SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ • दैवोद्यमव्याख्यानम् • “दैवमात्मकृतं विद्यात् कर्म यत्पौर्वदेहिकम् । स्मृतः पुरुषकारस्तु क्रियते यदिहाऽपरम्।। 'नैतदात्मक्रियाऽभावे यतः स्वफलसाधकम् । अतः पूर्वोक्तमेवेह लक्षणं तात्त्विकं तयोः ।। " (यो . बिं. ३२५-२६) इति । द्वारत्वेन व्यापारत्वेन च गौणत्वं उच्यमानं उभयत्र = यत्ने कर्मणि च न दुर्वचम् ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयकर्मणोऽपि प्राग्भवी ययत्नव्यापारत्वाऽविशेषादिति भावः ।। १३ ।। = पुष्पतुग्दृढफलवत् । एवञ्च क्रियासहायश्च स फलं प्रयच्छति, क्रियासहायस्य फलप्रदाने सापेक्षानपेक्षशक्तित्वात् भारोत्पाटवत् ← ( द्वा. न. अर- ४ / पृ. ४८६ ) इति । = तदुक्तं योगबिन्दौ- 'दैवमिति 'नैतदिति च । तद्व्याख्या चैवम् दैवं आत्मकृतं मिथ्यात्वादिभिर्हेतुभिर्जीवेन विहितं विद्यात् = जानीयात् 'किम् ?' इत्याह कर्म यत् पौर्वदेहिकं = पूर्वदेहभवम् । स्मृतः अनुध्यातः पुरुषकारस्तु = पुरुषकारः पुनः क्रियते व्यवहारिभिः यदिह अपरं तथाविधे कर्मणि सत्यपि वाणिज्यराजसेवादि ( यो . बिं. ३२५ वृत्ति) । न = नैव इदं (? एतद्) कर्म आत्मक्रियाऽभावे जीवव्यापारविरहे यतः निजफलकारि = यस्मात् स्वफलसाधकं क्वचिदुपलभ्यते । अतः = अस्माद् हेतोः पूर्वोक्तमेव यत् परस्परोपष्टम्भवत् प्रागुपन्यस्तं इह प्रक्रमे लक्षणं स्वरूपं तात्त्विकं सद्भूतं तयोः दैव-पुरुषकारयोः ← (यो . बिं. ३२६ वृत्ति) । ननु चक्रवर्त्यादेरैहिकपुरुषकारस्य पारलौकिकदैवव्यापारत्वात्फलस्य चक्रवर्तिप्रभृतिपदस्य दैवकार्यतैवोच्यमाना सङ्गतिमङ्गति, इहलौकिकपुरुषकारस्य दैवव्यापारत्वात्तत्र गौणत्वमेवेति चेत् ? मैवम्, एवं दैवजन्यत्वे सति दैवजन्यजनकत्वाद् व्यापारत्वेन पूर्वभवीयदैवव्यापारत्वेन च = पुनः इहलौकिक = पुरुषकारे गौणत्वं = उपसर्जनत्वं साङ्ख्यैः उच्यमानं यत्ने इव कर्मणि न = नैव दुर्वचम् | ऐहिकयत्नस्य कर्मव्यापारत्ववत् प्राग्भवीयदैव-प्रकृत्याद्यपराऽभिधानकर्मद्वारत्ववत् प्राग्भवीयकर्मणोऽपि = इहभवीय = यत्नद्वारकपूर्वभवीयदैवलक्षणकर्मणोऽपि प्राग्भवीययत्नव्यापारत्वाऽविशेषात् तत्कर्मपूर्वभवीयपुरुषकारद्वारत्वतुल्यत्वात् । यथा दैवं प्राग्भवीयमिहलौकिकपुरुषकारद्वारा स्वफलमुपदधाति तथा पूर्वभवीय યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે → ‘પૂર્વભવમાં પોતે કરેલ ક્રિયાને ભાગ્ય જાણવું. તથા આ લોકમાં જે કરવામાં આવે છે તેને પુરુષાર્થ જાણવો. જીવ પુરુષાર્થ = व्यापार ક્રિયા ન કરે તો ભાગ્ય પોતાનું ફળ આપવા સમર્થ બનતું નથી. માટે પૂર્વે જણાવેલ પરસ્પરસહાયતારૂપ લક્ષણ જ તે जन्नेनुं तात्त्वि स्व३५ छे.' ← = = = = = = = ११७३ = = ભાગ્યને મુખ્ય કારણ ગણાવી પુરુષાર્થને ભાગ્યદ્વાર ગણાવીને જો ગૌણ કહેતા હો તો તેવું વ્યાપારત્વ – દ્વારત્વસ્વરૂપ ગૌણત્વ તો પુરુષાર્થની જેમ ભાગ્યમાં પણ બતાવવું મુશ્કેલ નથી. કારણ કે આ લોકમાં થતો પુરુષાર્થ જેમ પરલોકના નસીબનું દ્વાર = વ્યાપાર છે તેમ પૂર્વ ભવનું નસીબ પણ તેના પૂર્વભવના पुरुषार्थनुं द्वार छे. खा वात तो तुल्य ४ छे. (१७/१3) १. योगबिन्दुप्रतौ अत्र 'नेदमात्म.' इति पाठो लभ्यत इत्यवधेयम् । २. 'साधनमिति मुद्रितप्रतौ हस्तादर्शे च पाठः । किन्तु योगबिन्दौ तद्वृत्तौ च ' साधकमिति पाठः । अतोऽस्माभिः स पाठो गृहीतः । ३. हस्तादर्शे 'व्यापारत्वेन' इति पदं नास्ति । ४. हस्तादर्शे 'वीन' इत्यशुद्धः त्रुटितः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy