________________
• मैत्र्यादितः क्षिप्रं समाध्यादिलाभः
द्वात्रिंशिका - १८/७
तदुक्तं- “एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । 'सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः३ ।।” (षो. १३/११) । ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह“मैत्रीकरुणामुदितोपेक्षाणां सुख-दुःख- पुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति” (यो.सू.१३३) ।।७।।
१२३०
→ अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्र- पुरीषयोश्च । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ।। ← (स्क. पु. माहेश्वर खं. - कुमारिका खं. ५५/१३८) इति स्कन्दपुराणदर्शितलक्षणलक्षितानां योगाऽऽरम्भकाणां तु अभ्यासादेव = पुनः पुनरनुशीलनादेव सुखीर्ष्यादित्यागेन यथाक्रमं मैत्र्यादिविशुद्धिरिति । तदुक्तं षोडशके 'एता' इति । अस्य योगदीपिकाव्याख्या एवम् → एताः प्रागुक्ताः खलु पुनः अभ्यासात् पुनः पुनरावृत्तेः क्रमेण आनुपूर्व्या वचनानुसारिणां आगमपुरस्कारिणां पुंसां = पुरुषाणां सद्वृत्तानां = सच्चरित्राणां सततं युक्तानां परिणमन्ति आत्मसाद् भवन्ति उच्चैः अत्यर्थम् ← ( षोड. १३/११ यो. दी.) इति । ततश्च = मैत्र्यादिविशुद्धेश्च निरपायः निर्विघ्नः मोह-मद-मदन- मत्सर- मान-माया - मूढता-मताग्रहमहत्त्वाकाङ्क्षाद्यपायशून्यो वा शीघ्रमेव अध्यात्मलाभः । आगमपरिभाषाऽपेक्षयाऽपि कोहं च माणं च तहेव मायं लोभं चउत्थं अज्झत्थदोसा ← (सू. कृ. १ । ६ । २६ ) इति सूत्रकृताङ्गसूत्रोक्तानां क्रोधमानादीनामध्यात्मप्रतिबन्धकानां मैत्री - प्रमोदादितो विलयेनाऽध्यात्मलाभोऽनाविल एव ।
अनवरतं श्राद्धानां = श्रद्धा
एतच्च बौद्धानामपि सम्मतम् । तदुक्तं विसुद्धिमग्गे मेत्ताविहारिनो खिप्पमेव चित्तं समाधीयति ← (वि. म. ९/७३) । मज्झिमनिकाये तुमेत्तं, राहुल ! भावनं भावेहि । मेत्तहि ते, राहुल! भावनं भावयतो यो ब्यापादो सो पहीयिस्सति । करुणं, राहुल ! भावणं भावेहि । करुणहि ते, राहुल ! भावनं भावयतो या विहेसा सा पहीयिस्सति । मुदितं, राहुल ! भावनं भावेहि । मुदितञ्हि ते राहुल ! भावनं भावयतो या अरति सा पहीयिस्सति । उपेक्खं, राहुल ! भावनं भावे । उपेक्खहि ते, राहुल ! भावनं भावयतो यो पटिघो सो पहीयिस्सति ← (म.नि. २ २ २ १२१, पृ.९५ ) इत्येवं मैत्र्यादिभावनाफलमुक्तमित्यवधेयम् । 'व्यापादः = परपीडाचिन्तनं, विहेसा हिंसा, पटिघो
=
=
=
=
=
=
-
=
=
विरोधभावः', शिष्टं स्पष्टम् ।
प्रकृते योगसूत्रकारसंवादमभ्युच्चिनोति- पतञ्जलिरप्याह 'मैत्री'ति । सुखितेषु 'साधु एषां ઇર્ષ્યા વગેરેના પરિહારથી મૈત્રી વગેરે ભાવનાની વિશુદ્ધિ થાય છે. તેથી ષોડશક ગ્રંથમાં જણાવેલ છે 3 'खा मैत्री वगेरे भावनाओ उभृश: सल्यास = પરિશીલન કરવાથી આગમને અનુસરનારા, સુંદર ચારિત્રવાળા અને સતત શ્રદ્ધાવાળા પુરુષોને અત્યંત પરિણમે છે.' ć તેનાથી નિર્વિઘ્ન અધ્યાત્મલાભ થાય છે. મહર્ષિ પતંજલિએ પણ યોગસૂત્રમાં જણાવેલ છે કે → ‘સુખ,દુઃખ, પુણ્ય અને પાપ વિષયક मैत्री, पुरुषा, भुहिता भने उपेक्षानुं परिशीसन अरवाथी वित्तनी शुद्धि थाय छे' ← (१८/७)
१. हस्तादर्शे 'सवृ..' इति त्रुटितः पाठः । २. 'शुद्धानां ' इति मुद्रितप्रतावशुद्धः पाठः । ३. मुद्रितप्रतौ '..त्युच्चेः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=