________________
• मतद्वयभेदव्यवस्थापनम् •
९४१ उपन्यासः शेषापेक्षोऽपि कार्यतः। 'नाऽऽसन्नोऽप्यस्य बाहुल्या दन्यथेति प्रदर्शकः ।।"(यो.बिं.१८०)। __परे पुनः अन्यत्र सकृद्बन्धकादौ अनालोचनगर्भत्वाद् = भवस्वरूपनिर्णायकोहापोहाद्यभावसङ्गतत्वाद् एनां = उपचरितां पूर्वसेवां जगुः = प्राहुः । प्राचि पक्षे कारणे कार्योपचारः, अत्र त्वनालोचनद्वाराऽमुख्यत्वरूप उपचार इति विशेषः ।।४।। = कृतः पुनरिह अस्याः = पूर्वसेवायाः उपन्यासः = प्रज्ञापनारूपः शेषाऽपेक्षोऽपि = अपुनर्बन्धकभावाऽऽसन्नजीवानाश्रित्य कार्यतः = भाविनी भावरूपां पूर्वसेवां अपेक्ष्य ‘नड्वलोदकं पादरोग' इत्यादिदृष्टान्ताद् यतः न = नैव आसन्नोऽपि = समीपवर्त्यपि जीवः अस्य = अपुनर्बन्धकभावस्य किं पुनरयमेवेत्यपिशब्दार्थः बाहुल्यात् = प्रायेण अन्यथा = अपुनर्बन्धकाऽऽचारविलक्षणो वर्तते इति एतस्याऽर्थस्य प्रदर्शकः = ख्यापकः । न हि मृत्पिण्डादि कारणं कार्याद् घटादेर्बाहुल्येन वैलक्षण्यमनुभवद् दृश्यते किन्तु कथञ्चित्तुल्यरूपतामिति (यो.बि.१८० वृ.) तद्व्याख्या । इदमेवाऽधिकृत्याऽग्रेऽपि योगबिन्दौ एव → शुध्यल्लोके यथा रत्नं जात्यं काञ्चनमेव वा । गुणैः संयुज्यते चित्रैस्तद्वदात्माऽपि दृश्यताम् ।। (यो.बि.१८१) इत्युक्तम्।
परे = केचिच्छास्त्रकाराः पुनः = पूर्वोक्ताऽपेक्षया विशेषद्योतनार्थः, सकृद्बन्धकादौ तत्प्रकृत्या = भूयःसङ्क्लेशाऽयोगविलक्षणस्वभावलक्षणया ऊहं = मार्गविषयकाऽऽलोचनं विनाऽपि एनां = पूर्वसेवां उपचरितां जगुः; भवस्वरूपनिर्णायकोहाऽपोहाद्यभावसङ्गतत्वात् = संसारमार्गाऽपवर्गमार्गयोर्हेतु-स्वरूपाऽनुबन्धनिश्चायको य ऊहाऽपोहादिः तद्विरहेण युक्तत्वात् ।
इदञ्चाऽत्राऽवधेयम्- मूलग्रन्थे कारिकोत्तरार्धे 'तत्प्रकृत्या विनाऽप्यूहम्' इति पाठो वर्तते । परं स्वोपज्ञविवरणानुसारेण तत्स्थाने 'अनालोचनगर्भत्वात्' इति पाठः सङ्गच्छते । स तु पाठो मूलग्रन्थे योगबिन्दुग्रन्थानुसारेण सम्पातायात इति प्रतिभाति । यथोक्तं योगबिन्दौ → तत्प्रकृत्यैव शेषस्य केचिदेनां प्रचक्षते । आलोचनाद्यभावेन तथानाभोगसङ्गताम् ।। - (यो.बिं.१८२) इति । ___ ननूभयत्र पूर्वसेवायामुपचरितत्वाऽविशेषात् कथमनयोर्मतयोर्भेद इति चेत् ? अत्रोच्यते, प्राचि पक्षे द्वितीयश्लोकोपदर्शिते कारणे = अपुनर्बन्धकादिकृततात्त्विकपूर्वसेवाकारणीभूते सकृद्बन्धकादिकृतदेवगुर्वादिपूजने कार्योपचारः = तात्त्विकपूर्वसेवाऽऽरोपः, अत्र = प्रकृतश्लोकप्रदर्शिते परेषां मते तु अनालोचनद्वारा અપેક્ષાએ પૂર્વસેવાની પ્રરૂપણા ભાવી કાર્યને આશ્રયીને કરવામાં આવેલ છે. આ બાબત એમ દર્શાવે છે કે અપુનબંધકની નજીક રહેલો જીવ પણ મોટા ભાગે તેના કરતાં વિલક્ષણ નથી હોતો.”
જ્યારે બીજા શાસ્ત્રકારો એમ કહે છે કે પ્રકૃતિથી જ સકબંધક વગેરે જીવો આત્મવિચારણા વગેરેથી શૂન્ય હોવાના લીધે સંસારના તુચ્છ-અનિત્ય-માયિક સ્વરૂપનો વિશેષ સ્પષ્ટ રીતે નિશ્ચય કરાવી આપે તેવા ઊહાપોહ વગેરેથી રહિત હોય છે. તેથી સકુબંધક વગેરેમાં ઔપચારિક પૂર્વસેવા હોય છે.
પ્રથમ મતમાં, કારણમાં કાર્યનો ઉપચાર કરીને અપુનબંધકની પૂર્વસેવા ઔપચારિક કહેવાયેલ છે. १. हस्तादर्श 'आस...' इत्यशुद्धः पाठः । २. 'ल्यान्ना' इत्यशुद्धः पाठो मुद्रितप्रतौ हस्तादर्श च वर्तते । अस्माभिस्तु योगबिन्दुगतः पाठ आदृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org