________________
• दैवप्राधान्यसमर्थनम् •
११६१ सर्वाऽपि सामग्री श्रान्तेव परितिष्ठति। विपाकः कर्मणः कार्यपर्यन्तमनुधावति। - (ज्ञा.सा. २१/६) इति ज्ञानसारवचनं, → यत् कर्म पुरा विहितं यातं जीवस्य पाकमिह किञ्चित् । न तदन्यथा विधातुं कथमपि शक्रोऽपि शक्नोति ।। - (सु.रत्न.३४७) इति सुभाषितरत्नसन्दोहवचनञ्च ।
उत्कटपुरुषकारकृतत्वज्ञानं अनुत्कटदैवकृतत्वज्ञानं वा 'इदं पुरुषकारकृतमिति व्यपदेशनियामकम् । यथा → उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः।। ( (पं.तं.२/६/१३९) इति पञ्चतन्त्रवचनम्, → जह जह न समप्पइ विहिरसेण विहडंतकज्जपरिणामो। तह तह धीराण मणे वड्ढइ विउणो समुच्छाहो।। - (व.ल.१०/७) इति वज्रालग्नवचनञ्चेति भावः ।
अत एव → हित्वा हि सम्मा वायाम, विसेसं नाम मानवो । अधिगच्छे परित्तम्पि ठानमेत्तं न विज्जति ।। 6 (वि.मा.४/६६) इति विसुद्धिमग्गवचनमपि पुरुषकारप्राधान्यपरतया व्याख्येयम् । 'परित्तम्पि = अल्पमपि' । एतेन → सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः - (म.भा.वनपर्व३२/७) इति महाभारतवचनमपि पुरुषकारप्राधान्याऽर्थकतया व्याख्यातमवसेयम् । → अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे न जीवति ।। 6 (वै.श.९२) इति वैराग्यशतके भर्तृहरिवचनं तु दैवप्राधान्यपरमवसेयम् । एतेन → दुर्लच्या भवितव्यता - (ह.पु.६२/४४) इति हरिवंशपुराणोक्तिरपि व्याख्याता, वक्ष्यमाणरीत्या (द्वा.द्वा.१७/१९ पृ.११८८) भवितव्यताया दैवेऽन्तर्भावात् । बृहत्पराशरस्मृतौ दैवप्राधान्य-दर्शनायैव →
अत्युद्यमी क्रियत एव च यः श्रमी च शौर्यान्वितश्च गुणवांश्च सुधीश्च विद्वान् । प्राप्नोति नैव विधिना स पराङ्मुखेन स्वीयोदरस्य परिपूरणमन्नमात्रम् ।।
शुभ्राणि हाणि वराऽङ्गनाश्च नानाप्रकारो विभवो नरस्य । उर्वीपतित्वं नृपकारता च सर्वं हि मञ्जु क्षयमेति दैवात् ।। केषां हि पुंसां महतो हि दैवात् स्थानस्थितानामऽपि चाऽर्थसिद्धिः । केषां प्रभुत्वं बहु जीवितं च एको हि देवो बलवानतोऽत्र ।। पुंस्त्रीप्रयोगादथ शुक्र-शोणितात् को देहमध्ये विदधाति गर्ने । स्त्रीणां तु तद्विप्र ! न चापि पुंसां सर्वाणि चैषां ननु दैवचेष्टा ।। कासां तु गर्भस्य न सम्भवोऽस्ति केषां च शुक्रं ननु वीर्यहीनम् । दधाति गर्भ ननु कापि दैवात् काचित् तु गर्भ न दधाति दैवात् । । दैवात् मघोनोऽपि सहस्रमक्ष्णां देवाद्धिमांशोः क्षयरोगिताऽभूत् ।
दैवात् पयोधेर्लवणोदकत्वं दैवाद् भवेच्चित्रतरा च वृष्टिः ।। 6 (१२/७०-७४,७६) इत्येवमुक्तमित्यवधेयम् । → वने रणे जलाऽग्निमध्ये महार्णवे पर्वतमस्तके वा। सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ।। (भक्तामरवृत्तिसमुद्धृतः ६/पृ.२६) इत्यपि दैवप्राधान्यपरमवसेयम् । एतेन → न कश्चित् कस्यचित् शक्तः कर्तुं दुःखं सुखानि च । करोति प्राक्तनं कर्म मोहाल्लोकस्य केवलम् ।। (शिवो.७/१११) इति शिवोपनिषद्वचनं, → कांश्चित् तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नति, कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्षसन्ततिमिमां लोकस्थितिं बोधयन्नेष क्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ।। 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org