________________
११४४
• स्वशक्तिस्फोरणे भगवदनुग्रहसाफल्यम् •
द्वात्रिंशिका - १६/३१
जिनेभ्यो याचमानोऽन्यं लब्धं 'बोधिमपालयन् । तं विह्वलो विना भाग्यं केन मूल्येन' लप्स्यसे' ? ।। ३१ ।।
तत्तन्नयाभिप्रायेणोच्यते । एतेन प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ← ( महो.४ / १) इति महोपनिषद्वचनमपि व्याख्यातम्, भगवदुपदेशनिमित्तकप्रज्ञायां भगवदनुगृहीतत्वस्य न्याय्यत्वात् । इत्थमेव तीर्थकृतो महेश्वरत्वमपि सङ्गच्छते । प्रकृते अथ कस्मादुच्यते भगवान् महेश्वरः ? यस्माद् भक्तान् ज्ञानेन भजन्ति अनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्य आत्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः ← ( बटु. पृष्ठ - ४ ) इति बटुकोपनिषद्वचनमपि यथातन्त्रमनुयोज्यं स्वपरसमयसारवेदिभिः ।
स्वदोषोच्छेदोद्देशतो जिनोपदिष्टेन मोक्षमार्गेण निजशक्त्यगोपनेन प्रवर्तनं तु द्वितीय ईशानुग्रहः । अयमेव तत्पूजोच्यते तत्त्वतः । यथोक्तं अध्यात्मतत्त्वालोके प्रभोर्गुणानां स्मरणात् स्वचेतः शोधप्रवीणीभवनं हि पूजा । अपास्य दोषान् गुणचारु वृत्तं स्रष्टुं मतः कर्मविधिः समग्रः ।। ← ( अ. तत्त्वा. २/१५ ) इति । एतेन भगवान् नृसिंहः प्रसीदति तस्य कैवल्यं सिध्यति ← (नृ.ष. ६) इति नृसिंहषट्चक्रोपनिषद्वचनमपि व्याख्यातम्, अर्थक्रियाकारितया द्वितीयानुग्रहस्य तत्र विवक्षितत्वात् । द्वितीयं विना प्रथमस्य विफलत्वात् समुपलब्धे जिनोक्तापवर्गमार्गे यथाशक्ति स्वोचितभूमिकया यतितव्यमित्यत्रोपदेशः ।।१६ / ३० ।
ननु बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यति । किमनेन वर्तमानकालदुष्करेण तपः संयमाद्यनुष्ठानेन ? इत्येवंवादिनं अनुष्ठानप्रमादिनं सत्त्वमधिकृत्योपदेशिकं पद्यमाह - जिनेभ्य इति । जिनेभ्यः तीर्थकरेभ्यः अन्यं = अनागतं धर्मं याचमानः = प्रार्थयन् लब्धं च बोधि जिनेश्वरोपदिष्टधर्मं अपालयन् कर्मपराधीनतया सदनुष्ठानद्वारा सफलमकुर्वन्, विह्वलः भाग्यं विना = सदनुष्ठानोपार्जितपुण्यमृते केन मूल्येन तं अनागतं जिनेश्वरधर्मं लप्स्यसे ? यथोक्तं आवश्यकनिर्युक्तौ अपि
=
=
लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । दच्छिसि जह तं विब्भल ! इमं च अन्नं च चुक्किहिसि ।। लद्धिल्लियं च बोहिं अकरिंतोऽणागयं च पत्थंतो । अन्नं दाई बोहिं लब्भिसि कयरेण मुल्लेण ? ।।
← (आ.नि.१११२/१११३ ) इति ।
इयमत्र भावना - बोधिलाभे सति तपः संयमानुष्ठानपरस्य प्रेत्य वासनावशात् तत्तत्प्रवृत्तिरेव बोधि
=
=
વિશેષાર્થ :- જેમાં ભગવાને કાંઇક કરવાનું હોય તેવો અનુગ્રહ પણ ભગવાને કરેલ જ છે. તે કાર્ય છે રત્નત્રયમય મોક્ષમાર્ગની સાચી ઓળખાણ. ભગવાને કરેલા આ અનુગ્રહને સફળ કરવા માટે તેનો અમલ કરવા મંડી પડવું એ જ આપણું કર્તવ્ય છે. (૧૬/૩૦)
* નિષ્ક્રિયના ભાગ્યમાં કેવળ નિરાશા ક
ગાથાર્થ :- ભવિષ્યમાં મળે તેવા ધર્મની જિનેશ્વર ભગવંતોને પ્રાર્થના કરતો અને મળેલા ધર્મને નહિ આચરતા હે વિહ્વળ માણસ ! ભાગ્ય વિના તું કઇ કિંમતથી ભવિષ્યકાલીન ધર્મને મેળવશે ? (૧૬/૩૧)
१. मुद्रितप्रतौ सर्वत्र 'धर्मम...' इति पाठः । २. हस्तादर्शे 'मूल्यन' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'लप्स्यते' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org