SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ • विघ्नदशकविचारः • १११७ रजस्तमोमयाद्दोषाद्विक्षेपाचेतसो ह्यमी । सोपक्रमा जपान्नाशं यान्ति शक्तिहतिं परे ।। १३ ।। रज इति । अमी हि रजस्तमोमयाद्दोषाच्चेतसो विक्षेपाः = एकाग्रताविरोधिनः परिणामाः । योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते । ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नमुच्यते ।। द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता । आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ।। षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् । विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् । अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः । इत्येतद्विघ्नदशकं विचारेण त्यजेद् बुधः । ← (यो. कुं.५६-६१ ) इत्येवमुपदर्शितमित्यवधेयम् । तेजोबिन्दूपनिषदि तु → समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ।। लयस्तमश्च विक्षेपः तेजः स्वेदश्च शून्यता । एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः ।। ← (ते.बिं.१/४०-४१) इत्येवमुक्तानि विघ्नानि । तदनुसारेण शङ्कराचार्येण अपरोक्षानुभूती समाधौ क्रियमाणे तु विघ्नान्यायान्ति वै बलात् । अनुसन्धानराहित्यमालस्यं भोगलालसम् ।। लयस्तमश्च विक्षेपो रसाऽऽस्वादश्च शून्यता । एवं यद् विघ्नबाहुल्यं त्याज्यं ब्रह्मविदा शनैः ।। ← (अपरो. १२७/१२८) इत्येवं समाधिप्रत्यूहा दर्शितास्तेऽपीह यथातन्त्रमनुयोज्याः । अमृतनादोपनिषदि भयं क्रोधमथाऽऽलस्यमतिस्वप्नाऽतिजागरम् । अत्याहारमनाहारं नित्यं योगी विवर्जयेत् ।। ← (अमृ.२८) इत्येवं भयादीनां समाधिविघ्नत्वादेवाऽवश्यवर्जनीयत्वमुक्तं तदपीहानुसन्धेयमविघ्नसमाधिकामिभिः ।।१६ / १२ ॥ अमीषां चित्तविक्षेपत्वमाविष्करोति- 'रज' इति । अमी हि व्याधि - स्त्यानादयो रजस्तमोमयाद् दोषात् प्रवर्तमानाः चेतस एकाग्रताविरोधिनः परिणामाः । ये चित्तं योगाद् विक्षिपन्ति = भ्रंशयन्ति ते नव विक्षेपाः = योगस्यान्तरायाः = विघ्नाः' (यो. सुधा. १/३०) इति योगसुधाकरे सदाशिवेन्द्रः । ' रजस्तमोजन्या एते नव चित्तविक्षेपकत्वाद् योगान्तरायाः । चित्तस्य विक्षेपः अनेकवृत्तित्वम्' (ना.भ. १/३०) इति नागोजीभट्टः । एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्यभिधीयन्ते' (यो.सू.भा. १/३०) इति योगसूत्रभाष्यकारः (यो.सू. भा. १ / ३० ) । ' अन्तराया नव एताश्वित्तवृत्तयो योगान्तराया योगविरोधिनः चित्तस्य विक्षेपाः । चित्तं खल्वमी व्याध्यादयो योगाद् विक्षिपन्ति अपनयन्तीति विक्षेपाः' (त.वै. १/३० ) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः = = * જૈન દર્શન મુજબ વિઘ્નનાશ વિચાર # ગાથાર્થ :- આ વ્યાધિ વગેરે રોમય-તમોમય દોષના લીધે ચિત્તના વિક્ષેપ સમજવા. સોપક્રમ એવા તે ચિત્તવિક્ષેપ-દોષસ્વરૂપ વિઘ્નો જપના લીધે નાશ પામે છે. તથા નિરુપક્રમ વિઘ્નોની અનુબંધશક્તિ लांगे छे. (१६/१3) ટીકાર્થ :- આ વ્યાધિ વગેરે નવ વિઘ્નો રજોમય કે તમોમય દોષના લીધે ઉત્પન્ન થાય છે. તેથી તે મનની એકાગ્રતા તોડે છે. આમ ચિત્તની એકાગ્રતાના વિરોધી પરિણામ સ્વરૂપ હોવાથી તે ચિત્તવિક્ષેપ કહેવાય છે. રવાના કરી શકાય તેવા કર્મથી ઉત્પન્ન થયેલા તે વિઘ્નો વિશેષ જાપ સ્વરૂપ ઈશ્વર પ્રણિધાન Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy