________________
• नालप्रतिबद्धनिरूपणम् •
१२२३ स्वाऽऽश्रितो वा, अखिलाश्च = प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया = तद्विषया (उपकारिस्व-कीय-स्वप्रतिपन्नाऽखिलाऽऽश्रया) । तदुक्तं- “उपकारि-स्वजनेतर-सामान्यगता चतुर्विधा मैत्री” (षो. १३/९) इति ।।३।। पकर्ताऽपि नालप्रतिबद्धादिः = वल्लीप्रतिबद्धादिः । वल्ली च द्विधा, निरन्तरा सान्तरा च । निरन्तरा इमे षड् जनाः - माता, पिता, भ्राता, भगिनी, पुत्रो दुहिता च। तदुक्तं व्यवहारभाष्ये → वल्ली संतरणंतर अणंतरा छज्जणा इमे हुंति । १ माया २ पिया य ३ भाया, ४ भगिणी ५ पुत्तो य ६ धूया य ।। 6 (व्य.भा.४/४३२) इति । सान्तरा पुनः(अ)मातुः १ माता २ पिता ३ भ्राता ४ भगिनी च। (ब) पितुः १ माता २ पिता ३ भ्राता ४ भगिनी च । (क) भ्रातुः अपत्यं = भ्रात्रीयो भ्रात्रीया वा । (ड) भगिन्या वा अपत्यं १ भागिनेयो २ भागिनेया वा । दौहित्रो दौहित्री पौत्रः पौत्री च । तदुक्तं पञ्चकल्पभाष्ये → माउं माया य पिया भाया भगिणी य, एवं पिउणो वि । भाउं भगिणीए वच्चा धूया-पुत्ताण वि तहेव परंपरावल्ली एसा ।। - (पं.क.भा.२४०७) इति । तदुक्तं व्यवहारसूत्रभाष्ये अपि → माउम्माय पिया भाया, भगिणी एव पिउणो वि चत्तारि । पुत्तो धूया य तधा, भाउगमादी चउण्हं पि।। - (व्य.भा.१०/३९६६) इति।।
स्वपूर्वपुरुषाऽऽश्रितः = स्वपितृ-पितामह-कुलवृद्धादिपूर्वपुरुषप्रतिपन्नः स्वाश्रितो वा उक्तनिमित्तद्वयाऽनपेक्षः। प्रतिपन्नत्वसम्बन्धनिरपेक्षाः = उक्तनिमित्तत्रयाऽनपेक्षाः सर्व एव परिचिताऽपरिचितसाधारणाः प्राणिनः तद्विषयाः । चतुर्थ्या उदाहरणन्तु उमास्वातिवाचकैः तत्त्वार्थभाष्ये → मैत्री सर्वसत्त्वेषु 'क्षमेऽहं सर्वसत्त्वानां, क्षमयेऽहं सर्वसत्त्वान्, मैत्री मे सर्वसत्त्वेषु, वैरं मम न केनचित्' - (त.सू. ७/६ भा.) इत्येवं, तदनुसारेण उद्योतनसूरिभिः कुवलयमालायां → खामेमि सव्वसत्ते सव्वे सत्ता खमन्तु मे । मेत्ती मे सव्वभूएसु वेरं मझं न केणइ ।। - (कुव.मा.पृ.२१८) इत्येवं, कालीदासेन च विक्रमोर्वशीये → सर्वस्तरतु दुर्गाणि, सर्वे भद्राणि पश्यन्तु । सर्वः कामानवाप्नोतु, सर्वः सर्वत्र नन्दतु ।। - (विक्रमो. ५/२५) इत्येवं, खुद्दकपाठे → सब्बे व भूता सुमना भवन्तु (खु.पा.६/१) इत्येवं, पटिसम्भिदामग्गे च → सब्बे सत्ता अवेरिनो होन्तु, मा वेरिनो । सुखिनो होन्तु, मा दुक्खिनो - (प.सं.म.२/४/२/६) इत्येवमावेदितम् । अत्र षोडशकसंवादमाह- 'उपकारी'त्यादि । भावितार्थमेवेदम् ।।१८/३॥ નાલપ્રતિબદ્ધ એવા માતા,પિતા, કાકા, મામા વગેરે સ્વજનો વિશે મૈત્રી, (૩) પોતાના પૂર્વજોને આશ્રયીને રહેલી વ્યક્તિ કે પોતાને આશ્રિત થયેલી વ્યક્તિને વિશે મૈત્રી તથા (૪) પોતાના પૂર્વજોને કે પોતાને આશ્રિત હોવાના સંબંધની પણ જેમાં અપેક્ષા નથી તેવા સર્વજીવોને વિશે મૈત્રી. ષોડશક ગ્રંથમાં શ્રી હરિભદ્રસૂરિજીએ જણાવેલ छ । “3451री, १४न, अन्य अने सर्वमान्य पोने विशे २३०ी मैत्री या प्रा२नी छ'.(१८/3)
વિશેષાર્થ :- પેટની ડુંટીમાં માતાની જે નાળ હોય છે તે જેની સમાન હોય અર્થાત્ એક જ માતાની કુક્ષિએ જન્મેલ એવા કાકા, ફઈ, મામા, માસી તથા તેનો જે વ્યક્તિ સાથે પરંપરા સંબંધ છે તે ભત્રીજાભત્રીજી, ભાણિયા-ભાણેજી વગેરે. એ જ રીતે પૌત્ર-પૌત્રી, દોહિત્ર-દૌહિત્રી વગેરે. આ બધા નાલપ્રતિબદ્ધ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org