SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ११२८ • सूक्ष्मबोधविरहेऽपि कर्मलाघवसम्भवः • द्वात्रिंशिका-१६/२० राध्यगते सत्यपि अभेदाद् = अविशेषात् च भावतः = परमार्थतः । __ गुणप्रकर्षविषयस्य बहुमानस्यैव फलदायकत्वात्तस्य सर्वत्र मुक्तादावविशेषादिति ॥२०॥ परमार्थतो गुणप्रकर्षविषयस्य = उद्देश्यतासम्बन्धेन मुक्तिगतस्य विषयतासम्बन्धेन गुणप्रकर्षनिष्ठस्य कर्तृत्वसम्बन्धेन स्वगतस्य बहुमानस्यैव यथाशक्ति भावसारं तदाज्ञापालनात्मकस्य फलदायकत्वात् सर्वस्मिन् क्लेशक्षयाऽऽत्मकमुक्तिलक्षणकार्यजनकत्वात्, तस्य = निरुक्तबहुमानस्य विषयतासम्बन्धेन सर्वत्र मुक्तादौ = मुक्त-बुद्धादौ अविशेषात् = साधारणत्वादिति भावः । प्रकृते → यच्छून्यवादिनां शून्यं, ब्रह्म ब्रह्मविदां च यत् । विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् ।। पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् । शिवः शैवाऽऽगमस्थानां कालः कालैकवादिनाम् ।। यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् । यत्सर्वं सर्वगं वस्तु यत् तत्त्वं तदसौ स्थितः ।। - (अन्न.३/१९-२१) इति अन्नपूर्णोपनिषत्कारिकाप्रबन्धोऽपि यथातन्त्रमनुयोज्यः तन्त्रविशारदैः । इत्थञ्च नानातन्त्रावस्थितानामपुनर्बन्धकादीनां यथावबोधं निर्दम्भं यथाशक्ति स्वतन्त्रगतसर्वज्ञवाक्यानुसरणे सहजमलोच्छेद-ग्रन्थिभेद-सम्यक्त्व-चारित्राऽपवर्गाद्युपलब्धिरप्यनाविलैवोपपद्येत । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां वैराग्यरतौ च → आस्तिकेषु च तीर्थेषु कर्मरोगस्य तानवम् । यद् दृश्यते यश्च सर्वमोक्षो वा श्रूयते क्वचित् ।। सोऽपि स्वशास्त्रबद्धानां सर्वज्ञवचसां गुणः । अपुनर्बन्धकस्य स्यात्, तद्रुच्या कर्मतानवम् ।। अनुष्ठानं हि तस्योक्तं, चित्रं दर्शनभेदतः । त्यक्तविप्रतिपन्नाशं, पर्यवस्यत् फलोदये ।। तस्य सर्वेकवाक्यत्वादहिंसाद्येव सम्मतम् । तत्त्वं निरञ्जनो देवो, गुरुर्ग्रन्थविवर्जितः ।। इत्थं सदोघसंज्ञानात्, सत्यार्थपदरोचके । सूक्ष्मबोधं विनाऽपि स्यात्, कर्मरोगस्य तानवम् ।। अतिशुद्धिवशाद् भावसम्यक्त्वादिक्रमेण तु । जायेत सर्वमोक्षोऽपि, जिनवाक्यानुसारिणाम् ।। - (वै.क.स्त. ९/९८८-९९३, वै.रति. ८/९८६-९१) इति निरूपितम् । 'जिनवाक्यानुसारिणां = सर्वज्ञवचनानुसारिणाम्' इत्यर्थः। परतीर्थिकैरपि ऋषभादयः तीर्थकृतः भगवत्तयाऽभ्युपगम्यन्त एव । __ तदुक्तं ब्रह्माण्डपुराणे → नाभिस्त्वजनयत्पुत्रं मरुदेव्यां महाद्युतिम् ।। ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् । ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः ।। (ब्र.पु.१/२/१४/५९-६०) इति । तदुक्तं भागवतपुराणे व्यासेन अपि → विष्णुदत्तः भगवान् परमर्षिभिः प्रसादितो नाभेः प्रियचिकीर्षया तदवरोधायने मरुदेव्यां धर्मान् दर्शयितुकामो वातरशनानां श्रमणानामृषीणांमूर्ध्वमन्थिनां शुक्लया तन्वाऽवततार । ...पिता 'ऋषभ' इतीदं नाम चकार - (भा.नाभिचरित्र ५/३/२०,४/२)। स्कन्दपुराणे अप्युक्तं → कैलासे पर्वते रम्ये वृषभोऽयं जिनेश्वरः। चकार स्वावतारं यः सर्वज्ञः सर्वगः शिवः ।। - (स्क.पु.कौमा.खं.अ. ફળ પ્રાપ્ત થાય છે. ઈશ્વરને નિત્ય માનીને કે અનિત્ય માનીને આરાધના કરવામાં આવે તો પણ કુલેશક્ષય સ્વરૂપ ફળમાં પરમાર્થથી કોઈ ભેદ પડતો નથી. કારણ કે ગુણોના પ્રકર્ષને વિશે કે પ્રકૃષ્ટ ગુણોને વિશે જે બહુમાન ભાવ છે તે જ ફળદાયક છે. તથા ઈશ્વરને મુક્ત માનો, બુદ્ધ માનો કે અરિહંત માનો, અનાદિશુદ્ધ માનો કે આદિ-અનંતકાળ શુદ્ધ માનો, સર્વવ્યાપી માનો કે અસર્વવ્યાપી માનો, નિત્ય માનો કે અનિત્ય માનો.. પરંતુ તમામ સ્થળે તેના પ્રકૃષ્ટ-ગુણવિષયક બહુમાન ભાવમાં કોઈ ફરક પડતો નથી.(૧૬/૨૦) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy