SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ • निश्चय-व्यवहाराभ्यां पूर्वसेवाकालः • द्वात्रिंशिका-१४/२ अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः। अस्यावस्थान्तरं मार्गपतिताऽभिमुखौ पुनः।।२।। अस्यैवेति । अस्यैव = अपुनर्बन्धकस्यैव उक्ता गुर्वादिपूजालक्षणा पूर्वसेवा मुख्या = कल्याणाऽऽशययोगेन निरुपचरिता । अन्यस्य = अपुनर्बन्धकातिरिक्तस्य सकृद्बन्धकादेः पुनः उपचारतः सा, तथाविधभववैराग्याऽभावात् । मार्गपतित-मार्गाभिमुखौ ( मार्गपतिताभिमुखौ) पुनरस्य = ___ अस्य धर्माऽधिकारित्वाद्यत्प्राप्तं तदाह 'अस्येति । अपुनर्बन्धकस्यैव गुर्वादिपूजालक्षणा पूर्वसेवा कल्याणाऽऽशययोगेन = मनाग्मुक्त्यनुकूलशुभभावसम्बन्धेन व्यवहारनयतो निरुपचरिता स्यात् । इत्थञ्चाऽपुनर्बन्धककालो व्यवहारतः पूर्वसेवाधिकारसम्पादकोऽवसेयः । निश्चयतस्तु कालो ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणाऽनिवृत्तिकरणाभ्यां ग्रन्थिभिन्नो भवति सम्यग्दर्शनं च लब्धं भवति तस्मिन्नेवेत्यर्थः, यतोऽस्मिन् विधिनाऽवस्थोचितकृत्यकरणलक्षणेन सर्वकालं वचनौषधस्य पालनेनाऽऽरोग्यं संसारव्याधिरोधलक्षणं भवति । एतेन → घणमिच्छत्तो कालो, एत्थ अकालो उ होइ णायव्वो। कालो अ अपुणबंधगपभिई धीरेहिं णिट्ठिो ।। णिच्छयओ पुण एसो, विन्नेओ गंठिभेअकालम्मि । एयम्मि विहिसयपालणाउ आरोग्गमेयाउ ।। 6 (उ.प.४३२-३३) इति उपदेशपदगाथे व्याख्याते । युक्तञ्चैतद्, यतः अपुनर्बन्धक-प्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथासूक्ष्मबोधविधायकोऽनाभोगबहुलत्वात् तत्कालस्येति (गा.१८-भाग १-पृ.४०) धर्मसङ्ग्रहवृत्ती व्यक्तम्। __ सकृद्वन्धकादेः उपचारतः = कारणे कार्योपचारमाश्रित्य सा पूर्वसेवा भवेत्, तस्याऽद्याऽपि तथाविधभववैराग्याऽभावात् = उत्कृष्टकर्मस्थितिबन्धाऽभावप्रयोजकसंसारवैराग्यविरहात् । न च मिथ्यात्वोदयवर्तित्वाऽविशेषात् सकृद्वन्धकाऽपुनर्बन्धकयोरभेदः ? इति शङ्कनीयम्, यत उभयत्राऽभिन्नग्रन्थित्वाऽविशेषेऽपि यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतः सकृदेवोत्कृष्टां सागरोपमकोटीकोटीसप्ततिलक्षणां स्थितिं भन्स्यत्यसौ सकृद्बन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्स्यति भेत्स्यति च ग्रन्थिं सोऽपुनर्बन्धक उच्यते इति प्राक् (द्वा.द्वा.३/२३, भाग-१ पृ.१७६) दर्शितमेव किं विस्मर्यते? 'सकृबन्धकादे'रित्यत्रादिपदेन द्विर्बन्धकादेर्ग्रहणं कर्तव्यम् । यथा चैतत् तथा वक्ष्यामोऽनुपदमेव (द्वा.द्वा.१४/३, पृ.९३९)। ७२वा उद्यम ४२वो मे. (१४/१) છે તાત્ત્વિક પૂર્વસેવા અપુનબંધક જીવમાં હોય છે ગાથાર્થ - અપુનબંધકની જ પૂર્વસેવા મુખ્ય ગણાયેલી છે. એ સિવાયના જીવોની પૂર્વસેવા ઉપચારથી કહેવાયેલ છે. વળી, અપુનબંધકની જ વિશેષ અવસ્થારૂપે માર્ગપતિત અને માર્ગાભિમુખ જાણવા.(૧૪/૨) ટીકર્થ - બારમી બત્રીસીમાં જણાવેલ ગુરુપૂજા-દેવપૂજા વગેરે સ્વરૂપ પૂર્વસેવા અપુનબંધક જીવને જ મુખ્ય હોય છે, કારણ કે ગુરુસેવાદિ આરાધના કરવાની પાછળ તેનો આશય આત્મકલ્યાણનો હોય છે; તેના પરિણામ આંશિક રીતે મોક્ષને અનુકૂળ થયેલા હોય છે. આથી તેની પૂર્વસેવા ઔપચારિક નહિ પણ વાસ્તવિક સમજવી. જ્યારે અપુનબંધક સિવાયના સબંધક વગેરે જીવોની યોગપૂર્વસેવા ઉપચારથી હોય છે. કારણ કે તેઓને તેવા પ્રકારનો સંસારવૈરાગ્ય ભાવ હોતો નથી. - તથા માર્ગપતિત અને માર્ગાભિમુખ નો અપુનબંધક જીવની જ વિશેષ અવસ્થાસ્વરૂપ છે. માર્ગનો અર્થ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy