SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ • अक्रियावादिस्वरूपविज्ञापनम् • ९४३ युक्तमिति । एतच्च = एतदपि युक्तं, तीव्र = अत्यन्तमुत्कटे 'मले = कर्मबन्धलक्षणे भवाऽऽसङ्गः = संसारप्रतिबन्धः न हीयते शेषजन्तोः । मनागपि हि तन्निवृत्तौ तस्याऽपुनर्बन्धकत्वमेव स्यादिति । सङ्क्लेशायोगतः = पुनरतितीव्रसङ्क्लेशाऽप्राप्तौ सा = पूर्वसेवा मुख्या, उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा नेति हि स्थितिः शास्त्रमर्यादा ।।५।। = कर्मबन्धयोग्यतालक्षणे मले सति तदाऽऽवेगः संसारप्रतिबन्धः = सांसारिकसुखाऽऽसक्तिलक्षणो न हीयते = नैव निवर्तते शेषजन्तोः = सकृद्बन्धकादेः । यथोक्तं योगबिन्दौ → युज्यते चैतदप्येवं तीव्र मलविषे न यत् । तदावेगो भवाऽऽसङ्गस्तस्योच्चैर्विनिवर्तते ।। - (यो.बि.१८३) इति । मनागपि हि तन्निवृत्तौ = अत्युत्कटसहजमलनिवृत्तौ सत्यां तस्य = सकृद्बन्धकादेः अपुनर्बन्धकत्वमेव स्यादिति औपचारिक्येव शेषस्य पूर्वसेवेति (यो.बि.१८३) योगबिन्दुवृत्तिकृत् ।। प्रकृते मुख्याऽमुख्यपूर्वसेवागोचरां शास्त्रमर्यादां दर्शयति- पुनः = भूयः अतितीव्रसङ्क्लेशाऽप्राप्ती = अत्युत्कटराग-द्वेष-मोहलक्षणसङ्क्लेशाऽनुपलब्धौ सत्यां धर्माऽर्हजीवस्य पूर्वसेवा मुख्या = तात्त्विकी, मिथ्याऽभिनिवेशादिपातशक्तिविरहेण उत्तरोत्तरभववैराग्यादिकल्याणनिमित्तभावात् । अन्यथा = भूयोऽतितीव्रसङ्क्लेशयोगे तु न = नैव तात्त्विकी पूर्वसेवा किन्तु औपचारिक्येव, सकृबन्धकादेः मिथ्याऽभिनिवेशादिपातशक्तिसद्भावात् । यथोक्तं योगबिन्दौ → सङ्क्लेशाऽयोगतो भूयः कल्याणाङ्गतया च यत् । तात्त्विकी प्रकृतिज्ञेया तदन्या तूपचारतः ।। ( (यो.बिं.१८४) इति । अपुनर्बन्धकेऽक्रियावादित्वं क्षीयते, तथाविधयोग्यताऽऽविर्भावात् । अक्रियावादिस्वरूपं तु दशाश्रुतस्कन्धे → अकिरियावादी यावि भवति नाहियवायी नाहियपन्ने नाहियदिट्ठी, नो सम्मावादी, नो नितियावादी, न संतिपरलोगवादी 'नत्थि इहलोगे, नत्थि परलोए, नत्थि माता, नत्थि पिता, नत्थि अरहंता, नत्थि चक्कवट्टी, नत्थि बलदेवा, नत्थि वासुदेवा, नत्थि नेरइया, नत्थि सुकडदुक्कडाणं फलवित्तिविसेसे, नो सुचिन्ना कम्मा सुचिन्नफला भवन्ति, नो दुचिन्ना कम्मा दुचिन्नफला भवन्ति, अफले कल्लाणपावए, नो पच्चायंति जीवा, नत्थि निरया, नत्थि सिद्धी' । से एवं वादी एवं पन्ने एवं दिट्ठी एवं छंद-रागमतिनिविढे आवि भवति । से य भवति महिच्छे महारम्भे महापरिग्गही अहंमिए अहम्मानुए अहम्मसेवी अहम्मिटे अधम्मक्खाई अहम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे अधम्मेणं चेव ટીકાર્ય - પૂર્વોક્ત બીજો મત પણ યુક્તિસંગત છે. કારણ કે કર્મબંધસ્વરૂપ મલ અત્યન્ત ઉત્કટ હોય ત્યારે કોઈ પણ જીવને સંસારની આસક્તિ ઘટતી નથી. તથા કર્મમલનો થોડો પણ ઘટાડો થાય તો તે જીવ અપુનબંધક જ બની જાય. (તેથી સકુબંધકમાં ગૌણરૂપે પૂર્વસેવાનો ઉપચાર કરવાની વાત વ્યાજબી છે.) જો ફરીથી અત્યંત તીવ્ર સંક્લેશ ન થાય તો જ પૂર્વસેવા મુખ્ય કહેવાય. કારણ કે ભવિષ્યમાં અતિતીવ્ર સંક્લેશ ન થવાથી ઉત્તરોત્તર આગળ વધતાં ભવવૈરાગ્ય વગેરે સુંદર આત્મકલ્યાણના નિમિત્તો મળતા રહે છે. ભાવમાં ફરીથી અત્યંત તીવ્ર સંકલેશ થવાનો હોય તો વર્તમાનમાં થતી પૂર્વસેવા ઉપચારથી ४ वाय, मुख्य नलि. मा भु४५ शास्त्रमयाहा छ. (१४/५) १. 'दले' इत्यशुद्धः पाठो हस्तादर्श । २. 'संतार' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. नास्तिकवादी इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy