________________
१२२२
• विविधानि अध्यात्मलक्षणानि •
द्वात्रिंशिका - १८/३
करुणा- - मुदितोपेक्षालक्षणैः समन्वितं ( ? संयुक्तं ) = सहितं ( = मैत्र्यादिभावसंयुक्तं ) अध्यात्मं तद्विदो = अध्यात्म-ज्ञातारो विदुः जानते ||२||
=
=
सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारि - स्वकीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया ।।३।। सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण विषयभेदेन चतुर्विधा । स्वोपकारकर्ता, स्वकीयः अनुपकर्ताऽपि नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाऽऽश्रितः ← (यो.श. ७९) इति । यथोक्तं हरिवंशपुराणे अपि मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यं च यथाक्रमम् । सत्त्वे गुणाधिके क्लिष्टे ह्यविनेये च भाष्यते ।। ← ( ह.पु.५८ / १२५ ) इति । अध्यात्मलक्षणं योगबिन्दौ अपि → औचित्याद् वृत्तयुक्तस्य वचनात् तत्त्वचिन्तनम् । मैत्र्यादिसारमत्यन्तमध्यात्मं तविदो विदुः ।। ← (यो.बिं.३५८) इत्येवमुक्तम् । अध्यात्मतत्त्वालोके न्यायविजयेन तु शुद्धाऽऽत्मतत्त्वं प्रविधाय लक्ष्यममूढदृष्ट्या क्रियते यदेव । अध्यात्ममाहुर्मुनिपुङ्गवास्तत् चिनं प्रबुद्धात्मन एतदस्ति ।। ← (अ. त.१/१७) इत्येवं तल्लक्षणमुक्तम् । अध्यात्मोपनिषदि च आत्मानमधिकृत्य स्याद् यः पञ्चाचारचारिमा । शब्द-योगार्थनिपुणास्तदध्यात्मं प्रचक्षते ।। ← ( अ. उप. १/२) इति तल्लक्षणमेतद्ग्रन्थकृतोक्तम् । अध्यात्मसारे च → गतमोहाऽधिकाराणामात्मानमधिकृत्य या । प्रवर्तते क्रिया शुद्धा तदध्यात्मं जगुर्जिनाः ।। ← (अ.सा.२/२) इति तल्लक्षणमुक्तम् । अध्यात्मबिन्दुवृत्तौ तु आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धाऽऽत्मस्वरूप श्रवण-मनन-निदिध्यासनरूपोऽपि लक्षणयाऽध्यात्मम् ← (अ. बिं. १/१ वृत्ति) इत्येवं हर्षवर्धनोपाध्यायैरुक्तम् । नयमतभेदेनाऽत्रत्यं तत्त्वमस्माभिर्व्यावर्णितं अध्यात्मवैशारद्यामिति नयरसिकैः साऽध्यात्मोपनिषट्टीकाऽवलोकनीया ।।१८ / २ ।। मैत्रीं निरूपयति- 'सुखे 'ति । सुखेच्छा मैत्री मता । निशीथचूर्णिकारमते मित्तभावो मैत्री ← (नि.भा.२७३४-चू.भाग - ३) । परहितचिन्ता मैत्री ← ( षोड. ४/१५ ) इति षोडशके । स्याद्वादकल्पलतायां मैत्री = प्रत्युपकारनिरपेक्षा प्रीतिः ← (स्या. क. १ / ६ ) इत्युक्तम् । अन्यविधा मैत्रीव्याख्या मत्कृतकल्याणकन्दलीतः ( षोड. ४/१५ वृत्ति) अवसेया । मैत्रीचतुर्विधत्वमाह - 'उपकारी 'त्यादि । ननु स्वोपकारकर्तेत्यनेनैव स्वकीयपदोपादानमनतिप्रयोजनमित्याशङ्कायामाह - स्वकीयः
अनु
=
=
युक्त होय - खावु अध्यात्मवेहीखो भये छे. (१८/२)
વિશેષાર્થ :- અણુવ્રત, મહાવ્રત વગેરેનો સ્વીકાર ઔચિત્યગર્ભિત હોવો જોઇએ. અધ્યાત્મના અધિકારી જીવનું આ વિશેષણ છે. જીવાદિ નવતત્ત્વનું ચિંતન જિનવચનાનુસાર થવું જોઇએ, સ્વકલ્પનાથી નહિ. તથા તત્ત્વનું ચિંતન શુષ્ક રીતે નહિ પણ મૈત્રી વગેરે ભાવોથી ગર્ભિત રીતે થવું જોઇએ. (૧૮/૨)
गाथार्थ :- श्रीभना सुजनी छा से मैत्री मनायेस छे. ते यार प्रहारनी छे. (१) उपहारी, (२) स्व४न, (3) स्वाश्रित जने (४) सर्व कवीने विशे मैत्री भावी. (१८/3)
१. हस्तादर्शे 'मुदितसमन्वितं ' इति त्रुटितः पाठः ।
Jain Education International
=
ટીકાર્થ :- બીજા જીવોના સુખની ઇચ્છા મૈત્રી મનાયેલી છે. તે વિષયના ભેદથી ક્રમસર ચાર પ્રકારની છે. (૧) પોતાના ઉપર ઉપકાર કરનારના વિશે, (૨) પોતાના ઉપર ઉપકાર ન કરનાર હોવા છતાં પણ
For Private & Personal Use Only
www.jainelibrary.org