________________
• ऐहिकयत्नं विना कर्मणः कार्याऽजनकता •
११७१
भवान्तरीयं तत्कार्यं कुरुते नैहिकं विना । द्वारत्वेन च गौणत्वमुभयत्र न दुर्वचम् ।।१३।। भवान्तरीयमिति । भवान्तरीयं पूर्वभवाऽर्जितं तत् = कर्म कार्यं धनप्राप्त्यादिकं ऐहिकं वाणिज्य - राजसेवादि कर्म विना न कुरुते ।
--
तदुक्तं श्रीहरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां
=
पुव्विं 'जमुवत्तं खलु कम्मं तं सगडमो जिणा बिंति । तं च विचित्तं आयासभोगफलभेदओ नेयं ।। ← ( धर्म. सं. ६०० ) इति । तदुक्तं सुभाषितरत्नसन्दोहे अमितगतिना अपि यत् सौख्य- दुःखजनकं प्राणभृता सञ्चितं पुरा कर्म । स्मरति पुनरिदानीं तद् दैवं मुनिभिराख्यातम् ।। (सु.रत्नसं . ३४५) इति । सम्मतञ्चेदं परेषामपि । तदुक्तं योगवाशिष्ठे → प्राक्तनं पौरुषं तद् वै दैवशब्देन कथ्यते ← (यो. वा. मुमुक्षुप्रकरण-६ / ३५) इति ।।१७ / १२ ।। ततः किम् ? इत्याह- 'भवान्तरीयमिति । पूर्वभवाऽर्जितं कर्म दैवं धनप्राप्त्यादिकं कार्यं ऐहिकं वाणिज्य - राजसेवादि कर्म पुरुषकारं विना न = नैव कुरुते, असहायत्वात् । एतेन कर्मणः फलदानसमर्थत्वे पुरुषकारस्य वैयर्थ्यं प्रसज्येतेति शङ्का निरस्ता, तादृशस्यापि कर्मणः पुरुषप्रयत्नेन विपच्यमानत्वादिति (त.सू. ९/१९ वृ. पृष्ठ- २४४) व्यक्तमुक्तं सिद्धसेनगणिभिः तत्त्वार्थवृत्तौ । इदमेवाऽभिप्रेत्य गोम्मटसारे आलसड्ढो णिरुच्छाहो फलं किंचि ण भुंजदे । थणक्खीरादिपाणं वा पऊरुसेण विणा ण हि ।। ← (गो. सा. कर्मकाण्ड - ८९० ) इत्युक्तम् । ण हु वीरियपरिहीणों पवत्तते णाणमादिसु ← (नि.भा.४८) इति निशीथभाष्योक्तिरपि पुरुषकाराऽपेक्षामाविष्करोति । इष्यते च कर्मोदयोऽपि द्रव्यादिसहकारिकारणतः। तदुक्तं पञ्चसग्रहे श्रीचन्द्रमहत्तराचार्येण दव्वं खेत्तं कालो भवो य भावा वो पंच | उसमासेणुदओ जायइ सव्वाण पयडीणं ।। ← (पं.सं. ३ / १५५) इति । फलदाने कर्मणः सर्वथा पुरुषकारानपेक्षायां दव्वं खित्तं कालं भावं च भवं तहा समासज्ज । तस्स समासुद्दिट्ठो उदओ कम्मस्स पंचविहो।। ← ( ) इत्यपि नैव सङ्गच्छेत । एतेन आस्ते भग आसीनस्य ऊर्ध्वस्तिष्ठति तिष्ठतः । शेते निपद्यमानस्य चराति चरतो भगः ।। ← (ऐ.ब्रा.३३/३ ) ऐतरेयब्राह्मणवचनमपि व्याख्यातम् । युक्तञ्चैतत्, यतो बाह्यवस्त्वपेक्षो हि कर्मोदयो भवतीति सिद्धान्तः । तदुक्तं निशीथभाष्ये कामं कम्मणिमित्तं उदयो, णत्थि उदओ उ तव्वज्जो । तहवि य बाहिरवत्युं होति निमित्तं ।। (नि.भा.५२५) इति । तदुक्तं कामसूत्रेऽपि वात्स्यायनेन अवश्यम्भाविनोऽप्यर्थस्योपायपूर्वकत्वादेव न निष्कर्मणो भद्रकमस्तीति वात्स्यायनः ← (का. सू. १ / २ / ३९) इति । लोकतत्त्वनिर्णये च ब्रह्मा હોય છે. જૈન દર્શન મુજબ પૂર્વભવની ક્રિયાઓ કાર્મણવર્ગણાદ્રવ્યને ગ્રહણ કરવા સ્વરૂપ સંબંધ દ્વારા આ ભવમાં વિદ્યમાન હોય છે. અર્થાત્ ક્રિયા દ્વારા કાર્યણવર્ગણા ગ્રહણ કરવામાં આવે છે અને તે ગ્રહણ કરાયેલ કાર્યણવર્ગણા જ કર્મ કહેવાય છે. આ જૈનદર્શનની માન્યતા છે. (૧૭/૧૨) * પુરુષાર્થ વિના ભાગ્ય ફળે નહિ
ગાથાર્થ :- પૂર્વભવનું કર્મ આ લોકના પ્રયત્ન વિના કાર્ય કરી શકતું નથી. દ્વારરૂપે કર્મમાં ગૌણતા કહેવામાં આવે તો તે પુરુષાર્થમાં પણ બતાવવી મુશ્કેલ નથી. (૧૭/૧૩)
ટીકાર્થ :- પૂર્વ ભવમાં ઉપાર્જિત કરેલું કર્મ આ લોકમાં ધંધો, રાજાની સેવા-ચાકરી વગેરે ક્રિયા પુરુષાર્થ વિના ધનપ્રાપ્તિ વગેરે ફળને ઉત્પન્ન કરતું નથી.
=
१. 'यदुपात्तम्' इत्यर्थः । २. 'स्वकृतमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org