबीजभूतं निर्निदाननिरवद्यानुष्ठान-क्षमाशीलता-जितेन्द्रियत्व-निर्मायित्व-श्रुतबीजोपादानादिना सम्पद्यते । तदुक्तं स्थानाङ्गसूत्रे → दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति । तं जहा- (१) अणिदाणताते, (२) दिट्ठिसंपन्नताते, (३) जोगवाहियत्ताते, (४) खंतिखमणताते, (५) जितिंदियताते, (६) अमाइल्लताते, (७) अपासत्थयाए, (८) सुसामण्णताते, (९) पवयणवच्छल्लयाते, (१०) पवयणउब्भावणताए (स्था.सू. १०/सूत्र-७५८) इति । → आगमिष्यद् = आगामिभवान्तरे भावि भद्रं = कल्याणं सुदेवत्वलक्षणं अनन्तरं सुमानुषत्वप्राप्त्या मोक्षप्राप्तिलक्षणं च येषां ते आगमिष्यद्भद्राः, तेषां भावः = आगमिष्यद्भद्रता - (स्था. १०/७५८ वृत्ति) इति तद्वृत्तौ अभयदेवसूरयः ।
→ पवयणपभावएणं जीवे आगमेस्सभद्दत्ताए कम्मं निबंधइ (उत्त.२९/२३) इति उत्तराध्ययनसूत्रवृत्तौ → आगमिष्यदिति-आगामिकालभावि भद्रं = कल्याणं यस्मिंस्स तथा तस्य भावस्तत्तथा तया, यदि वाऽऽगमिष्यतीत्यागमः = आगामी कालस्तस्मिन् शश्वद्भद्रतया = अनवरतकल्याणतयोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि-शुभमुपार्जयतीति भावः - (उत्तरा.२९/२३) इति शान्तिसूरिव्याख्यानमपि यथागममत्रानुयोज्यम् ।। ___ प्रकृते → अथ कस्मादुच्यते भद्रमिति ? यस्मात् स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाऽक्षभिर्यजत्राः - (नृसिं.पू.२।४) इति नृसिंहपूर्वतापनीयोपनिषदुक्ता भद्रव्युत्पत्तिरपि यथातन्त्रमनुयोज्या ।
प्रकृतिभद्रकत्वाऽनिदानत्व-क्षमाशीलत्वादिगुणगणसत्त्वेऽपि दृष्टिसम्पन्नत्वादिवैकल्येन प्रायशोऽयं भवान्तरे व्यन्तर-मनुजादावुत्पद्यत इति सम्भाव्यते । अत्र चार्थे → से जे इमे गामागर-णयर-णिगम-रायहाणि
खेड-कब्बड-दोणमुह-मडंब-पट्टण-आसम-संबाह-सन्निवेसेसु मणुया भवन्ति तं जहा- पगईभद्दगा पगईउवसंता पगईतणुकोह-माण-माया-लोहा मिउ-मद्दवसंपण्णा अल्लीणा(आलीणा) विणिया, अम्मापिउ-सुस्सूसगा अम्मापिऊणं अणतिकमणिज्जवयणा, अप्पिच्छा, अप्पारंभा, अप्परिग्गहा, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरम्भसमारम्भेणं वित्तिं कप्पेमाणा बहूई वासाइं आउयं पालेंति पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवन्ति । तहिं तेसिं गई, तहिं तेसिं ठिई, = भारसनो टु:30. पूर्वसेवा = शिल्प. बाडीनी विगत र्थमा स्पष्ट ४२वी. छ. (१४/५)
ગાથાર્થ - આત્માની કલ્યાણકારી આવી પ્રકૃતિને આશ્રયીને શાસ્ત્રમાં પૂર્વસેવારૂપ વ્યવહાર પ્રસિદ્ધ छ. तेथी म 8 50 गया ते युक्तिसंगतले. (१४/६)
ટીકાર્થ :- ભવિષ્યમાં તીવ્રતમ સંકલેશનો ભોગ ન બને તેવી અને કલ્યાણપરંપરાને લાવનારી १. हस्तादर्श 'युक्तमेतं' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'प्रकृतिं' पदं नास्ति परं हस्तादर्शे वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org