________________
११२४
अस्मदुक्तः स एव मुक्तादिः स्यात् । संज्ञाभेदो
केवलम् ।।१८।।
• भगवत्पदनिरुक्तिः •
=
=
नामनानात्वम् अत्र =
दुच्यते भगवान् महेश्वरः ← ( अथ. ३२ / ४ ) इति च अथर्वशिरउपनिषद्वचनं व्याख्यातम् । ऐश्वर्यादियोगाद् भगवानपि कथ्यते । तदुक्तं विष्णुपुराणे ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ।। ← (वि.पु. ६/५/७४) इति ।
प्रकृते यस्मान्महत ईशः शब्दध्वन्या चात्मशक्त्या च महत ईशते तस्मादुच्यते महेश्वरः ← (शां.३/१) इति शाण्डिल्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यं बहुश्रुतैः ।
भगवत्पदनिरुक्तिः विसुद्धिमग्गे भग्गरागो भग्गदोसो भग्गमोहो अनासवो । भग्गास्स पापका धम्मा भगवा तेन वुच्चति ।। ← (वि.म.७ / ५९ ) इत्येवं बौद्धमतानुसारेणोपदर्शिता साऽपीहानुयोज्या पूर्वोक्ता (पृ. ९५९) । याऽपि चार्हत्पदनिरुक्तिः → आरकत्ता हतत्ता च किलेसारीन सो मुनि । हतसंसारचक्कारो पच्चयादीन चारहो ।। न रहो करोति पापानि अरहं तेन पवुच्चति ।। ← (वि.म.७/ २५) इत्येवं विसुद्धिमग्गे दर्शिता साऽपीह यथातन्त्रमनुयोज्या सर्वतन्त्रविशारदैः । ' आरकत्ता = दूरकृतत्वात्, किसान क्लेशारीन्, पच्चयादीन = पूजादीन्' शिष्टं स्पष्टम् ।
तदुक्तं द्वादशारनयचक्रे अपि स एवाऽर्हन् बुद्धो ब्रह्मा विष्णुः ईश्वरः ← ( द्वा.न.च.भाग१/पृ.२३२) इति । यथोक्तं तद्वृत्तौ श्रीसिंहसूरिगणिक्षमाश्रमणैः → अर्हति सकललोकातिशयपूजामिति अर्हन् । बुध्यत इति बुद्धः । बृहत्त्वाद् ब्रह्मा, वर्धनाद् वर्धमानो वा । व्याप्नोतीति विष्णुः ज्ञानात्मनैव सर्वानर्थान् । ईशनाद् ईश्वरः ← ( द्वा.न. च. भा. १ पृ. २३३ ) इति
।
सिद्धर्षिगणिवरैरपि उपमितिभवप्रपञ्चायां कथायां अष्टमे प्रस्तावे अनेकोऽप्येकरूपोऽसौ गीयते वरसूरिभिः । अचिन्त्यवीर्ययुक्ताऽऽत्मा, परमात्मा स गद्यते ।। स बुद्धः स विरिञ्चाख्यः स विष्णुः स महेश्वरः । निष्कलः स जिनः प्रोक्तो, दृष्टतत्त्वैर्महात्मभिः ।। ← (उप.भ.प्र. ८/२७६-२७७ ) इत्युक्तम् । मुक्तादिप्रज्ञापनायां 'कः परमोपास्यः ?' इति पर्यनुयोगे ‘यो मुक्तः स परमोपास्यः, यो बुद्धः स परमोपास्य' इत्येवं प्ररूपणायां केवलं नामनानात्वम्, परमोपास्यतावच्छेदकस्यैश्वर्यस्य दुर्वाररागादिदोषवृन्दविलयोपहितस्य सर्वत्रैकत्वात् ।
इदमेवाभिप्रेत्य श्रीहेमचन्द्रसूरिभिः महादेवस्तोत्रे महत्त्वादीश्वरत्वाच्च यो महेश्वरतां गतः । रागद्वेषविनिर्मुक्तं वन्देऽहं तं महेश्वरम् ।। ← (महा.स्तो. १) इत्युक्तम् ।
एतेन कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ← (ऋ. वे. १०/११४/५ ) इति, एकं सद् विप्रा बहुधा वदन्ति ← (ऋ. वे. २/१६४/४६) इति च ऋग्वेदवचनमपि व्याख्यातम्, यथावस्थितपारमार्थिकगुणाऽपेक्षया जिन-हरि-हर-ब्रह्म- बुद्धादीनामभिन्नत्वात् । अत एव वीरस्तवे
द्वात्रिंशिका - १६/१८
मुक्तादिप्रज्ञापनायां
=
અન્ય પણ ઈશ્વરસંબંધી નામોનો સંગ્રહ કરવા માટે છે. હકીકત એ છે કે તે બધા જ્ઞાનાદિના ઉત્કર્ષ સ્વરૂપ ઐશ્વર્યથી યુક્ત છે. તે કારણે અમે જણાવેલ ઈશ્વર મુક્ત આદિ સ્વરૂપ જ છે. દેવની ઓળખાણમાં भुक्त, बुद्ध, अरिहंत, ईश्वर.. आ अधा इत नाममेह ४ छे, वस्तुमेह } अर्थलेह नथी. (१९ / १८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org