________________
• एकस्येश्वरस्याऽनेकनामानि •
११२५ परकल्पितविशेषनिराकरणायाऽऽहअनादिशुद्ध इत्यादियों भेदो यस्य कल्प्यते । तत्तत्तन्त्राऽनुसारेण मन्ये सोऽपि निरर्थकः ।।१९।।
अनादीति । अनादिशुद्ध इति = एवंरूप आदिर्यस्य स तथा (=इत्यादिः) । तत्राऽनादिशुद्धः हरि सि तुमं कमलालय! करयलगय-संख-चक्क-सारंगो। दाणवरिसो त्ति जिणवर! तेण तुमं मनसे ‘विण्हू' ।। हरसि रयं जंतूणं बझं अभिंतरं, न खटुंगं । न य नीलकंठकलिओ, 'हरो'त्ति तं मन्नसे तहवि ।। कमलासणो वि जेणं दाणाइचउहधम्मचउवयणो । हंसगमणो य गमणे तेण तुमं मनसे 'बंभो' ।। बुद्धं अवगयमेगट्ठियं ति, जीवाइतत्तसविसेसं । वरविमलकेवलाओ, तेण तुमं मनसे 'बुद्धो' ।।
6 (वी.स्त.३९-४२) इत्येवमुक्तम् ।।
एतेन → विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः - (अथ.२/३४/४) इति अथर्ववेदवचनमपि व्याख्यातम् । प्रकृते →
रुद्रो महेश्वरः शम्भुर्महादेवः सदाशिवः । अनेकाऽऽकृतिनाम्नाऽहं जैनेन्द्रो धर्मरक्षकः ।।
आदिनाथो महाब्रह्मा जगन्नाथोऽस्मि वस्तुतः । महाविष्णुः परब्रह्म मत्तो नान्योऽस्ति शक्तितः।। 6 (म.गी.३/११२-११३) इति महावीरगीताकारिके अपि स्मर्तव्ये । ग्रन्थकृताऽपि वैराग्यकल्पलतायां→ एको हि भासते राग-द्वेष-मोहविवर्जितः । सर्वत्र तत्त्वतो देवः, सर्वज्ञः सर्वदर्शनः ।। इत्थमेकस्वरूपे हि, देवतत्त्वे विनिश्चिते । न स्युर्नानाविधाः शब्दा, बुधानां भेदबुद्धये ।। बुद्धो ब्रह्माऽथवा विष्णुर्महेशो वा स उच्यताम् । जिनेश्वरो वा सर्वत्र भावतोऽर्थो न भिद्यते ।। भजेद् य एव तं ज्ञात्वा, भावात् तस्यैव स प्रभुः । ममास्ति तव नास्तीति, सर्वोऽयं मत्सरभ्रमः ।। सर्वेषां हि समानोऽसौ, निःशेषक्लेशवर्जितः । दत्ते मोक्षं सुविज्ञातः, पैतृकी कस्य जाह्नवी ?।। विभिन्ना अपि पन्थानो, यान्ति नद्य इवाम्बुधौ । कर्मप्रपञ्चनिर्मुक्ते, तत्रैकत्रैव योगिनाम् ।। यैख़तोऽसौ महाभागैः, श्रितश्चाऽऽशयशुद्धितः । तेषां निश्चयभाजां स्याद् विवादः केन हेतुना ?।।
- (वै.क.स्त. ९/१०५०,१०५२-१०५७) इत्युक्तमित्यवधेयम् ।
एतेन → सर्वदेवनमस्कारो मां वीरं प्रतिगच्छति । मद्धर्मं प्रतिगच्छन्ति सर्वधर्माः स्वभावतः ।। - (म.गी.२/२८३) इति महावीरगीतावचनमपि व्याख्यातम् ।।१६/१८।। ननु मुक्तादिप्ररूपणायां 'अनादिशुद्धत्व-सर्वगतत्वाऽसर्वगतत्वैकान्तनित्यत्व-क्षणभङ्गुरत्वादिरूपेणार्थभे
श्वरभां मेहमIESeपना व्यर्थ छ.. અન્ય દર્શનકારો ભગવાનમાં જે જે વિશેષ ગુણધર્મની કલ્પના કરે છે તેના નિરાકરણ માટે કાલાતીત महात्मा ४॥वे छ -
ગાથાર્થ :- “ઈશ્વર અનાદિશુદ્ધ છે.” ઈત્યાદિરૂપે ઈશ્વરમાં જે વિશેષ ગુણધર્મની કલ્પના તે તે शनशास्त्र अनुसारे ४२वम मावे छेते ५९। निरर्थ छ- मेम. (= असतात) भानुं धुं. (१६/१८)
ટીકાર્થ:- “ઈશ્વર અનાદિશુદ્ધ છે. આ પ્રકારની માન્યતા જેમાં પ્રથમ છે તેવા તે ભેદભાવ ઈશ્વરમાં કલ્પવા નિરર્થક છે. જેમ કે શૈવ = નૈયાયિક વિદ્વાનો ઈશ્વરને અનાદિશુદ્ધ અને સર્વગત માને છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org