________________
११४६
• नयविशेषेण भगवतो जगत्कारणत्वसमर्थनम् •
द्वात्रिंशिका-१६/३२
अनुष्ठानं ततः स्वामिगुणरागपुरःसरम् । परमानन्दतः कार्यं मन्यमानैरनुग्रहम् ।।३२।।
आर्षमित्यारभ्य स्पष्टम् ।।२७ - ३२ ।।
उपसंहरति- 'अनुष्ठानमिति । ततः लब्धधर्माऽननुपालनेऽनागततत्प्रार्थनस्य निष्फलप्रायत्वात् स्वा-मिगुणरागपुरःसरं = जिनगुणगोचरान्तःकरणप्रणिधानलक्षणाऽनुरागपुरस्कारेण जिनेश्वराणां अनुग्रहं उप-कारं मन्यमानैः मुमुक्षुभिः परमानन्दतः अनिर्वचनीयनिरतिशयोत्साहतो जिनेश्वरोपदिष्टं अनुष्ठानं ज्ञान-दर्शनचारित्राऽऽचारपालनं कार्यम् । तात्त्विकस्वामिगुणगोचरप्रशस्तरागपूर्वकतयाऽऽसक्तिविच्छेदः ततः सञ्जायते । तदुक्तं महावीरगीतायां निरासक्तिर्भवेन्नृणां पूर्णमद्रागयोगतः । आसक्तिः कर्मबन्धाय निरासक्तिर्विमुक्तये ।। ← (म.गी. २/१७० ) इति । इत्थमेव पूर्वसञ्चितकर्मक्षयद्वारा बोधिलाभसमाधिमरणादिप्राप्तिः । तदुक्तं आवश्यकनिर्युक्तौ
भत्तीइ जिणवराणं खिज्जंती पुव्वसंचिआ कम्मा । आयरियनमुक्कारेण विज्जा मंता य सिज्झति ।। भत्तीइ जिणवराणं परमाए खीणपिज्ज- दोसाणं आरुग्ग-बोहिलाभं समाहिमरणं च पावंति ।।
← (आ.नि.१०९७-९८ ) इति ।
वस्तुतो जिनेश्वरभक्तिसहितस्यैवानुष्ठानस्याभिलषिताऽर्थप्रसाधकत्वमित्यत्र ग्रन्थकृदाशयः । एतेन → ये हि भगवदाज्ञानुकूलवर्तिनो भवन्ति त एव भगवता परमात्मना रक्ष्या भवन्ति । ← (सा.सं.भा. १/ ६/१/१/३/२१,पृ.४०) इति सायणसंहिताभाष्यवचनमपि व्याख्यातम्, भगवद्भक्तिपुरस्सरं भगवदाज्ञापालनतः तथाविधपुण्यबन्धोदयादिना स्वात्मनः त्राणोपपत्तेः । एतेन
=
-
=
तित्थंकरभत्तीए सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धा य एत्थ सया होइ जइयव्वं ।। एवमसंतो वि इमो जायइ जाओ य ण पडइ कया वि । ता एत्थं बुद्धिमया अपमाओ होइ कायव्वो । । ← ( पञ्चा. १।३७-३८) इति पञ्चाशकगाथे अपि व्याख्याते द्रष्टव्ये । प्रकृतार्थे च एकरूपोऽप्यनेकोऽसावचिन्त्यगुणभाजनम् । अव्ययो निष्कलः शुद्धः परमात्मा सनातनः ।। स बुद्ध:, स महादेवः, स विष्णुः स पितामहः । स वीतरागो भगवान् कथितस्तत्त्वदर्शिभिः ।। निरिच्छो न करोत्येष त्वत्कार्यव्यूहमिच्छया । किन्त्वाज्ञा विद्यते तस्य, लोकानां करणोचिता ।। कार्या निरन्धकारेयं, चित्तवृत्तिर्महाटवी । हन्तव्यं रिपुबुद्ध्या च महामोहाऽऽदिकं बलं ।। चारित्रधर्मराजाद्यं, पोष्यं बन्धुधिया बलम् । आज्ञेयमियती विश्व-हितकृत् पारमेश्वरी ।। ध्यानेन ब्रह्मविधिना, स्तवेन व्रतचर्यया । इयमाराध्यते शिष्टैर्दुष्टाचारैर्विराध्यते ।। तां च यो यावतीं धीमानाराधयति सर्वदा । अजानतोऽपि तद्रूपं तस्य तावद् भवेद् सुखम् ।। यो यावत् कुरुते मूढस्तदाज्ञाया विराधनम् । तावद् दुःखं भवेत् तस्य तद्रूपाऽवेदिनोऽपि हि ।। तदाज्ञालङ्घनाद् दुःखं, तदाज्ञाकरणात् सुखम् । ततः स निर्वृतिस्थोऽपि जगतां हेतुरुच्यते ।। प्रस्तुतमां जास नोंषपात्र छे. ( १६ / ३१ )
1
ગાથાર્થ :- માટે ભગવાનનો અનુગ્રહ માનતા સાધકોએ પ્રભુના ગુણોના રાગ પૂર્વક પરમાનંદથી साधना रवी भेजे. ( १६ / ३२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org