________________
११५६
द्वात्रिंशिका - १७/५
सर्वत्र हेतुत्वमनयोः ।
,
यस्तु कुर्वद्रूपत्वेन कारणत्वमिच्छन् सामान्यतः कारणतामेवाऽपलपति', तस्य घटाद्यर्थमरण्यस्थदण्डादौ प्रवृत्तिर्दुर्घटा, तस्या घटसाधनताज्ञानाऽधीनत्वात् तस्य च घटोपधानात्प्रागसिद्धेः । 'सादृश्यग्रहात्प्रागपि तत्र घटसाधनत्वधीः । अत एव न कार्यलिङ्गकोच्छेदः, अतज्जातीयाइहरा उ णिप्फलत्तं पावइ णियमेण इक्कस्स ।। ← ( उप. प. ३४१ ) इति । सम्मतञ्चेदं परेषामपि । यथोक्तं बृहत्पराशरस्मृतौ अपि
नैकेन चक्रेण रथः प्रयाति न चैकपक्षो दिवि याति पक्षी । एवं हि दैवेन न केवलेन पुंसोऽर्थसिद्धिर्नरकारतो वा 11 दैवेन केचित् प्रसभेन केचित् केचिद् नृकारेण नरस्य चार्थाः सिध्यन्ति यत्नेन विधीयमानास्तेषां प्रधानं नरकारमाहुः ।। ← (बृ.परा. १२ / ६८-७८) इत्यादि । स्वमतमाविष्कृत्याऽधुना व्यवहारनयो निश्चयनयं प्रति प्रत्यवतिष्ठते यस्तु निश्चयनयाऽनुसारी कुर्वद्रूपत्वेन रूपेण कारणत्वं = हेतुत्वं इच्छन् सामान्यतः = कार्योपधानाऽनुपधानाऽनुगतसाधारणरूपमाश्रित्य कारणतामेव अपलपति = निराकरोति तस्य निश्चयनयानुसारिणः घटाद्यर्थं = घटाद्युत्पादकृते अरण्यस्थदण्डादौ घटकुर्वद्रूपशून्यतया तद्ग्रहणात्मिका प्रवृत्ति: दुर्घटा = दुरुपपन्ना स्यात्, तस्याः = अरण्यस्थदण्डोपादानात्मिकायाः प्रवृत्तेः घटसाधनताज्ञानाऽधीनत्वात् घटादिकारणताज्ञानवशत्वात् तस्य च घटादिकारणताज्ञानस्य घटोपधानात् घटादिसमुत्पादात् प्राक् अप्रसिद्धेः । पूर्वं असिद्धेः एतदनुपपत्तिभियाऽकामेनाऽपि कुर्वद्रूपत्वेन कारणता नाऽङ्गीकर्तव्येति व्यवहारनयाऽभिप्रायः । घटार्थिनामरण्यस्थदण्डादौ प्रवृत्तेर्दर्शनात् तत्र विसंवादाऽनुपलब्धेश्च कुर्वद्रूपशून्यस्याप्यरण्यस्थदण्डादेः स्वरूपयोग्यतया घटकारणताऽङ्गीकर्तव्यैवेत्याशयो व्यवहारनयवादिनाम् ।
=
•
=
कुर्वद्रूपत्वेन कारणतानिरसनम्
=
=
ननु सादृश्यग्रहात् = घटोपधायकदण्डादिसाजात्योपलम्भात् प्रागपि घटोत्पादप्राक्कालेऽपि तत्र अरण्यस्थदण्डादौ घटसाधनत्वधीः = घटकारणताग्रहः सम्भवति । अत एव = साजात्यग्रहस्य प्रवृत्त्युपपादकत्वादेव न कार्यलिङ्गकोच्छेदः नैव कार्यलिङ्गकाऽनुमित्यनुपपत्तिः, अतज्जातीयात्
=
=
=
=
* નિશ્ચયનયની માન્યતાનું નિરાકરણ આ
यस्तु. । ठ्ठे निश्चयनयवाही दुर्वद्रूपथी अरताने ईच्छतो सामान्य धर्म३ये अरातानो ४ अपलाय કરે છે તેને ઘટોત્પત્તિ માટે જંગલમાં રહેલા દંડને ઉદ્દેશીને પ્રવૃત્તિ જ દુર્ઘટ થઇ જશે. કારણ કે દંડમાં ઘટાર્થીની પ્રવૃત્તિ ઘટકારણતાજ્ઞાનને આધીન છે. તથા દંડમાં ઘટસાધનતાનું જ્ઞાન તો ઘટોત્પત્તિ પૂર્વે અસિદ્ધ જ છે. નિશ્ચયનયવાદી :- જંગલમાં રહેલા ઉદાસીન દંડમાં યદ્યપિ ઘટકુર્વદ્રૂપ નથી. તેમ છતાં ઘટાર્થી તેને લેવા માટે પ્રવૃત્તિ કરી શકશે. કારણ કે ઘટોત્પાદ પૂર્વે તે ઉદાસીન દંડમાં ઘટકુર્વવ્રૂપવિશિષ્ટ દંડનું સાદશ્ય રહેલ છે. માટે જ કાર્યલિંગક અનુમાનનો ઉચ્છેદ થવાની સમસ્યા પણ અમારા પક્ષમાં નહિ આવે. કારણ કે અતજાતીય પદાર્થ થકી તાતીય કાર્યની ઉત્પત્તિ સંભવિત નથી. તંતુમાંથી ઘડો ઉત્પન્ન ન થાય. १. प्राचीनमुद्रितप्रतौ मेवालपति' इत्यशुद्धः पाठः । २. प्राचीनमुद्रितप्रतौ '... ज्ञाधीनत्वात्' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org