________________
१११६
• योगान्तरायनिरूपणम् • द्वात्रिंशिका-१६/१२ विषयाऽऽवेशाद् = बाह्येन्द्रियाऽर्थव्याक्षेपलक्षणात् अखेदः = अनुपरमलक्षणः किलाऽविरतिभवेत् ।।११।। भूम्यलाभः समाधीनां भुवोऽप्राप्तिः कुतोऽपि हि । लाभेऽपि तत्र चित्तस्याऽप्रतिष्ठा त्वनवस्थितिः।।१२।।
भूम्यलाभ इति । कुतोऽपि हेतोः (हि) समाधीनां भुवः = स्थानस्य अप्राप्तिः = भूम्यलाभः । लाभेऽपि = समाधिभूप्राप्तावपि तत्र = समाधिभुवि चित्तस्याऽप्रतिष्ठा = अनिवेशः त्वनवस्थितिः ।।१२।।
__अविरतिमाह- बाह्येन्द्रियार्थव्याक्षेपलक्षणात् विषयाऽऽवेशाद् अनुपरमलक्षणः अखेदः = अविरतिः । 'अविरतिः = चित्तस्य विषयसंप्रयोगात्मा गर्धः' (यो.सू.भा.१/३०) इति योगसूत्रभाष्यकारः राजमार्तण्डकारश्च । 'अविरतिः = विषयाऽऽसक्तिः' (चं.१/३०) इति अनन्तदेवः चन्द्रिकायां व्याचष्टे । भावागणेश-नागोजीभट्ट-रामानन्द-सदाशिवेन्द्रादीनामप्येवमेवाभिप्रायः ।।१६/११।। ____ अलब्धभूमिकत्वं व्याख्यानयति, 'भूम्यलाभ' इति । मधुमत्यादयः समाधिभूमयः, तासामेकतमस्या अपि साधनानुष्ठानेऽप्यप्राप्तिः = भूम्यलाभः ।।
समाधिभूप्राप्तावपि समाधिभुवि चित्तस्याऽनिवेशः = अनवस्थितिः । 'अनवस्थितत्वं = योगभूमिलाभेऽपि योगभ्रंशः' (भा.ग.१/३०) इति भावागणेश-नागोजीभट्टौ । 'अनवस्थितत्वं नाम लब्धायां भूमौ चित्तस्याऽस्थिरत्वम् । पूर्वभूमौ हि स्थितं चित्तं उत्तरभूमिं जयेत्, तस्मादस्थिरत्वं दोष इत्यर्थः' (म.प्र.१/३०) इति मणिप्रभाकृद् । 'साक्षात्कारपर्यन्तमेव चित्तस्य तत्तद्भूम्यवस्थानमपेक्षितम् । अतोऽकृतसाक्षात्कारस्य योगाऽऽरूढस्यापि भ्रंशोऽनवस्थितत्वमेव भवतीति (यो.वा.१/३०) योगवार्तिककारः । 'आरूढयोगोऽपि निपात्यतेऽधः सङ्गेन योगी किमुताऽल्पसिद्धिः ।। वि.पु.४/२/१२४) इति विष्णुपुराणवचनमप्यत्र प्रमाणम् ।
__ अनवस्थितिः विक्षेपपदेनाऽपि प्रतिपाद्यते । तस्य समाधिविघ्नात्मकत्वादेव मैत्रायण्युपनिषदि → लय-विक्षेपरहितं मनः कृत्वा सुनिश्चलम् । यदा यात्यमनीभावं तदा तत् परमं पदम् ।। - (मैत्रा.६/ ३४) इत्युक्तमित्यवधेयम् ।।
योगकुण्डल्युपनिषदि तु विघ्नदशकं → दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् । बहुसङ्क्रमणं नित्यं रोधान्मूत्र-पुरीषयोः ।। विषमाऽशनदोषाच्च प्रयास-प्राणचिन्तनात् । शीघ्रमुत्पद्यते रोगः स्तम्भयेद् यदि संयमी ।।
(૭) બાહ્ય ઈન્દ્રિયના વિષયોમાં આકર્ષણ સ્વરૂપ વિષયાવેશના કારણે વિષયોમાં ખેદ ન થવો, વિષયોથી અટકવું નહિ તે ખરેખર અવિરતિ બને છે. (૧૬/૧૧)
ગાથાર્થ :- કોઈ પણ રીતે સમાધિની ભૂમિકાની પ્રાપ્તિ ન થાય તે ભૂમિઅલાભ કહેવાય. સમાધિભૂમિનો લાભ થવા છતાં પણ તેમાં ચિત્ત ચોટે નહિ તે અનવસ્થિતિ = અનવસ્થાન કહેવાય.(૧૬/૧૨)
ટીકાર્થ - (૮) કોઈ પણ કારણસર સમાધિની મધુમતી વગેરે ભૂમિકાની પ્રાપ્તિ ન થાય તે ભૂમિઅલાભ કહેવાય. પણ (૯) સમાધિની ભૂમિકાનો લાભ થવા છતાં પણ તે મધુમતી વગેરે સમાધિભૂમિમાં પોતાના મનને સ્થિર ન રાખવું તે અનવસ્થિતિ = અનવસ્થા કહેવાય. (૧૬/૧૨). १. मुद्रितप्रतौ 'कथंचन' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org