________________
योगबिन्दु-शतक-धर्मरत्नप्रकरणादिग्रन्थविरोधशमनम् •
१२१७
योगप्रवृत्तिरत्र स्यात्परमानन्दसङ्गता । 'देशसर्वविभेदेन चित्रे' सर्वज्ञभाषिते ।। ३२ ।। आणाऽऽराहणम्मि तल्लिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ।। ← ( ध रत्न. १२६) इत्येवमावेदितम् ।
ननु योगबिन्दुप्रभृतौ चारित्रस्य पञ्च लिङ्गान्युक्तानि, योगशतकोपदेशपदादी षट्, धर्मरत्नप्रकरणे च सप्तेति कथं नाऽत्र विसंवादः ? इति चेत् ? अत्रोच्यते, मार्गानुसारित्व-शक्याऽऽरम्भाभ्यामेव सत्क्रियापरत्वाऽऽक्षेपादेव न तस्य स्वातन्त्र्येणोक्तिः योगबिन्दुप्रमुखे । चारित्रिणो नियमेन गुर्वाज्ञाराधनं तु योगशतकयोगबिन्दुप्रमुखप्रकरणप्रासादसूत्रधारैः श्रीहरिभद्रसूरिभिरेव उपदेशपदे एयं च अत्थि लक्खणमिमस्स नीसेसमेव धन्नस्स । तह गुरुआणासंपाडणं च गमगं इह लिंगं ।। ( उप पद. २००)
इत्येवं पञ्चाशके च
•
आणारुइणो चरणं आणाए च्चिय इमं ति वयणाओ । एत्तोऽणाभोगम्मि वि पण्णवणिज्झो इमो होइ ।। एसा य परा आणा पयडा जं गुरुकुलं ण मोत्तव्वं । आचारपढमसुत्ते एत्तो च्चिय दंसियं एयं ।। ←(पञ्चा.११/१२-१३) इत्येवं व्यावर्णितमिति न कश्चिद् विरोधः । मूलभूततत्त्वाऽभेदेऽपि विवक्षाभेदेन लिङ्गादिभेदप्रतिपादनमपि सङ्गच्छत एव श्रोतॄणां रुचिवैचित्र्यात् ।
चरण-करणाऽनुयोगाभिप्रायेण तु मूलोत्तरगुणानामेव चारित्रलिङ्गत्वमित्यप्यवधेयम् । चारित्तं परिणामो जीवस्स सुहो उ होइ विष्णेओ । लिंगं इमस्स भणियं मूलगुणा उत्तरगुणा य ।। ← ( धर्म. सं. ८५६ ) इत्येवं धर्मसङ्ग्रहण्यां श्रीहरिभद्राचार्योक्तिरप्यत्र साक्षिणी वर्तते । विवक्षाभेदेनेव प्रयोजनभेदेनाऽपि लिङ्गादिप्रज्ञापनाभेदोऽभिप्रेत एव अतिव्याप्त्यादिदोषविरहे सति । अत एवैकस्याऽपि ग्रन्थकृतो नानाग्रन्थेषु विभिन्नसङ्ख्याकलक्षणादिप्रज्ञापनाऽपि दृश्यते विलक्षणलक्षणादिप्ररूपणाऽपि चोपलभ्यते । प्रकृते च गुरुविनयः स्वाध्याये योगाऽभ्यासः परार्थकरणञ्च । इति कर्तव्यतया सह विज्ञेया साधुसच्चेष्टा ।। ← ( षोड. १३/१) इति षोडशकोक्तिरपि स्मर्तव्या । → सद्धा विरियसाधनं चारित्तं ← (वि.म.१/२६ ) इति विसुद्धिमग्गवचनमपि यथातन्त्रमत्राऽनुयोज्यम् । अपुनर्बन्धक-सम्यगदृष्टिलक्षणाऽवस्थाद्वयाऽभ्यासोत्तरकालमेव धीमता प्रवज्याग्रहणान्नोपसर्गादिप्रसङ्गे ग्लानाद्यवस्थायां वा कायपातभावेऽपि चित्तपातसम्भवः । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये
भावस्तु नियमादेव भिद्यते नैव केनचित् । कायपातादिभावेऽपि शुभाऽऽलम्बनयोगतः ।। चिन्तारत्नाऽनुगं चित्तं न स्वतोऽन्यत्र वर्तते । तद्गुणज्ञस्य दौर्गत्यादुद्विग्नस्य तथा ह्ययम् ।। द्वयाऽभ्यासात् पुनर्धीमान् यतश्चारित्रभाग् भवेत् । अक्षेपेण ततश्चैवमुपन्यासोऽपि युक्तिमान् ।। ← (ब्र.सि. १७१-१७३) इत्युक्तमिति भावनीयम् ।।१७/३१।।
:
ગાથાર્થ ઃ- દેશ-સર્વભેદથી વિભિન્ન એવા સર્વજ્ઞોક્ત ચારિત્રને વિશે યોગની પ્રવૃત્તિ પરમાનંદથી संगत थाय छे. (१७/३२)
१. हस्तादर्शे 'दिस' इत्यशुद्धः पाठः । २ हस्तादर्शे 'चित्र' इत्यशुद्धः पाठः । ३. हस्तादर्शे ' भाषितं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org