SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ • विघ्नवैविध्योपदर्शनम् • १११५ आरब्धेऽप्यनुत्थानशीलता । आदित एव कर्माप्रारम्भः । प्रमादोऽयत्नः समाधिसाधनेषु औदासीन्यं चाकर्मनिष्ठता आलस्यं च हेतुषु माध्यस्थ्यं, न तु पक्षपातः ।। १० ।। विभ्रमो व्यत्ययज्ञानं सन्देहः स्यान्न वेत्ययम् । अखेदो विषयाऽऽवेशाद् भवेदविरतिः किल । । ११ ।। विभ्रम इति । विभ्रमो = व्यत्ययज्ञानं, रजते रङ्गबुद्धिवत् इष्टसाधनेऽपि योगेऽनिष्टसाधनत्व निश्चयः । सन्देहः 'अयं योगः स्याद्वा न वेति आयाकारः । नागोजीभट्टः । ' स्त्यानं चित्तस्य लुब्धत्वेऽपि कर्मानर्हता' इति (म. प्र. १ / ३० ) मणिप्रभाकृत् । प्रमादः = आरब्धेऽपि योगानुष्ठाने अनुत्थानशीलता । ' प्रमादः = समाधिसाधनानामभावनम्' इति योगसूत्रभाष्यकारः । ' अभावनं = अकरणं, तत्राऽप्रयत्न इति यावदिति (त. वै. १/३०) तत्त्ववेशारदीकृत् । ‘अभावनं अननुसन्धानमिति (यो. वा. १/३०) योगवार्तिककारः । ' प्रमादः = अननुष्ठानशीलता' (रा.मा. १/३०) इति राजमार्तण्डकृद् । 'प्रमादः = अनवधानम्' (भा.ग.वृ.१/३०) इति भावागणेशः । ' प्रमादः = शमादिभावनाऽभावः' (ना.भा.वृ. १/३०) इति नागोजीभट्टः । आलस्यञ्च = समाधिसाधनेषु माध्यस्थ्यं = अपक्षपातः । ‘आलस्यं = कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः' (यो.भा.१/३०) इति योगसूत्रभाष्यकारः । भावागणेश-नागोजीभट्टाऽनन्तदेवानामप्ययमेवाभिप्रायः । प्रणवजपवद्विजनसेवन-तीव्रवैराग्यादिनाऽप्येतेषां विघ्नानां सङ्क्षयः सम्भवतीत्यवधेयम् । तदुक्तं राम = = Jain Education International = = = १. हस्तादर्शे 'कर्मारंभ' इत्यशुद्धः पाठः । गीतायां → एतदभ्यासकाले तु प्रतिबन्धा भवन्त्यलम् । स्वेद -कम्प - भय - श्रान्ति - निद्राऽऽलस्य-लयादयः 11 युक्त्या सुसूक्ष्मया धीमान् तान्निरस्य प्रयत्नतः । एकान्तसेवया नित्यमभ्यसेत्तमतन्द्रितः ।। पुत्रदारादयो लोका देवा इन्द्रादयोऽपि च । निष्कामस्याऽस्य योगस्य भवेयुर्विघ्नकारिणः ।। वैराग्येण सुतीव्रेण तान् विघ्नांश्च महामतिः । निहत्याऽक्षुब्धहृदयो ध्यानयोगं सदाऽभ्यसेत् ।। ← (रा.गी.१५/३३-३६) इत्यवधेयम् ।।१६ / १०॥ विभ्रमः व्यत्ययज्ञानम् । 'भ्रान्तिदर्शनं गुर्वादिप्रमितार्थविपरीतनिश्चयः' (रा.मा. १/३०) इति राजमार्तण्डकृद् । योगवार्तिककृतोऽप्ययमेवाभिप्रायः । ' भ्रान्तिदर्शनं शास्त्रोक्तार्थविपरीतनिश्चयः' (ना. भ. १ / ३० ) इति नागोजीभट्टः । = सन्देह इति । 'उभयकोट्यालम्बनं ज्ञानं संशयः “योगः साध्यो न वा ?” इति' (रा.मा. १/३०) इति राजमार्तण्डकृद्। ‘संशयः = गुरुशास्त्रोक्तसाधनेषूभयकोटिकं ज्ञानमिति (भा.ग.१/३०) भावागणेशः કરેલા કાર્યમાં પણ ઉત્સાહ, પ્રયત્ન મૂકી દેવો તે પ્રમાદ કહેવાય. (૪) સમાધિના સાધનોમાં પક્ષપાત કરવાના બદલે મધ્યસ્થતા ઉદાસીનતા રાખવી તે આળસ કહેવાય. (૧૬/૧૦) गाथार्थ :- विपरीत ज्ञान = વિભ્રમ. ‘આ છે કે નહિ ?' આ સંદેહ કહેવાય. વિષયના વ્યાક્ષેપના કારણે વિષયોથી અટકવું નહિ તે અવિરતિ. (૧૬/૧૧) ટીકાર્થ :- (૫) ચાંદીમાં ચળકાટના લીધે કલઇની બુદ્ધિની જેમ વિપર્યાસ થવો તે વિભ્રમ કહેવાય. પ્રસ્તુતમાં ઈષ્ટ એવી યોગસાધનામાં પણ અનિષ્ટપણાનો નિશ્ચય થવો તે વિભ્રમ કહેવાય. (૬) ‘આ યોગસાધના થશે કે નહિ ?' તેવો ડામાડોળ બોધ પ્રસ્તુતમાં સંદેહ કહેવાય. = = = For Private & Personal Use Only = = www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy