SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ १२१६ शक्यारम्भस्वरूपविवरणम् • द्वात्रिंशिका - १७/३१ भावनिवृत्तेरिति (यो.श.१५ वृत्ति) योगशतकवृत्तिकृत् । न शक्ये प्रमाद्यति न चाऽशक्यमारभत इति पञ्चाशकवृत्तिकार उपदेशपदवृत्तिकारश्च । शक्यमेव ह्यनुष्ठानं विधीयते, नाऽशक्यम् ← (वि.आ.भा. २६८५ मल.वृ.) इति विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । अशक्याऽऽरम्भस्योत्तरकालमावश्यकपरिहाणि-शरीरग्लान्यादिजनकत्वेनोत्तरशुभाऽनुबन्धाऽनुवृत्त्यनुपपत्तेरिति (उप. रह. गा. १० वृत्ति) उपदेशरहस्वृत्तौ । पूर्वोक्तं (पृ.१०१३) पुरिसंतस्सुवयारं अवयारं चप्पणो य णाऊणं । कुज्जा वेयावडियं, आणं काउं निरासंसो ।। ← उप पद.२३७) इति उपदेशपदवचनमप्यत्राऽविसंवादितया स्मर्तव्यम् । ततश्चाऽशक्याऽनारम्भोऽत्र कुत्सिताऽनारम्भलक्षणः शुभाऽनुबन्धव्याघातकाऽनारम्भात्मको वा ज्ञेयः । इत्थमेव सो हु तवो कायव्वो जेण मणो मंगुलं न चिंतेइ । जेण न इंदियहाणी, जेण य जोगा न हायंति ।। ← (पं.व.२१४, म.नि. चू. २४) इति पूर्वोक्तं (पृ.५१२) पञ्चवस्तुकवचनं महानिशीथचूर्णिवचनं च सङ्गच्छते । धर्मरत्नप्रकरणे अपि बहुलाभमप्पछेयं सुसारविसारओ सुई ।। संघयणादणुरूवं आरंभइ सव्वमेवणुट्ठाणं । जह तं बहु साहइ निवडइ अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाऽऽढवइ ।। ← (ध. रत्न. ११५-११६ ) इति गदितं श्रीशान्तिसूरिभिः । अपिशब्देन क्रियापरतादिग्रहः । तदुक्तं चारित्रिलिङ्गोपदर्शने योगशतके पञ्चाशके चमग्गसारी सद्धो पण्णवणिज्जो कियापरो चेव । गुणरागी सक्कारंभसंगओ तह य चारिती ।। ← (यो.श.१५ / पञ्चा.३/६) इति । उपदेशपदेऽपि मग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सक्कारंभसंगओ जो तमाहु मुणिं ।। ← ( उप पद. १९९) इति । क्रियापरत्वञ्च चारित्रमोहनीयकर्मक्षयोपशमाद् मुक्तिसाधनाऽनुष्ठानकरणपरायणत्वं, तथाविधनिधिग्राहकवत् । प्रयोगश्चात्रैवम्, चारित्रं क्रियापरमेव, सत्क्रियारूपत्वादिति । सत्क्रियास्वप्रमादपरत्वे एव चारित्रं सम्भवतीत्याशयः । तदुक्तं धर्मरत्नप्रकरणे → सुगइनिमित्तं चरणं तं पुण छक्कायसंजमो एव । सो पालिउं न तीरइ विगहाइपमायजुत्तेहिं । पव्वज्जं विज्जं पिव साहंतो होइ जो पमाइल्लो । तस्स न सिज्झइ एसा करेइ गरुयं च अवयारं ।। पडिलेहणाइचिट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ हुज्जा ।। रक्ख वसु खलियं उवउत्तो होइ समिइगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिरचित्तो || कालंमि अणूणहियं किरियंतरविरहिओ जहासुत्तं । आयरइ सव्वकिरियं अपमाई जो इह चरित्ती ।। ← (ध. रत्न. ११०-११४) इति । इत्थञ्च पञ्चाशक- योगशतकोपदेशपदानुसारेण चारित्रस्य षड्विधानि लिङ्गान्यवसेयानि। एतानि चाऽवक्रगामिलक्षणरूपेणापि विज्ञेयानि मग्गणुसारी सड्ढो पन्नवणिज्जो कियावरो चेव । गुणरागी जो सक्कं आरभइ अवंकगामी सो ।। ← ( उप रह. १०) इति उपदेशरहस्यवचनात् । तथा गुर्वाज्ञाराधनमपि चारित्रलक्षणमवसेयम् । तदुक्तं धर्मरत्नप्रकरणे एयस्स उ लिंगाइं सयला मग्गाणुसारिणी किरिया । सद्धा पवरा धम्मे पण्णवणिज्जत्तमुजुभावा ।। किरियासु अपमाओ, आरंभो सक्कणिज्जऽणुट्ठाणे । गुरुओ गुणानुराओ गुरुआणाऽऽराहणं परमं ।। ← (ध. रत्न. ७८-७९) इति । गुर्वाज्ञाराधनस्वरूपन्तु धर्मरत्नप्रकरणे गुरुपयसेवानिरओ गुरु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy