________________
• हेतु-स्वरूपानुबन्धतो मार्गमीमांसा •
९३७ अपुनर्बन्धकस्य अवस्थान्तरं दशाविशेषरूपौ । मार्गो हि चेतसोऽवक्रगमनं भुजङ्गमनलिकायान'तुल्यो विशिष्टगुणस्थानाऽवाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषः । तत्र प्रविष्टो = मार्गपतितः । ___ इह केचित् आदिपदेन मार्गपतित-मार्गाभिमुखौ गृह्णन्ति, तच्च न युज्यते, यतो मार्गपतितमार्गाभिमुखौ अपुनर्बन्धकस्य एव दशाविशेषरूपी समाम्नातौ । ततश्चाऽपुनर्बन्धकग्रहणेनैव तयोर्गृहीतत्वान्न सकृबन्धकपदोत्तराऽऽदिपदेन तद्ग्रहणं युज्यते । तथाहि ललितविस्तरायां श्रीहरिभद्रसूरिभिः मार्गलक्षणं यदुक्तं तदाह ‘मार्गो = मोक्षमार्गो हि चेतसः = अन्तःकरणस्य अवक्रगमनं = मोक्षप्रापकाऽवक्रगतिप्रवृत्तिप्रयोजकाऽवक्रमति-वृत्तिलक्षणं भुजङ्गमनलिकायानतुल्यः = ऋजुनलिकायां बिले वा सावक्रगमनतुल्यः विशिष्टगुणस्थानावाप्तिप्रगुणः = अग्रेतनगुणस्थानप्रयोजकविशिष्टतरप्रशस्ताध्यवसायलाभबद्धकक्षः स्वरसवाही = स्वकीयाऽकृत्रिमस्फुरणोपहितो, न तु कृत्रिमः स्वल्पकालस्थायी परप्रेरणाप्रयुक्तो वा, क्षयोपशमविशेषः । उपदेशपदवृत्तौ (उप.पद.१९३) श्रीमुनिचन्द्रसूरिभिरपीत्थमेव मार्गलक्षणं तदनुवादरूपेणोक्तमित्यवधेयम् ।
अयमत्राशयः यथा सो बिलतो बहिर्वक्रं गच्छति परं बिले ऋजुनलिकायां वा प्रविशन् तु स्वरसत एवाऽवक्रमेव गच्छति तथैवाऽचरमावर्तकाले जीवो वक्रमेव चेष्टते, वक्रमतिमेवावलम्बते धर्मकृत्येष्वपि च वक्रमेव प्रायः सर्वत्र भाषते येन पुनर्भवपरम्परा द्राघीयसी स्यात् । परं चरमावर्तकाले मोक्षमार्गाऽनुकूलभावोपेतः सन् जीवो प्रायः सर्वत्राऽवक्रमेव चेष्टते भाषते मन्यते च । → यदन्तरं तद् बाह्यं, यद् बाह्यं तदन्तरम् + (अथ.वे.२/३०/४) इति अथर्ववेदवचनमपि परमार्थत इत एवाऽऽरभ्य लब्धाधिकारभवसेयम् । अत एव → सर्वं जिह्म मृत्युपदमार्जवं ब्रह्मणः पदम् - (म.भा.शान्तिपर्व १८९/ २१) इति महाभारतवचनमपि चरमावर्तकालवर्ती एव जीवः श्रद्धत्ते । ततश्च तस्य वक्रता हीयते, येन पुनर्भवपरम्परां विघटयन दीर्घकर्मस्थितिं क्षपयन कर्मानुबन्धं विशोधयन उपरितनगुणस्थानकाऽऽक्षेपकप्रशस्ततराऽध्यवसायसन्ततिं स्वरसत एव क्षयोपशमविशेषाल्लभते । स एव च क्षयोपशमविशेषो मार्गपदेनाऽभिमतः शास्त्रकृताम् । ___इत्थञ्च हेतुतो मोक्षमार्गः तादृशक्षयोपशमविशेषरूपः केवलिगम्यः, अनवरतप्रवृत्ताऽवक्रमतिविशेषरूपश्च स्वानुभवगम्यः, स्वरूपतस्तु मोक्षमार्गः सर्वत्राऽवक्रप्रवृत्तिलक्षणोऽवक्रमतिप्रयुक्तो लोकगम्यः, अनुबन्धतश्च मोक्षमार्गो विशिष्टतरगुणस्थानलाभोऽनागतकालगम्यः इति विवेकः । इदञ्चात्रावधेयम्- कायक्लेशसाध्या धर्मक्रिया सुकरा, मनोनैर्मल्याऽऽधायिकाऽवक्रमतिस्त्वतिदुर्लभा । इदमेवाभिप्रेत्य अध्यात्मसारे → सुत्यजं रसलाम्पट्यं, सुत्यजं देहभूषणम्। सुत्यजाः कामभोगाद्या दुस्त्यजं दम्भसेवनम् ।। - (अ.सा.३/६) इत्युक्तम् । अतो मुमुक्षुभिस्सर्वत्राऽवक्रपरिणतिसाधने यतितव्यमित्युपदेशोऽत्र लभ्यते इत्यलं प्रसक्तानुप्रसक्तेन | ____ प्रकृतं प्रक्रियते- तत्र निरुक्तमार्गे प्रविष्टः मार्गपतित उच्यते । मार्गपतितपदेन मार्गभ्रष्टो नैव છે વિશિષ્ટ પ્રકારનો સ્વરસવાદી ક્ષયોપશમ. તે ક્ષયોપશમ ચિત્તની અવક્રપરિણતિ દ્વારા ઓળખાય છે. જેમ સાપ નળીમાં સીધો ચાલે તેમ જીવના માનસિક પરિણામ સીધા ચાલે તે માર્ગ. આવી ચિત્તની સરળતા વિશિષ્ટ ગુણસ્થાનની પ્રાપ્તિ કરાવવામાં તત્પર હોય છે. સરળપરિણામવ્યંગ્ય સ્વારસિક ક્ષયોપશમવિશેષ સ્વરૂપ મોક્ષમાર્ગમાં પ્રવેશ કરનાર જીવ માર્ગપતિત કહેવાય છે. १. 'यामतु' इति मुद्रितप्रतौ पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org