SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ • साङ्ख्य-बौद्धतर्काणां मिथोविरुद्धता • ११२७ विशेषस्येति । विशेषस्य मुक्ता दिदेवताविशेषगतस्य अपरिज्ञानाद् अग्दिर्शिप्रत्यक्षेण, तथा युक्तीनां = अनुमानरूपाणां जातिवादतः = असिद्ध्यादिहेतुदोषोपघातेनाऽनुमानाऽऽभासत्वात्, प्रायो = बाहुल्येन विरोधतश्चैव वेदान्तिबौद्धादियुक्तीनाम् । एकेषां हि नित्य एवाऽऽत्मा प्रपञ्चाऽधिष्ठानत्वात्, अपरेषां चाऽर्थक्रियाकारित्वस्य स्वभावभेदनियतत्वेनाऽनित्य एवेति । (फलाभेदाद=) "फलस्य = क्लेशक्षयलक्षणस्य गुणप्रकर्षविशेषवत्पुरुषाऽऽराधनसाध्यस्य क्वचिन्नित्याऽनित्यत्वादौ विशेषे आ अपरिज्ञानाद् = अपरिच्छेदात् । एकेषां = वेदान्तिनाम् । अपरेषां = बौद्धानाम् । साङ्ख्य-शैवबौद्धादीनां युक्तीनां विरुद्धत्वबोधनाय सोपयोगित्वाद् योगबिन्दुवृत्तिलेशः प्रदर्श्यते → तथाहि- साङ्ख्यः शैवश्च सर्वक्षणिकवादिनं सौगतं प्रत्याहतुः यथा 'भवदाराध्यो बुद्धोऽर्थक्रियां देशनादिकां स्वक्षणे, पूर्व पश्चाद्वा कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः कक्षीकरणीयः, समकालभाविनि व्यापाराऽभावात्, इतरथैकक्षणवर्तिनां समस्ताऽर्थक्षणानामितरेतरकार्यकारणभावः प्रसज्येत । न चैतद् दृष्टमिष्टं वा । अथ स्वक्षणात् पूर्वमेवार्थे प्रवर्तते । एतदपि न, स्वयमसतो भविष्यच्छङ्खचक्रवर्त्यादेरिव पूर्वकालविवर्तिनि कार्ये व्यापाराऽभावात् । अथ स्वक्षणादूर्ध्वं कार्यं विधत्त इति मन्येथाः। एतदप्यसाधीयः, विनष्टस्य कार्यकरणाऽक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् । एवञ्च क्षणिकादर्थाद् व्यावर्तमानाऽर्थक्रिया तीराऽदर्शिशकुनिन्यायेन नित्यानेव भावानाऽऽश्रयतया प्रतिपद्यत इति नित्यरूपः । अत एवानादिशुद्ध ईश्वरनामा आप्तविशेषोऽभ्युपगन्तुमुचित इति । बौद्धः पुनः प्राह-ईश्वरोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावो भवद्भिरभ्युपगम्यते । न च नित्यस्य कथञ्चिदप्यर्थक्रिया युज्यते । नित्यो ह्यर्थः क्रमेण यौगपद्येन वाऽर्थक्रियां कुर्वीत ? न तावत्क्रमण, सन्निहितसर्वशक्तेः सहकारिभिश्चानाधेयातिशयस्य युगपदेव त्रैकालिकसर्वकार्यकरणप्रसङ्गात् । नाऽपि योगपद्येन, यतस्तत्र युगपदेव सर्वकार्यकरणेन कृतस्य पुनःकरणाऽभावेन च द्वितीयक्षणेऽर्थक्रियाविरहलक्षणं बलादसत्त्वमाढौकमानं न केनाऽपि निरोद्धं पार्यत इति प्रतिक्षणं परिवर्तमानाऽपराऽपररूपः सर्वार्थक्रियाक्षमोऽभ्युपगन्तुं युक्तोऽसाविति + (यो.बि.३०४ वृ.) । इत्थञ्च सुन्दोपसुन्दन्यायेन बौद्ध-साङ्ख्यादयो मिथो हता द्रष्टव्याः । टार्थ :- (१) भुत, मरिहत, बुद्ध वगैरेमा विशेष प्रा२ना मेहभावनु पूशान थj वर्तमान કાળના જીવોને પ્રત્યક્ષ પ્રમાણથી શક્ય નથી. તથા (૨) અનુમાનસ્વરૂપ યુક્તિઓ પણ અનુમાન સ્વરૂપે બનવાના બદલે અનુમાનાભાસ સ્વરૂપ બની જાય છે. કારણ કે અસિદ્ધિ વગેરે હેતુદોષો દ્વારા તે હણાઈ જાય છે. (૩) તેમ જ વેદાન્ત, બૌદ્ધ આદિની યુક્તિઓ પરસ્પર પ્રાયઃ વિરુદ્ધ હોય છે. જેમ કે વેદાન્તીના મતે આત્મા નિત્ય જ છે. કારણ કે જગતપ્રપંચનું તે અધિષ્ઠાન છે. જ્યારે બૌદ્ધ વગેરે વિદ્વાનોના મત મુજબ આત્મા અનિત્ય જ છે. કારણ કે આત્મા અર્થક્રિયાકારી છે અને અર્થક્રિયાકારિત્વ સ્વભાવભેદની સાથે અવશ્ય સંકળાયેલ હોય છે. (૪) ગુણોના વિશિષ્ટ પ્રકર્ષવાળા પુરુષ ભગવાન કહેવાય છે. તેમની આરાધનાથી ક્લેશક્ષય સ્વરૂપ १. हस्तप्रतौ मुद्रितप्रतौ च सर्वत्र 'मुक्तादेर्दैव...' इत्यशुद्धः पाठः । योगबिन्दुवृत्त्यनुसारेणात्र शुद्धः पाठो गृहीतोऽस्माभिः । २. 'दर्शितप्र' इति मुद्रितप्रतौ पाठोऽशुद्धः । ३. '...भावभेदे नियत...' इति मुद्रितप्रतौ पाठः । ४. 'परस्य' इत्यशुद्धः पाठो हस्तादर्श । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy