________________
• काकमतोपदर्शनम् •
द्वात्रिंशिका - १७/१३ अतोऽन्वयव्यतिरेकाऽविशेषात् पौर्वदेहिकस्येवैहिकस्याऽपि कर्मणः कार्यहेतुत्वमिति द्वयोरन्योऽन्यापेक्षत्वमेव । तदुक्तम्
लूनशिरा हरिर्दृशि सरुक् व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वर्नाथोऽपि विसंस्थलः खलु वपुः संस्थैरुपस्थैः कृतः, सन्मार्गस्खलनाद् भवन्ति विपदः प्रायः प्रभूणामपि । ← (लो.त.नि. १/३१) इत्युक्तिरपि पूर्वोक्ता (पृ.२९७) कर्मणः फलोत्पादे प्रयत्ननान्तरीयकत्वमेवाह । एतेन जं जारिसं पुव्वमकासि कम्मं तमेव आगच्छति संपराए ← (सू.कृ. १/५/२/२३) इति सूत्रकृताङ्गसूत्रोक्तिरपि व्याख्याता द्रष्टव्या । प्रकृते यदि भाग्यं फलहेतुर्ननु विफलो हेतुनाऽप्यनुपदेशः । न्याय्या पाचयति नृणामीहा पुण्यं हि सापेक्षम् ।। ← ( तत्त्वार्थभाष्यवृत्तौ उद्धृता ९/ १९ / पृष्ठ - २४३) इति कारिकाऽपि स्मर्तव्या । पूर्वजन्मकृतपुरुषार्थवद् इहभवकृतपुरुषार्थस्याऽपि सफलत्वमेव स्वविषये, पुरुषकारत्वाऽविशेषात् । एतेन
११७२
पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते । एतदेव हि विज्ञेयं तत्काकमतमुच्यते ।। नास्ति काकमतादन्यदभ्यासाख्यमतः परम् । तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् ।। ← ( यो. शिखो. १/१४३-१४४) इति योगशिखोपनिषदि दर्शितः काकमतैकान्तः परास्तः, पूर्वजन्मकृतात् केवलादेव कर्मणः फलोत्पादे कुज्जा पुरिसकारियं ← (द.वै. ५ / २ / ६) इति दशवैकालिकवचनमप्यनतिप्रयोजनमेव स्यात् । प्रकृते पुरुषकारप्राधान्यपरे
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते । वीराः सम्भाविताऽऽत्मानो न दैवं पर्युपासते ।। दैवं पुरुषकारेण यः समर्थः प्रबाधितुम् । न दैवेन विपन्नाऽर्थः पुरुषः सोऽवसीदति ।। ← ( वा. रा. २३/१-२ ) इति वाल्मीकिरामायणकारिके अपि स्मर्तव्ये । → फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित् ← ( अध्या. ४९ ) इति तन्त्रान्तरीयस्य अध्यात्मोपनिषद्ग्रन्थस्य वचनमपि न विस्मर्तव्यम् । यथोक्तं याज्ञवल्क्यस्मृतौ अपि यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ।। ← ( या. स्मृ. आचारा. १६ / ३५१ ) इति । एवमिहलौकिकपुरुषकारोऽपि दैवं विना नैव धनप्राप्तिप्रभृतिकं कार्यमर्जयति । इत्थञ्च तयोः मिथः सापेक्षता । तदुक्तं महाभारते अपि कृतः पुरुषकारस्तु दैवमेवानुवर्तते । न दैवमकृते किञ्चित् कस्यचिद् दातुमर्हति ।। ← ( म. भा. अनुशा. ६ / २२ ) इति । यस्तु तयोरबलः स शाम्यति । तदुक्तं योगवाशिष्ठे अपि द्वौ हुडाविव युध्येते पुरुषार्थी समाSसमौ । प्राक्तनश्चैहिकश्चैव शाम्यत्यत्राऽल्पवीर्यवान् ।। ← ( यो. वा. मुमुक्षुप्रकरण-५/७ ) इति । अतो दर्शितरीत्या अन्वय-व्यतिरेकाऽविशेषात् उभयत्राऽन्वयव्यतिरेकयोस्तुल्यत्वात् पौर्वदेहिकस्य प्रधान-प्रकृत्याद्यपराऽभिधानस्य कर्मण इव ऐहिकस्यापि पुरुषकार-यत्नाद्यपराऽभिधानस्य वाणिज्य - राजसेवादिरूपस्य कर्मणः कार्यहेतुत्वं धनप्राप्त्यादिफलकारणत्वं अनपलपनीयमेव इति हेतोः द्वयोः दैव-पुरुषकारयोः अन्योन्यापेक्षत्वमेव सिध्यति । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः च तस्यापि पूर्वकर्मणः पुरषकारस्य विषयो न विषयः क्वचित्, अप्राप्तप्राप्तविपरिणामाऽवस्थत्वात्
परिणमनमपि
=
=
આથી અન્વય-વ્યતિરેકની બન્નેમાં તુલ્યતા હોવાના લીધે પૂર્વભવમાં ઉપાર્જિત કરેલા કર્મની જેમ આ ભવનો પણ પુરુષાર્થ કાર્યજનક છે. માટે કર્મ = ભાગ્ય અને ક્રિયા = પુરુષાર્થ એકબીજાના સાપેક્ષ જ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org