SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ • दैव-पुरुषकारयोः सर्वत्र कारणता • ११५५ अन्वय-व्यतिरेकाभ्यां व्यवहारस्तु मन्यते । द्वयोः सर्वत्र हेतुत्वं गौण-मुख्यत्वशालिनोः ।।५।। अन्वयेति । व्यवहारस्तु = व्यवहारनयस्तु अन्वय-व्यतिरेकाभ्यां द्वयोः = दैवपुरुषकारयोः सर्वत्र कार्ये हेतुत्वं मन्यते गौण-मुख्यत्वशालिनोः । क्वचित्कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्यतया। सामान्यतस्तु दैवं पुरुषकारं वा विना' न किञ्चित्कार्यं जायते इति सामान्यतः _ निश्चयनयमतमुक्त्वाऽधुना व्यवहारनयमतमाविष्करोति- ‘अन्वयेति । तत्सत्त्वे तत्सत्त्वं = अन्वयः, तदसत्वे तदसत्त्वं = व्यतिरेकः, ताभ्यां = अन्वय-व्यतिरेकाभ्यां गौण-मुख्यत्वशालिनोः दैव-पुरुषकारयोः द्वयोः एव सर्वत्र कार्ये = कार्यत्वावच्छिन्ने हेतुत्वं, विनिगमकाऽभावात् । यथोक्तं उपदेशरहस्ये → ववहारो पुण एत्थ गुणपहाणत्तणेण पविभत्तो । 'कज्जमिणं दइवकयं एयं पुण पुरिसजणियं ति।। 6 (उप.रह.५२) इति । क्वचित् कार्ये हि किञ्चिद् गौणतयोपयुज्यते, किञ्चिच्च मुख्यतया इति । उदयवीरगणिभिः पार्श्वनाथचरित्रे दैवप्राधान्यबोधनायैव → रक्ष्यते नैव भूपालैन देवैर्न च दानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ।। रक्ष्यते तपसा नैव न देवैर्न च मानवैः । नीयते वटशाखायां कर्मणाऽसौ महाबलः ।। प्रतिकुले विधौ किं वा सुधापि हि विषायते । रज्जुः सीभवेदाशु बिलं पातालतां भजेत् ।। तमायते प्रकाशोऽपि गोष्पदं सागरायते । सत्यं कुटायते मित्रं शत्रुत्वेन प्रवर्तते ।। जीवितं सन्ततिर्द्रव्यं दैवाऽऽयत्तमिदं त्रयम् । अनया चिन्तया किं स्यात् किं परायत्तवस्तुनि ।। अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति।। - (पार्थ.च./सर्ग.२,३/पृ.४५,४८,७५) इत्याधुक्तमित्यवधेयम् । सामान्यतस्तु दैवं पुरुषकारं वा विना न किञ्चित् कार्य जायते । यथोक्तं योगबिन्दौ → न भवस्थस्य यत्कर्म विना व्यापारसम्भवः । न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि हि ।। 6 (यो.बि.३२९) इति हेतोः सामान्यतः सर्वत्र हेतुत्वं अनयोः = दैव-पुरुषकारयोः । अन्यथाऽन्यस्याऽकिञ्चित्करत्वेनासत्त्वापत्तेः। तदुक्तं उपदेशपदे → एत्तो उ दोवि तुल्ला विण्णेया दिव्वपुरिसकारत्ति । . વ્યવહારનયથી કરણતા વિચાર છે ગાથાર્થ - વ્યવહારનય તો અન્વય-વ્યતિરેક દ્વારા સર્વત્ર ભાગ્ય અને પુરુષાર્થને કારણ માને छ , तमा गौरा-भुज्यमा होश: छे. (१७/५) ટીકાર્ય - વ્યવહારનય તો અન્વય અને વ્યતિરેક દ્વારા સર્વ કાર્ય પ્રત્યે ભાગ્ય અને પુરુષાર્થને હેતુ માને છે. હા, તેમાં ગૌણ-મુખ્યભાવ હોય તે વાત અલગ છે. કોઈક કાર્ય પ્રત્યે કોઈક ગૌણરૂપે ઉપયોગી હોય છે તો તે સિવાયનું કોઈક મુખ્યરૂપે ઉપયોગી હોય છે. પરંતુ સામાન્યથી ભાગ્ય વિના કે પુરુષાર્થ વિના કોઈ પણ કાર્ય ઉત્પન્ન થતું નથી. માટે સામાન્યથી સર્વ કાર્ય પ્રત્યે તે બન્ને કારણ છે. १. हस्तादर्श 'विना' पदं नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy