________________
• नयमतभेदेन भगवतो दातृत्वविचारः •
११४३ यदातव्यं जिनैः सर्वैर्दत्तमेव तदेकदा । दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सताम् ।।३०।।
नन्वनुग्रहे मुख्यतयाऽनुग्राहकस्यैव कर्तृत्वं दृष्टम् । इह निरुक्तानुग्रहे त्वनुग्राह्यस्यैव तदिति कथमेतादृशानुग्रहस्वरूपं स्वीकर्तुं युज्यते ? इति मुग्धाशङ्कायामाह- यदिति । यद् दातव्यं तद् एकदा = युगपदेव दत्तमेव सर्वेः जिनैः ऋषभादिभिः । किं तद् दातव्यम् ? इत्याह- दर्शन-ज्ञान-चारित्रमयो मोक्षपथः सतां उपदेशरूपेणेति गम्यते । अयं प्रथम ईशानुग्रहः । तदुक्तं आवश्यकनिर्युक्तौ → जं तेहिं दायव्वं तं दिन्नं जिणवरेहिं सव्वेहिं । दसण-णाण-चरित्तस्स एस तिविहस्स उवएसो ।। 6 (आ.नि.१०९६) इति । तदुक्तं उत्तराध्ययनसूत्रे अपि → णाणं च दंसणं चेव चरित्तं च तवो तहा । एस मग्गुत्ति पन्नत्तो जिणेहिं वरदंसिहिं ।। (उत्तरा. २८/२) इति ।।
यथोक्तं सम्यक्त्वप्रकरणे अपि → सम्मत्त-नाण-चरणा मग्गो मुक्खस्स जिणवरुद्दिट्ठो - (स.प्र. १०७) इति । यथोक्तं मूलाचारे अपि → मग्गो मग्गफलं ति य दुविहं जिणसासणे समक्खादं 6 (मूला.२०२) इति । एतेनैतावता भगवतो मोक्षमार्गदेशकत्वमेव सिद्धं न तु तदनुग्रहान्मोक्षसिद्धि-रिति निरस्तम्, निरुपधि-निरवधि-भावकरुणया प्रसूतेन मोक्षमार्गदर्शकवचनेन नरकादिप्रस्थितानामपि तद्भवे मोक्षगामित्वसिद्ध्या 'भगवदनुग्रहान्मोक्ष' इत्यस्य व्यवहारस्य न्याय्यत्वात् । इदमेवाऽभिप्रेत्य सूत्रकृताङ्गनिर्युक्ती
→ अवि य हु भारियकम्भा नियमा उक्कस्सनिरयठितिगामी । तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति ।। (सू.कृ.नि. १६०) इत्युक्तमित्यवधेयम् ।
एतेन सायणसंहिताभाष्ये भगवदाचार्येण → यथा सूर्यः सर्वेषां पदार्थानामुपद्रष्टा अर्थादुपदर्शयिता चास्ति तद्वत् प्रकृतिविशिष्टः परमात्मापि सर्वेषां द्रष्टा मार्गदर्शयिता चास्ति । स च प्रार्थनावचोऽनुधावति । यदि कश्चिद् भावतो भगवन्तं भावयति स भगवानवश्यं तच्छ्रेयः सम्पादयति (सा. सं.भा.२/५/१/२/२/१६,पृ.७०) इत्युक्तं तदपि यथातन्त्रं व्याख्यातं द्रष्टव्य ।
यदपि सर्वदर्शनसङ्ग्रहे रामानुजदर्शननिरूपणाऽवसरे → एवमुपासनाकर्मसमुच्चितेन विज्ञानेन द्रष्टदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठितस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकाऽऽनन्दरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति - (सर्वद.रामानुज. पृ.१९५) इत्युक्तं तदपि करुणापदार्थश्चेद् यथार्थमोक्षमार्गदेशकत्वरूपः तदा समीचीनमित्यवधेयम् ।
यत्तु सायणसंहिताभाष्ये भगवदाचार्येण → विशुद्धानि कर्माणि कुर्वाणं जनं दृष्ट्वा प्रसीदति परमात्मा - (सा.सं.भा. २/६/१/२/२/२०,पृ.७८) इत्युक्तं तत्रापि प्रसादपदार्थः करुणारूपेणाऽवगन्तव्यः ।
अत एव भगवतः मोक्षमार्गानुसारिक्षयोपशमदायकत्वं, मोक्षमार्गानुसारिप्रज्ञादातृत्वं, मोक्षदायित्वं च સગવડવાદ છે. ભગવંતને માન્ય હોય તે પ્રકારે શાસ્ત્રાનુસારે શક્તિ છૂપાવ્યા વિના પ્રવૃત્તિ કરવી તે ४ तात्त्वि भगवड्मनु वाय. (१६/२८)
છે ભગવાન ઉપકર ક્રીને મોક્ષમાં ગયા છે ગાથાર્થ - જિનેશ્વર ભગવંતોએ જે કાંઈ આપવાનું હતું તે બધા જ જિનેશ્વર ભગવંતોએ સજ્જનોને એકી સાથે આપેલ જ છે અને તે આપવા લાયક ચીજ છે દર્શન-જ્ઞાન ચારિત્રમય મોક્ષમાર્ગ. (૧૬/૩૦) १. हस्तादर्श 'सदा' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org