________________
• लौकिक-लोकोत्तरभावनामार्गफलविचारः
१२३३
= काम-क्रोधादिपरिचयात् निवृत्तिः उपरतिः भाववृद्धिश्च 'शुद्धसत्त्वस
भावनाफलम् ।।९।।
अशुभाऽभ्यासात् मुत्कर्षरूपा तत्फलं विशेषावश्यकभाष्यवृत्ती भावना पौनःपुन्येनाऽनित्यत्वादिप्रकारतो भवनैर्गुण्यपरिभावनरूपा ← (वि.आ.भा.२४०४) इत्येवं ध्यानोपयोगिनी भावना दर्शिता । तत्रैव भावना = पुनः पुनः तत्क्रियाभ्यासवृत्तिः ← (वि. आ.भा. २९०४ वृ.) इति तु कोट्याचार्यैः, शान्तिसूरिभिस्तु उत्तराध्ययनबृहद्वृत्तौ भाव्यते आत्मसान्नीयतेऽनयाऽऽत्मेति भावना ← ( उत्त. वृ. पृष्ठ ७१० ) इत्येवं सामान्यरूपेण भावनास्वरूपमावेदितमित्यवधेयम् ।
=
=
=
=
प्रकृतमुच्यते- अयमभ्यासोऽपि प्रायशः कुलयोग्यादीनान्तु बहुतरभवाऽनुवृत्तः शुद्धो भवति । तदुक्तं षोडशके अभ्यासोऽपि प्रायः प्रभूतजन्माऽनुगो भवति शुद्धः । कुलयोग्यादीनामिह तन्मूलाऽऽधानयुक्तानाम् ।। ← ( षो. १३/१३ ) इति । आज्ञाभङ्गभीतिपरिणामवतां तथाविधोत्साहवतां चारित्रिणात्वेकेनाऽपि भवेनाभ्यासः प्रायः सिध्यति । तदुक्तं षोडशके अविराधनया यतते यस्तस्याऽयमिह सिद्धिमुपयाति ← (षो. १३/१४) इति । 'अयं = अभ्यासः' 1
=
अभ्यासस्य फलमाह - काम-क्रोधादिपरिचयात् = विभावदशाध्यासात् उपरतिः, शुद्धसत्त्वसमुत्कर्षरूपा विशुद्धचित्तवर्धमानतालक्षणा भाववृद्धिः = शुभाऽभ्यासाऽनुकूलता च भावनाफलम् । तदुक्तं योगबिन्दो → निवृत्तिरशुभाऽभ्यासाच्छुभाऽभ्यासाऽनुकूलता । तथा सुचित्तवृद्धिश्च भावनायाः फलं मतम् ।। ← (यो.बिं.३६१) इति। ततश्च जन्मादिसङ्क्षयः सम्पद्यते । तदुक्तं शीलप्राभृते जे पुण विसयविरत्ता णाणं णाऊण भावणामहिदो । छिंदंति चादुरगदिं तवगुणजुत्ता ण संदेहो ।। ← ( शी. प्रा. ८) इति भावनीयम् । बौद्धदर्शने भावनाया द्वैविध्यम् । तदुक्तं अभिधर्मकोशभाष्ये वसुबन्धुना द्विविधो भावनामार्गःलौकिकः लोकोत्तरश्च ← ( अ. ध. को. ६ । १ ) इति । बौद्धदर्शने भावनाफलं अंगुत्तरनिकाये “कतमञ्च, भिक्खवे, भावनाबलं । तत्र, भिक्खवे, यमिदं भावनाबलं सेखानमेतं बलं । सेखहि सो, भिक्खवे, बलं आगम्म रागं पजहति, दोसं पजहति, मोहं पजहति । रागं पहाय, दोसं पहाय, मोहं पहाय यं अकुसलं न तं करोति, यं पापं न तं सेवति । इदं वच्चति, भिक्खवे भावनाबलं । कतमञ्च, भिक्खवे, भावनाबलं ? इध भिक्खवे, भिक्खु सतिसम्बोज्झ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं धम्मविचयसम्बोज्झङ्गं भावेति.. वीरिय सम्बोज्झङ्गं भावेति... पीतिसस्बोज्झङ्गं भावेति... पस्सद्धिसम्बोज्झङ्गं भावेति... समाधिसम्बोज्झङ्गं भावेति उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोसग्गपरिणामिं । इदं वुच्चति, भिक्खवे, भावनाबलं । ← (अंगु.भाग-१, स्कन्ध१ / पृष्ठ-७०-१ २ ।१२ ) इत्येवमुपवर्णितं तदपि यथागममत्र योज्यं, भूमिकाभेदेन भावनायोगस्य सार्वतन्त्रिकत्वात् ।।१८/९।।
ભાવનાનું ફળ છે કામ-ક્રોધાદિ અશુભ તત્ત્વોના પિરચયથી પાછા ફરવું અને શુદ્ધ સત્ત્વનો સારી રીતે ઉત્કર્ષ સાધવા સ્વરૂપ શુભભાવવૃદ્ધિ. (૧૮/૯)
વિશેષાર્થ :- તત્ત્વજ્ઞાનગર્ભિત હોય તેવો અને વર્ધમાન હોય એવો અધ્યાત્મવિષયક અભ્યાસ ભાવના१. हस्तादर्शे 'मुद्ध' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org